Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 15.29

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

15.29.1

ततस्तु राजन्नेतेषामाश्रमे पुण्यकर्मणाम् ।
शिवा नक्षत्रसम्पन्ना सा व्यतीयाय शर्वरी ॥ १५.२९.१ ॥

君王啊,那时在这些行善积德者的修道处,那个布满星辰的吉祥之夜过去了。

15.29.2

ततस्तत्र कथाश्चासंस्तेषां धर्मार्थलक्षणाः ।
विचित्रपदसञ्चारा नानाश्रुतिभिरन्विताः ॥ १५.२९.२ ॥

于是他们之间展开了以法与利为主题的言谈,措辞多样,并蕴含各种圣典知识。

15.29.3

पाण्डवास्त्वभितो मातुर्धरण्यां सुषुपुस्तदा ।
उत्सृज्य तु महार्हाणि शयनानि नराधिप ॥ १५.२९.३ ॥

君主啊,般度五兄弟于是舍弃贵重的床榻,睡在母亲周围的地上。

15.29.4

यदाहारोऽभकवद्राजा धृतराष्ट्रो महामनाः ।
तदाहारा नृवींरास्ते न्यवसंस्तां निशां तदा ॥ १५.२९.४ ॥

心胸宽广的国王持国如孩童般进食,那些英雄之人也如此进食;他们便在那夜留宿于此。

15.29.5

व्यतीतायां तु शर्वर्यां कृतपौर्वाह्णिकक्रियः ।
भ्रातृभिः सहितो राजा ददर्शाश्रममण्डलम् ॥ १५.२९.५ ॥

夜已过去,国王完成了午前的仪式,与兄弟们一同望见了这片修道者的聚落。

15.29.6

सान्तः पुरपरीवारः सभृत्यः सपुरोहितः ।
यथासुखं यथोद्देशं धृतराष्ट्राभ्यनुज्ञया ॥ १५.२९.६ ॥

与内宫随从、侍从和家祭司一同,安适地、依照所定的计划,并经持国允许而行。

15.29.7

ददर्श तत्र वेदीश्च सम्प्रज्वलितपावकाः ।
कृताभिषेकैर्मुनिभिर्हुताग्निभिरुपस्थिताः ॥ १५.२९.७ ॥

他在那里看见燃烧着明亮火焰的祭坛,已沐浴并向火中献祭的仙人侍立其旁。

15.29.8

वानेयपुष्पनिकरैराज्यधूमोद्गमैरपि ।
ब्राह्मेण वपुषा युक्ता युक्ता मुनिगणस्य ताः ॥ १५.२९.८ ॥

那些祭坛以堆积的林花和酥油升起的烟雾相映,具有仙人众所特有的婆罗门风貌。

15.29.9

मृगयूथैरनुद्विग्नैस्तत्रतत्र समाश्रितैः ।
अशङ्कितैः पक्षिगणैः प्रगीतैरिव च प्रभो ॥ १५.२९.९ ॥

主公啊,到处栖居的鹿群安然无惧,飞鸟群毫无惊疑,仿佛在高声歌唱。

15.29.10

केकाभिर्नीलकण्ठानां दात्यूहानां च कूजितैः ।
कोकिलानां कुहुरवैः सुखैः श्रुतिमनोहरैः ॥ १५.२९.१० ॥

孔雀的鸣叫、达图哈鸟的啼声与杜鹃的咕呼声,悦耳动听,令耳目心神为之欢悦。

15.29.11

प्राधीतद्विजघोषैश्च क्वचित्क्वचिदलङ्कृतम् ।
फलमूलसमाहारैर्महद्भिश्चोपशोभितम् ॥ १५.२९.११ ॥

处处有博学婆罗门诵读之声点缀,又有大量的果实与根茎堆积,显得格外庄严。

15.29.12

ततः स राजा प्रददौ तापसार्थमुपाहृतान् ।
कलशान्काञ्चनान्राजंस्तथैवौदुम्बरानपि ॥ १५.२९.१२ ॥

于是,国王将为苦行者带来的金瓶赠予,大王,同样也赠予了优昙婆罗木制的瓶。

15.29.13

अजिनानि प्रवेणीश्च स्रुक्स्रुवं च महीपतिः ।
कमण्डलूंश्चि स्थालीश्च पिठराणि च भारत ॥ १५.२९.१३ ॥

