摩诃婆罗多 · 章 15.28
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
15.28.1
युधिष्ठिर महाबाहो कच्चित्वं कुशली ह्यसि ।
सहितो भ्रातृभिः सर्वैः पौरजानपदैस्तथा ॥ १५.२८.१ ॥
大臂的坚战啊,你安好吗?你与所有兄弟、城中居民和乡野百姓都安好吗?
15.28.2
ये च त्वामनुजीवन्ति कच्चित्तेऽपि निरामयाः ।
सचिवा भृत्यवर्गाश्च गुरवश्चैव ते नृप ॥ १५.२८.२ ॥
依靠你生活的人,他们也都安康吗?国王啊,你的大臣、侍从群体和长辈们也都安好吗?
15.28.3
कच्चित्तेऽपि निरातङ्का वसन्ति विषये तव ।
कच्चिद्वर्तसि पौराणीं वृत्तिं राजर्षिसेविताम् ॥ १५.२८.३ ॥
在你的国土中,他们也无所畏惧地生活吗?你是否遵循王仙们所奉行的古老行为准则?
15.28.4
कच्चिन्न्यायाननुच्छिद्य कोशस्तेऽभिप्रपूर्यते ।
अरिमध्यस्थमित्रेषु वर्तसे चानुरूपतः।
ब्राह्मणानग्रहारैर्वा यथावदनुपश्यसि ॥ १५.२८.४ ॥
你的府库是否在不违背正义的情况下充盈?你是否对敌人、中立者和朋友都行事得当?你是否以阿格拉哈拉的赐地,妥善照料婆罗门?
15.28.5
कच्चित्ते परितुष्यन्ति शीलेनि भरतर्षभ ।
शत्रवोपि कुतः पौरा भृत्या वा स्वजनोपि वा ॥ १५.२८.५ ॥
婆罗多族的雄牛啊,他们是否因你的品行而心满意足?若连敌人也满意,那么城中居民、侍从乃至你的亲族,岂不更应满意?
15.28.6
कच्चिद्यजसकि राजेन्द्र श्रद्धावान्पितृदेवताः ।
अतिथीनन्नपानेनि कच्चिदर्चसि भारत ॥ १५.२८.६ ॥
诸王之主啊,你是否怀着虔敬为祖先与诸神举行祭祀?婆罗多啊,你是否以饮食招待客人?
15.28.7
कच्चिन्नयपथे विप्राः स्वकर्मनिरतास्तव ।
क्षत्रिया वैश्यवर्णा वा शूद्रा वाऽपि कुटुम्बिनः ॥ १५.२८.७ ॥
你的婆罗门是否遵循正道,专心履行自己的本分?刹帝利、吠舍,乃至身为家主的首陀罗,是否也是如此?
15.28.8
कच्चित्स्त्रीबालवृद्धं ते न शोचति न याचते ।
जामयः पूजिताः कच्चित्तव गेहे नरर्षभ ॥ १५.२८.८ ॥
你家中的妇女、儿童和老人是否不悲伤、不乞讨?啊,人中之雄,你家中的女性亲属是否受到尊敬?
15.28.9
कच्चिद्राजर्षिवंशोऽयं त्वामासाद्य महीपतिम् ।
यथोचितं महाराज यशसा नावसीदति ॥ १५.२८.९ ॥
这一脉王仙之族,既然得到了你这位大地之主,是否在名望上如理地没有衰落?大王啊!
15.28.10
इत्येवादिनं तं स न्यायवित्प्रत्यभाषत ।
कुशलप्रश्नसंयुक्तं कुशलो वाक्यमब्रवीत् ॥ १५.२८.१० ॥
对如此发问的人,知法者作答;善辩者说出了问候安好的话语。
15.28.11
अपि ते वर्धते राजंस्पपो मन्दः श्रमश्च ते ॥ १५.२८.११ ॥
大王啊,你的苦行是否在增长?你的虚弱与疲劳是否在减轻?
15.28.12
अपि मे जननी चेयं शुश्रूषुर्विगतक्लमा ।
अथास्याः सफलो राजन्वनवासो भविष्यति ॥ १५.२८.१२ ॥
我的母亲侍奉周到,是否也已不再疲惫?大王啊,那时她的林居生活便会有成果。
15.28.13
इयं च माता ज्येष्ठा मे शीतवाताध्वकर्शिता ।
घोरेण तपसा युक्ता देवी कच्चिन्न शोचति ॥ १५.२८.१३ ॥
我的长母亲被寒冷、风和路途所消瘦,正行苦行,这位女神难道不悲伤吗?
