Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 15.3

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

15.3.1

युधिष्ठिरस्य नृपतेर्दुर्योधनपितुस्तदा ।
नान्तरं दद्दशू राज्ये पुरुषाः प्रणयं प्रति ॥ १५.३.१ ॥

当时,在难敌之父、国王持国统治的王国中,细作们在对待坚战的情谊方面找不到任何空隙。

15.3.2

यदा तु कौरवो राजा पुत्रं सस्मार बालिशम् ।
तदा भीमं हृदा राजन्नपध्याति स पार्थिवः ॥ १५.३.२ ॥

大王啊,当俱卢王想起他愚蠢的儿子时,这位君主在心中对怖军怀着怨恨地思量。

15.3.3

कौरवश्चैव भीमश्च हृदाऽन्योन्यमवर्तताम् ।
ध्यायन्तौ श्लक्ष्णया वाचा त्वन्योन्यमभितिष्टितां ॥ १५.३.३ ॥

俱卢王与怖军彼此在心中反复思量,即使用温和的言语,也彼此对立而立。

15.3.4

अप्रकाशं व्यलीकानि चकारास्य वृकोदरः ।
आज्ञां प्रत्यहरच्चापि कृतकैः पुरुषैः सदा ॥ १५.३.४ ॥

狼腹(怖军)暗中对他作出种种加害,并借助假扮之人,经常撤销他的命令。

15.3.5

स्मरन्दुर्मन्त्रितं तस्य वृत्तान्यप्यस्य कानिचित् ।
असकृच्चाप्युवाचेदं हतास्ते मन्दचेतसः ॥ १५.३.५ ॥

他想起对方的恶毒谋略和他的一些行为,又一再说道:

15.3.6

अथ भीमः सुहृन्मध्ये बाहुशब्दं तथाऽकरोत् ।
संश्रवे धृतराष्ट्रस्य गान्धार्याश्चाप्यमर्षणः ॥ १५.३.६ ॥

于是怖军无法忍耐,在朋友之中拍击臂膀发出声响,使持国与甘陀利都能听见。

15.3.7

स्मृत्वा दुर्योधनं शत्रुं कर्णदुःखासनावपि ।
प्रोवाचेदं सुसंरब्धो भीमः सपरुषं वचः ॥ १५.३.७ ॥

怖然想起敌人难敌、迦尔纳与难降,极为愤怒的怖军说出了这些严厉的话。

15.3.8

अन्धस्य नृपतेः पुत्रा मया परिघवाहुना ।
नीता लोकममुं सर्वे नानाशस्त्रास्त्रयोधिनः ॥ १५.३.८ ॥

盲王的所有儿子,精通各种兵器与投掷武器的战士,都被我这持铁杵之臂者送往那个世界。

15.3.9

इमौ तौ परिघप्रख्यौ भुजौ मम दुरासदौ ।
ययोरन्तरमासाद्य धार्तराष्ट्राः क्षयं गताः ॥ १५.३.९ ॥

我这两条如铁杵般的手臂难以抵挡;在它们之间找到空隙后,持国的儿子们走向了毁灭。

15.3.10

ताविमौ चन्दनेनाकौ वन्दनीयौ च मे भुजौ ।
याभ्यां दुर्योधनो नीतः क्षयं ससुतबान्धवः ॥ १५.३.१० ॥

这两条涂着檀香、值得敬重的手臂,借助它们,难敌与他的儿子及亲族被引向了毁灭。

15.3.11

एतास्चान्याश्च विविधाः शल्यभुता नराधिपः ।
वृकोदरस्य ता वाचः श्रुत्वा निर्वेदमागमत् ॥ १५.३.११ ॥

听到这些以及许多如箭刺般的话,那位人主因狼腹(怖军)之言而陷入沮丧。

15.3.12

सा च बुद्धिमती देवी कालपर्यायवेदिनी ।
गान्धारी सर्वधर्मज्ञा तान्यलीकानि शुश्रुवे।
कुन्तीं वर्या तु संवीक्ष्य शापे नास्याकरोन्मति ॥ १५.३.१२ ॥

那位智慧的女神甘陀利,通晓时运与一切法,听到了那些不实之言;但见到贡蒂时,她并未打算诅咒她。

15.3.13

ततः पञ्चदशे वर्षे समतीते नराधिपः ।
राजा निर्वेदमापेदे भीमवाग्बाणपीडितः ॥ १५.३.१३ ॥

此后十五年过去,国王被毗摩的言语之箭所折磨,生起了厌世之心。

15.3.14

सुखासक्तं कृच्छ्रपरं ज्ञात्वा चैव युधिष्ठिरम् ।
तपोयोगात्तपस्तप्तुं मनश्चक्रे महामतिः ॥ १५.३.१४ ॥