婆罗多之子啊,国王还施予了鹿皮、编绳、勺子斯鲁克与斯鲁瓦,水罐、锅和炊器。

15.29.14

भाजनानि च लौहानि पात्रीश्च विविधा नृप ।
यद्यदिच्छति यावच्च यदन्यदपि काङ्क्षितम् ॥ १५.२९.१४ ॥

国王啊,他还施予了铁器和各种碗具。他们所求的一切,要多少给多少,凡所希望的其他之物,也全都施予。

15.29.15

एवं स राजा धर्मात्मा परीत्याश्रममण्डलम् ।
वसु विश्राण्य तत्सर्वं पुनरायान्महीपतिः ॥ १५.२९.१५ ॥

如此,这位正法之心的国王绕行了苦行林的圈子,将所有财物分发完毕,又返回了。

15.29.16

कृताह्निकं च राजानं धृतराष्ट्रं महीपतिम् ।
ददर्शासीनमव्यग्रं गान्धारीसहितं तदा ॥ १५.२९.१६ ॥

那时,他看见已完成日常仪式的国王持国,安然地与甘陀利同坐。

15.29.17

मातरं चाविदूरस्थां शिष्यवत्प्रणतां स्थिताम् ।
कुन्तीं ददर्श धर्मात्मा शिष्टाचारसमन्विताम् ॥ १५.२९.१७ ॥

这位正法之心的人也看见了他的母亲贡蒂,她站在不远处,像弟子一样恭敬低头,具备端正的品行。

15.29.18

स तमभ्यर्च्य राजानं नाम संश्राव्य चात्मनः ।
निषीदेत्यभ्यनुज्ञातो वृस्यामुपविवेश ह ॥ १५.२९.१८ ॥

他向国王致敬,报出自己的名字,得到“请坐”的允许后,便在座位上坐下。

15.29.19

भीमसेनादयश्चैव पाण्डव भरतर्षभ ।
अभिवाद्योपसङ्गृह्य निषेदुः पार्थिवाज्ञया ॥ १५.२९.१९ ॥

婆罗多的雄牛啊,毗摩先那等般度之子行礼并拥抱后,遵国王之命而坐下。

15.29.20

स तैः परिवृतो राजा शुशुभेऽतीव कौरवः ।
बिभ्रद्ब्राह्मीं श्रियं दीप्तां देवैरिव बृहस्पतिः ॥ १५.२९.२० ॥

被他们环绕的俱卢王光彩非凡,承载着耀眼的梵天之光,如同被诸神环绕的brhaspati。

15.29.21

तथा तेषूपविष्टेषु समाजग्मुर्महर्षयः ।
शतयूपप्रभृतयः कुरुक्षेत्रनिवासिनः ॥ १५.२९.२१ ॥

他们就坐之后,以舍多由波为首的居住在俱卢原的大仙人们聚集而来。

15.29.22

व्यासश्च भगवान्विप्रो देवर्षिगणसेवितः ।
वृतः शिष्यैर्महातेजा दर्शयामास पार्थिवम् ॥ १५.२९.२२ ॥

尊贵的毗耶娑,大光明的婆罗门,受诸天仙众侍奉,被弟子环绕,向国王显现。

15.29.23

ततः स राजा कौरव्यः कुन्तीपुत्रश्च धर्मराट् ।
भीमसेनादयश्चैव प्रत्युत्थायाभ्यवादयन् ॥ १५.२९.२३ ॥

于是那位俱卢王、昆提之子法王,以及毗摩先那等人,起身恭敬地向他行礼。

15.29.24

समागतस्ततो व्यासः शतयूपादिभिर्वृतः ।
धृतराष्ट्रं महीपालमास्यतामित्यभाषत ॥ १५.२९.२४ ॥

此时,毗耶娑与舍多由波等人一同前来,对大地之主持国王说:“请坐。”

15.29.25

वरं तु विष्टरं कौश्यं कृष्णाजिनकुशोत्तरम् ।
प्रतिपेदे तदा व्यासस्तदर्थमुपकल्पितम् ॥ १५.२९.२५ ॥

于是毗耶娑接受了为他准备的上好座位,上面铺着黑羚羊皮和吉祥草。

15.29.26

ते च सर्वे द्विजश्रेष्ठा विष्टरेषु समन्ततः ।
द्वैपायनाभ्यनुज्ञाता निषेदुर्विपुलौजसः ॥ १५.२९.२६ ॥

在毗耶娑允许之下,那些大力的再生者中的上首们都在四周的座位上坐下。