15.28.14
हतान्पुत्रान्महावीर्यान्क्षत्रधर्मपरायणान् ।
नापध्यायति वा कच्चिदस्मान्पापकृतः सदा ॥ १५.२८.१४ ॥
她难道不常想念那些被杀的、勇猛非凡、奉行刹帝利之法的儿子们吗?她难道不也常常想到我们这些罪人吗?
15.28.15
क्व चासौ विदुरो राजन्नेमं पश्यामहे वयम् ।
संजयः कुशली चायं कच्चिन्नु तपसि स्थिरः ॥ १५.२८.१५ ॥
大王,那位毗睹罗在哪里?我们看不见他。而这位桑阁耶安好——他是否也在苦行中坚定不移?
15.28.16
इत्युक्तः प्रत्युवाचैनं धृतराष्ट्रो जनाधिपम् ।
कुशली विदुरः पुत्र तपो घोरं समाश्रितः ॥ १५.२८.१६ ॥
被这样询问后,持国王回答那位人主说:“孩子,毗睹罗安好,他已经投身于苛烈的苦行。”
15.28.17
वायुभक्षो निराहारः कृशो धमनिसंततः ।
कजाचिद्दृश्यते विप्रैः शून्येऽस्मिन्कानने क्वचित् ॥ १५.२८.१७ ॥
他以风为食,不食饮食,形体枯瘦,血脉突露,有时被婆罗门们在这片荒寂的森林中某处看见。
15.28.18
इत्येवं ब्रुवतस्तस्य जटी वीटामुखः कृशः ।
दिग्वासा मलदिग्धाङ्गो वनरेणुसमुक्षितः ॥ १५.२८.१८ ॥
他这样说话之时——发结纠缠,口含槟榔叶,形体枯瘦,一丝不挂,身体沾满污垢,覆盖着林中的尘土。
15.28.19
दूरादालक्षितः क्षत्ता तत्राख्यातो महीपतेः ।
कविदुरस्त्वेष धर्मात्मा जनं दृष्ट्वा निवर्तते ॥ १५.२८.१९ ॥
远远望见被国王指明的正直的司库维杜罗,他见到众人便转身返回。
15.28.20
निवर्तमानं सहसा जनं दृष्ट्वाऽऽश्रमं प्रति ।
तमन्वधावन्नृपतिरेक एव युधिष्ठिरः।
प्रविशन्तं वनं घोरं लक्ष्यालक्ष्यं क्वचित्क्वचित् ॥ १५.२८.२० ॥
见到众人,他忽然转身返回修行处;国王坚战独自追赶他,他走进可怕的森林,时而可见,时而不见。
15.28.21
भोभो विदुर राजाऽहं दयितस्ते युधिष्ठिरः ।
इति ब्रुवन्नरपतिस्तं यत्नादभ्यधावत ॥ १५.२८.२१ ॥
“哦,维杜罗,哦,维杜罗!我是国王坚战,你所爱的人。”国王一边说着,一边急切地朝他追去。
15.28.22
ततो विविक्त एकान्ते तस्थौ बुद्धिमतां वरः ।
विदुरो वृक्षमाश्रित्य कञ्चित्तत्र वनान्तरे ॥ १५.२८.२२ ॥
于是,智者中最杰出的维杜罗在那片森林的一处僻静之地,倚着一棵树站立。
15.28.23
तं राजा क्षीणभूयिष्ठमाकृतीमात्रसूचितम् ।
अभिजज्ञे महाबुद्धिं महाबुद्धिर्युधिष्ठिरः ॥ १५.२८.२३ ॥
国王,大智慧的坚战,认出了他——维杜罗已极度消瘦,只能从身形辨认。
15.28.24
युधिष्ठिरोऽहमस्मीति वाक्यमुक्त्वाऽग्रतः स्थितः ।
विदुरस्याश्रमे राजा स च प्रत्याह संज्ञया ॥ १५.२८.२४ ॥
国王说出“我是坚战”之后站在他面前;在维杜罗的修行处,他以手势作答。
15.28.25
ततः सोऽनिमिषो भूत्वा राजानं तमुदैक्षत ।
संयोज्य विदुरस्तस्मिन्दृष्टिं दृष्ट्या समाहितः ॥ १५.२८.२५ ॥
于是他目不转睛地望着那位国王。维杜罗凝神专注,将目光投在他身上。
15.28.26