他知道坚战贪恋享乐、不喜苦行,于是这位大智者决心借瑜伽式苦修而修行苦行。

15.3.15

नान्वबुध्यत तद्राजा कुन्तीपुत्रो युधिष्ठिरः ।
श्वेताश्वोवाऽथकुन्ती वा द्रौपदी वा यशस्विनी ॥ १५.३.१५ ॥

贡蒂之子国王坚战未曾察觉,白马、贡蒂,或光耀的德罗波蒂也未察觉。

15.3.16

माद्रीपुत्रौ च भीमस्य मतं तावन्ववर्तताम् ।
राज्ञस्तु चित्तं रक्षन्तौ नोचतुः स्वयमप्रियम् ॥ १५.३.१६ ॥

玛德莉之二子遵从毗摩的意见,但为顾全国王之心,他们自己并未说出任何不悦耳的话。

15.3.17

ततः समानयामास धृतराष्ट्रः सुहृज्जनम् ।
बाष्पसंदिग्धमत्यर्थमिदमाह च तान्भृशम् ॥ १५.३.१७ ॥

于是持国王召来亲友,声音被泪水哽咽,极度悲伤地对他们说。

15.3.18

विदितं भवतामेतद्यथा वृत्तः कुरुक्षयः ।
ममापराधात्तत्सर्वमिति ज्ञेयं तु कौरवाः ॥ १५.३.१८ ॥

你们都知道俱卢族是如何覆灭的。诸位俱卢子孙啊,应当知道,这一切都是因我的过错而起。

15.3.19

योऽहं दुष्टमतिं मन्दो ज्ञातीनां भयवर्धनम् ।
दुर्योधनं कौरवाणामाधइपत्येऽभ्यषेचयम्।
यच्चाहं वासुदेवस्य नाश्रौषं वाक्यमर्थवत् ॥ १५.३.१९ ॥

我心术邪恶而愚昧,竟将使亲族恐惧增长的难敌立为俱卢人的王权;而瓦苏提婆有意义的话语我也未曾听从。

15.3.20

वध्यतां साध्वयं पापः सामात्य इति दुर्मतिः ।
पुत्रस्नेहाभिभूतस्तु हितमुक्तो मनीषिभिः ॥ १५.३.२० ॥

“这个罪人连同他的大臣,理应被杀”——然而我为爱子所蔽,没有听从智者所说的有益之言。

15.3.21

विदुरेणाथ भीष्मेण द्रोणेन च कृपेण च ।
पदेपदे भगवता व्यासेन च महात्मना।
संजयेनाथ गान्धार्या तदिदं तप्यते मया ॥ १५.३.२१ ॥

维杜罗、毗湿摩、德罗纳和克里帕的劝告,以及每一步都有的世尊毗耶娑、大德桑遮耶和甘陀利的劝告——如今正在折磨我。

15.3.22

यच्चाहं पाण्डुपुत्रेषु गुणवत्सु महात्मसु ।
न न्यस्तवाञ्श्रियं दीप्तां पितृपैतामहीमिमाम् ॥ १५.३.२२ ॥

我也没有把父祖传下的这份光辉王权交给潘杜那有德行、大德的诸子。

15.3.23

विनाशं पश्यमानो हि सर्वराज्ञां गदाग्रजः ।
एतच्छ्रेयस्तु परमममन्यत जनार्दनः ॥ १५.३.२३ ॥

看到诸王的毁灭,迦陀之兄遮那尔达那认为这才是最高的善。

15.3.24

सोहमेतान्यलीकानि दुर्वृत्तान्यात्मनस्तदा ।
हृदये शल्यभूतानि धारयामि सहस्रशः ॥ १५.३.२४ ॥

那时我所犯的这些虚妄和恶行,我如今在心中如刺一般,千百次地承受着。

15.3.25

विशेषतस्तु दह्यामि वर्षे पञ्चदशेऽद्य वै ।
अस्य पापस्य शुद्ध्यर्थं नियतोस्मि सुदुर्मतिः ॥ १५.३.२५ ॥

今日尤其在第十五年,我在焚烧。为了清除此罪,我受誓约束,我是极其愚昧之人。

15.3.26

चतुर्थे नियते काले कदाचिदपि चाष्टमे ।
तृष्णाविनयनं भुञ्जे गान्धारी वेद तन्मम ॥ १५.३.२६ ॥

在指定的时候,于第四日,有时也在第八日,我进食以平息贪欲。甘陀利知道此事。

15.3.27

करोत्याहारमिति मां सर्वः परिजनः सदा ।
युधिष्ठिरभयादेति भृशं तप्यति पाण्डवः ॥ १५.३.२७ ॥

