Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 15.30

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

15.30.1

ततः समुपविष्टेषु पाण्डवेषु महात्मसु ।
व्यासः सत्यवतीपुत्रः प्रोवाचामन्त्र्य पार्थिवम् ॥ १५.३०.१ ॥

当伟大的般度诸子坐定之后,萨提婆蒂之子毗耶娑向国王致辞说道:

15.30.2

धृतराष्ट्र महाबाहो कच्चित्ते वर्तते तपः ।
कच्चिन्मनस्ते प्रीणाति वनवासे नराधिप ॥ १५.३०.२ ॥

大臂的持国啊,你的苦行进行得可好?人主啊,你在林居之中,心中是否感到喜悦?

15.30.3

कच्चिद्धृदि न ते शोको राजन्पुत्रविनाशजः ।
कच्चिज्ज्ञानानि सर्वाणि सुप्रसन्नानि तेऽनघ ॥ १५.३०.३ ॥

国王啊,你心中是否没有因诸子覆灭而生的忧愁?无垢者啊,你的一切知识是否都清明澄净?

15.30.4

कच्चिद्बुद्धिं दृढां कृत्वा चरस्यारण्यकं विधिम् ।
कच्चिद्वधूश्च गान्धारी न शोकेनाभिभूयते ॥ १५.३०.४ ॥

你是否已坚定了心志,遵行林居的规范?你的儿媳甘陀利是否没有被忧愁所压倒?

15.30.5

महाप्रज्ञा बुद्धिमती देवी धर्मार्थदर्शिनी ।
आगमापायतत्त्वज्ञा कच्चिदेषा न शोचति ॥ १५.३०.५ ॥

这位大智慧、有慧心的天后,能看见法与利,通晓生灭的真理,她是否不因此忧伤?

15.30.6

कच्चित्कुन्ती च राजंस्त्वां शुश्रूषत्यनहङ्कृता ।
या परित्यज्य स्वं पुत्रं गुरुशुश्रूषणे रता ॥ १५.३०.६ ॥

国王啊,昆蒂是否谦逊无我地侍奉你?她为侍奉尊长而舍弃了自己的儿子。

15.30.7

कच्चिद्धर्मसुतो राजा त्वया प्रत्यभिनन्दितः ।
भीमार्जुनयमाश्चैव कच्चिदेतेऽपि सान्तिताः ॥ १५.३०.७ ॥

你是否迎接并尊敬了法之子国王坚战?比摩、阿周那和双生子是否也得到了安慰?

15.30.8

कच्चिन्नन्दसि दृष्ट्रैतान्कच्चिते निर्मलं मनः ।
कच्चिच्च शुद्धभावोसि जातज्ञानो नराधिप ॥ १५.३०.८ ॥

见到他们,你是否感到欢喜?你的心是否清净?人主啊,你的心性是否纯净,并且已获得智慧?

15.30.9

एतद्धि त्रितयं श्रेष्ठं सर्वभूतेषु भारत ।
निर्वैरता महाराज सत्यमक्रोध एव च ॥ १५.३०.९ ॥

薄罗多的后裔啊,对待一切众生,这三者最为殊胜:无怨、大王、真实,以及无怒。

15.30.10

कच्चित्ते न च मोहोस्ति वनवासेन भारत ।
स्वदत्ते वन्यमन्नं वा उपवासोपि वा भवेत् ॥ १५.३०.१० ॥

薄罗多的后裔啊,居住森林是否使你迷惑?你是否食用自然得来的野果,或者有时也绝食?

15.30.11

विदितं चापि राजेन्द्र विदुरस्य महात्मनः ।
गमनं विधिनाऽनेन धर्मस्य सुमहात्मनः ॥ १५.३०.११ ॥

王中之王啊,你也知道大德毗杜罗以此方式离去,以及至为大德的法神之离去。

15.30.12

माण्डव्यशापाद्धि स वै धर्मो विदुरतां गतः ।
महाबुद्धिर्महायोगी महात्मा सुमहामनाः ॥ १५.३०.१२ ॥

正是因为仙人曼达维耶的诅咒,那位法神才化身为毗杜罗。他智慧广大,是大瑜伽行者,大德,心胸极为宽广。

15.30.13

बृहस्पतिर्वा देवेषु शुक्रो वाऽप्यसुरेषु च ।
न तथा बुद्धिसम्पन्नो यथा स पुरुषर्षभः ॥ १५.३०.१३ ॥