विवेश विदुरो धीमान्गात्रैर्गात्राणि चैव ह ।
प्राणान्प्राणेषु च दधदिन्द्रियाणीन्द्रियेषु च ॥ १५.२८.२६ ॥
智慧的维杜罗以自身肢体进入他的肢体之中,将气息置于气息之中,将诸根置于诸根之中。
15.28.27
स योगबलमास्थाय विवेश नृपतेस्तनुम् ।
विदुरो धर्मराजस्य तेजसा प्रज्वलन्निव ॥ १५.२८.२७ ॥
他依靠瑜伽的力量,进入国王的身体,光辉熠熠,仿佛因法王的威光而燃烧。
15.28.28
विदुरस्य शरीरं तु तथैव स्तब्धलोचनम् ।
वृक्षाश्रितं तदा राजा ददर्श गतचेतनम् ॥ १५.२८.२८ ॥
而维杜罗的身体也同样如此,双目呆滞,倚靠着一棵树。那时国王看见它已失去知觉。
15.28.29
बलवन्तं तथाऽऽत्मानं मेने बहुगुणं तदा ।
धर्मराजो महातेजास्तच्च सस्मार पाण्डवः ॥ १५.२८.२९ ॥
此时,大光辉的法王般ders坚战认为自己强大、具备诸多德性,并且也想起了这些。
15.28.30
पौराणमात्मनः सर्वं भविष्यं च विशाम्पते ।
योगधर्मं महातेजा व्यासेन कथिनं यथा ॥ १५.२८.३० ॥
众生之主啊,这位大光辉者回忆起自己全部的往昔与未来,以及毗耶娑所说的瑜伽之法。
15.28.31
धर्मराजश्च तत्रैनं सञ्चस्कारयिषुस्तदा ।
दग्धुकामोऽभवद्विद्वानथ वागभ्यभाषत ॥ १५.२८.३१ ॥
那时,法王坚战想为他举行仪式并焚化遗体;那位智者便开口说道。
15.28.32
भोभो राजन्न दग्धव्यमेतद्विदुरसंज्ञकम् ।
कलेबरमिहैवं ते धर्म एष सनातनः ॥ १५.२८.३२ ॥
啊,大王!名为毗杜罗的这具身体不应焚化;这里正是你永恒的法。
15.28.33
लोको वैकर्तनो नाम भविष्यत्यस्य भारत ।
यतिधर्ममवाप्तोसौ नैष शोच्यः परंतप ॥ १५.२८.३३ ॥
婆罗多之子啊,他的世界将名为“韦卡尔塔纳”;他已获得苦行者之法。啊,敌人的摧毁者,此人不值得悲悼。
15.28.34
इत्युक्तो धर्मराजः स विनिवृत्य ततः पुनः ।
राज्ञो वैचित्रवीर्यस्य तत्सर्वं प्रत्यवेदयत् ॥ १५.२८.३४ ॥
法王听后便折返,将一切禀告给毗奇德拉维里雅之子国王。
15.28.35
ततः स राजा धृतिमान्स च सर्वो जनस्तदा ।
भीमसेनादयश्चैव परं विस्मियमागताः ॥ १५.२८.३५ ॥
那时,那位坚定的国王、所有的人,以及婆摩森等人都极为惊讶。
15.28.36
तच्छ्रुत्वा प्रीतिमान्राजा भूत्वा धर्मजमब्रवीत् ।
आपो मूलं फलं चैव ममेदं प्रतिगृह्यताम् ॥ १५.२८.३६ ॥
国王听后心中欢喜,对法之子说:“水、根与果,请接受我的这份供奉。”
15.28.37
यदन्नो हि नरो राजंस्तदन्नोऽस्यातिथिः स्मृतः ।
इत्युक्तः स तथेत्येवं प्राह धर्मात्मजो नृपम् ॥ १५.२८.३७ ॥
大王啊,人所食之食物的主人,便被认为是他的客人。被如此告知后,法之子坚战便对国王说:“就照这样吧。”
15.28.38
फलं मूलं च बुभुजे राज्ञा दत्तं सहानुजः ।
ततस्ते वृक्षमूलेषु कृतवासपरिग्रहाः।
तां रात्रिमवसन्सर्वे फलमूलजलाशनाः ॥ १५.२८.३८ ॥
他们与幼弟一同食用了国王所赐的果实与根茎。随后,他们都在树根旁安置了住处,那一夜便以果实、根茎和水为食度过。