我的全体随从总是说:“他在供养他。”而般度之子因畏惧坚战而深感痛苦。

15.3.28

भूमौ शये जप्यपरो दर्भष्वजिनसंवृतः ।
नियमव्यपदेशेन गान्धारी च यशस्विनी ॥ १५.३.२८ ॥

我以诵经为务,躺卧于地,覆以鹿皮,置于吉祥草之上;借口誓戒,荣耀的甘陀利也是如此。

15.3.29

अहं पुत्रशतं वीरं सङ्ग्रामेष्वपलायिनम् ।
नानुतप्ये हतं तत्र क्षत्रधर्मं हि तं विदुः ॥ १५.३.२९ ॥

我并不为我那百名英勇之子悲伤,他们在战场上未曾逃遁而战死于此;因为他们知道,那正是刹帝利的法。

15.3.30

इत्युक्त्वा धर्मराजानमभ्यभाषत कौरवः ।
भद्रं ते यादवीमातर्वचश्चेदं निबोध मे ॥ १५.३.३० ॥

说完这些,科罗婆便对法王说道:“愿你安好,哦,耶达婆女之母;请听我这番话。”

15.3.31

सुखमध्युषितः पुत्र त्वया सुपरिपालितः ।
मया दानानि दत्तानि श्राद्धानि च पुनःपुनः ॥ १५.३.३१ ॥

孩子啊,你安逸地居住,并得到了很好的保护。我一次又一次地布施,并举行了祭祀亡灵的仪式。

15.3.32

प्रकृष्टं च मया पुत्र पुण्यं चीर्णं यथाबलम् ।
गान्धारी हतपुत्रेयं धैर्येणोदीक्षते च माम् ॥ १५.३.३२ ॥

孩子啊,我依照自己的能力行了殊胜的功德。失去儿子的甘陀利以坚忍的目光望着我。

15.3.33

द्रौपद्या ह्यपकर्तारस्तव चैश्वर्यहारिणः ।
समतीता नृशंसास्ते स्वधर्मेण हता युधि ॥ १५.३.३३ ॥

那些侵害德罗波蒂、夺取你王权的残暴之人已经逝去;他们在战斗中依其本分而死。

15.3.34

न तेषु प्रतिकर्तव्यं पश्यामि कुरुनन्दन ।
सर्वे शस्त्रजिताँल्लोकान्गतास्तेऽभिमुखं हताः ॥ १५.३.३४ ॥

库鲁之喜,我看不到对他们有什么需要报复的。他们都已到达以武器所得的世界,是面对面被杀的。

15.3.35

आत्मनस्तु हितं पुण्यं प्रतिकर्तव्यमद्य ते ।
गान्धार्याश्चैव राजेन्द्र तदनुज्ञातुमर्हसि ॥ १५.३.३५ ॥

但是,王中之王啊,现在你应当做对自己有益、有功德的事,也应当得到甘陀利的许可。

15.3.36

त्वं तु शस्त्रभृतां श्रेष्ठः सततं धर्मवत्सलः ।
राजा गुरुः प्राणभृतां तस्मादेतद्ब्रवीम्यहम् ॥ १५.३.३६ ॥

你确实是持械者中最杰出的,并且总是热爱法。国王是众生的导师;因此我这样说。

15.3.37

अनुज्ञातस्त्वया वीर संश्रयेयं वनान्यहम् ।
चीरवल्कलभृद्राजन्गान्धार्या सहितोऽनया ॥ १५.३.३७ ॥

英雄,国王啊!蒙你允许,我将与甘陀利一同身着树皮与树皮衣,前往森林隐居。

15.3.38

तवाशिषः प्रयुञ्जानो भविष्यामि वनेचरः ।
उचितं नः कुले तात सर्वेषां भरतर्षभ।
पुत्रेष्वैश्चर्यमाधाय वयसोन्ते वनं नृप ॥ १५.३.३८ ॥

祈求你的祝福,我将成为林中居者。亲爱的孩子,婆罗多之牛啊!这对我们家族中的所有人都是适当的:国王啊,人生暮年时,将权力托付给儿子们,然后进入森林。

15.3.39

तत्राहं वायुभक्षो वा निराहारोपि वा वसन् ।
पत्न्या सहानया वीर चरिष्यामि तपः परम् ॥ १५.३.३९ ॥

在那里,我或以风为食,或绝食,与这位妻子同住,英雄啊,我将修持至高的苦行。

15.3.40

त्वं चापि फलभाक्तात तपसः पार्थिवो ह्यसि ।
फलभाजो हि राजानः कल्याणस्येतरस्य वा ॥ १५.३.४० ॥

亲爱的孩子,你也分享苦行的果报,因为你是国王。国王确实分享善或其反面的果报。