诸神中的bṛhaspati,或阿修罗中的śukra,都不如那位人中之牛那样富有智慧。

15.30.14

तपोबलव्ययं कृत्वा सुचिरात्सम्भृतं तदा ।
माण्डव्येनर्षिणा धर्मो ह्यभिभूतः सनातनः ॥ १५.३०.१४ ॥

那时,仙人曼荼婆耗尽积累许久的苦行之力,压倒了永恒的法(达摩)。

15.30.15

नियोगाद्ब्रह्मणः पूर्वं मया स्वेन बलेन च ।
वैचित्रवीर्यके क्षेत्रे जातः स सुमहामतिः ॥ १५.३०.१५ ॥

往昔,依梵天之命并凭我自身之力,他降生于维奇特拉维利亚的田地中,那位大智慧者。

15.30.16

भ्राता तव महाराज देवदेवः सनातनः ।
धारणान्मनसा ध्यानाद्य धर्म कवयो विदुः ॥ १५.३०.१६ ॥

大王,你的兄弟是诸神之神、永恒者;智者以执持与心中的禅定,将他认作法(达摩)。

15.30.17

सत्येन संवर्धयति यो दमेन शमेन च ।
अहिंसया च दानेन तपसा च सनातनः ॥ १५.३०.१७ ॥

以真实、克制、宁静、不杀、布施与苦行来培育它的人,便是永恒者。

15.30.18

येन योगबलाज्जातः कुरुराजो युधिष्ठिरः ।
धर्म इत्येष नृपते प्राज्ञेनामितबुद्धिना ॥ १५.३०.१८ ॥

凭其瑜伽之力,库卢王尤蒂希提尔得以降生——此即法,大王啊,无量智慧的智者如是说。

15.30.19

यथा वह्निर्यथा वायुर्यथाऽऽपः पृथिवी यथा ।
यथाऽऽकाशं तथा धर्म इह चामुत्र च स्थितः ॥ १५.३०.१९ ॥

如火、如风、如水与地、如虚空常住,法亦如是,常住于此世与彼世。

15.30.20

सर्वगश्चैव राजेन्द्र सर्वं व्याप्य चराचरम् ।
दृश्यते देवदेवैः स सिद्धैर्निर्मुक्तकल्मषैः ॥ १५.३०.२० ॥

王中之王啊,他遍在一切,贯通动与不动之物;唯有离垢的成就者与诸神之神能见到他。

15.30.21

यो हि धर्मः स विदुरो विदुरो यः स पाण्डवः ।
स एष राजन्दृश्यस्ते माण्डवः प्रेष्यवत्स्थितः ॥ १५.३०.२१ ॥

法即是毗杜罗,毗杜罗即是般度之子;大王啊,你所见的这位曼达维亚,正如仆从一般站立。

15.30.22

प्रविष्टः स महात्मानं भ्राता ते बुद्धिसम्मतः ।
दृष्ट्वा महात्मा कौन्तेयं महायोगबलान्वितः ॥ १५.३०.२२ ॥

你那以智慧受尊敬的兄弟进入了那位大灵魂之中;具有大瑜伽力的那位大灵魂,见到了贡蒂之子。

15.30.23

त्वां चापि श्रेयसा योक्ष्ये नचिराद्भरतर्षभ ।
संशयच्छेदनार्थाय प्राप्तं मां विद्धि पुत्रक ॥ १५.३०.२३ ॥

婆罗多中的雄牛啊,不久我也将使你获得善果;孩子,你应知道我是为断除你的疑惑而来。

15.30.24

न कृतं यैः पुरा कैश्चित्कर्म लोके महर्षिभिः ।
आश्चर्यभूतं तपसः फलं तद्दर्शयामि वः ॥ १५.३०.२४ ॥

我将向你们展示苦行那前所未有的奇妙果实,这是世间任何大仙从未成就过的。

15.30.25

किमिच्छसि महीपाल मत्तः प्राप्तुमभीप्सितम् ।
द्रष्ट्रुं स्प्रष्टुमथ श्रोतुं तत्कर्तास्मि तवानघ ॥ १५.३०.२५ ॥

护持大地的君主啊,你想从我这里得到的、想看、想触摸或想听的,我都会为你做到,无罪的人啊。