Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 15.31

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

15.31.1

वनवासं गते विप्र धृतराष्ट्रे महीपतौ ।
सभार्ये नृपशार्दूले वध्वा कुन्त्या समन्विते ॥ १५.३१.१ ॥

婆罗门啊,当王中猛虎般的国王持国与妻子及儿媳贡蒂前往森林流放之时。

15.31.2

विदुरे चापि धर्मज्ञे धर्मराजं व्यपश्रिते ।
वसत्सु पाण्डुपुत्रेषु सर्वेष्वाश्रममण्डले ॥ १५.३१.२ ॥

精通法义的维杜罗也依止于法王,而班度的诸子皆居住在苦行林的圈域之中。

15.31.3

यत्तदाश्चर्यमिति वै करिष्यामीत्युवाच ह ।
व्यासः परमतेजस्वी महर्षिस्तद्वदस्व मे ॥ १५.३१.३ ॥

那位至极光明的大仙Vyāsa所说的'我将做此事'的奇迹,请告诉我。

15.31.4

वनवासे च कौरव्याः कियन्तं कालमच्युतः ।
युधिष्ठिरो नरपतिर्न्यवसत्सजनस्तदा ॥ १५.३१.४ ॥

在森林流放期间,俱卢族的不退转人主坚战当时与其随从居住了多长时间?

15.31.5

किमाहाराश्च ते तत्र ससैन्या न्यवसन्प्रभो ।
सान्तःपुरा महात्मान एतदिच्छामि वेदितुम् ॥ १५.३१.५ ॥

主啊,那些大德者与军队及后宫一同在彼处,以何为食而生活?我想知道这一点。

15.31.6

वनवासगतं राजन्धृतराष्ट्रं महीपतिम् ।
युधिष्ठिरोऽभ्ययाद्द्रष्टुं ससैन्यो भ्रातृभिः सह ॥ १५.३१.६ ॥

大王啊,坚战与兄弟们及军队一同前去探望已入森林流放的人主持国。

15.31.7

प्रथमे दिवसे चैषामापो मूलं फलं तथा ।
भोजनं भूमिशय्या च तत्रासीद्भरतर्षभ ॥ १५.३१.७ ॥

第一天,他们的食物是水、根和果实,床铺是光秃秃的地面,婆罗多的雄牛啊。

15.31.8

तेऽनुज्ञातास्तदा राजन्कुरुराजेन पाण्डवाः ।
विविधान्यन्नपानानि शय्याश्चैवाभजन्वने ॥ १५.३१.८ ॥

国王啊,那时,得到库鲁王许可的般度五子在森林中领受了各种饮食和床铺。

15.31.9

मासमेकं विजह्रुस्ते ससैन्यान्तःपुरो वने ।
अथ तत्रागमद्व्यासो यथोक्तं ते मयाऽनघ ॥ १५.३१.९ ॥

他们与军队和后宫在森林中逗留了一个月。无罪者啊,那时毗耶娑来到那里,正如我对你所说的。

15.31.10

तथा च तेषां सर्वेषां कथाभिर्नृपसन्निधौ ।
व्यासन्वास्य तं राजन्नाजग्मुर्मुनयोऽपरे ॥ १५.३१.१० ॥

他们在国王面前谈话之时,毗耶娑被安置在那里,国王啊,其他的仙人也来了。

15.31.11

नारदः पर्वतश्चैव देवलश्च महातपाः ।
विश्वावसुस्तुंबुरुश्च चित्रसेनश्च भारत ॥ १५.३१.११ ॥

那罗陀、波婆多,以及大苦行者提婆罗,毗舍婆苏、覩卢娄和citrasena,婆罗多啊。

15.31.12

तेषामपि यथान्यायं पूजां चक्रे महातपाः ।
धृतराष्ट्राभ्यनुज्ञातः कुरराजो युधिष्ठिरः ॥ १५.३१.१२ ॥

在持国的允许下,库鲁王坚战也依礼供奉了他们所有人。

15.31.13

निषेदुस्ते ततः सर्वे पूजां प्राप्य युधिष्ठिरात् ।
आसनेषु च पुण्येषु बर्हिणेषु वरेषउ च ॥ १५.३१.१३ ॥

随后,众人接受了坚战的礼遇,坐在神圣的吉祥草座位和其他上好的座位上。

15.31.14

तेषु तत्रोपविष्टेषु स तु राजा महामतिः ।
पाण्डुपुत्रैः परिवृतो निषसाद कुरूद्वह ॥ १५.३१.१४ ॥

当他们在那里就座后,那位大智之王、俱卢族中最优秀者,在般度之子的环绕下坐了下来。

15.31.15

गान्धारी चैव कुन्ती च द्रौपदी सात्वती तथा ।
स्त्रियश्चान्यास्तथाऽन्याभिः सहोपविविशुस्ततः ॥ १५.३१.१५ ॥

甘陀利、贡蒂、德罗波蒂、萨特瓦蒂,以及其他女子与其他女子一同随即坐下。

15.31.16

तेषां तत्र कथा दिव्या धर्मिष्ठाश्चाभवन्नृप ।
राजर्षीणां पुराणानां देवासुरविभिश्रिताः ॥ १५.३१.१६ ॥

大王啊,他们在那里的谈话变得神圣而最为正法:讲述古代王仙的故事,其中交织着天神与阿修罗。

15.31.17

ततः कथान्ते व्यासस्तं प्रज्ञाचक्षुषमीश्वरम् ।
प्रोवाच वदतांश्रेष्ठः पुनरेव स तद्वचः ॥ १५.३१.१७ ॥

随后,谈话结束时,言者中最优秀的毗耶娑又对那位具慧眼的主者重新说了那番话。

15.31.18

प्रीयमाणो महातेजाः सर्ववेदविदांवरः ।
विदितं मम राजेन्द्र यत्ते हृदि विवक्षितम् ॥ १५.३१.१८ ॥

这位大光辉者,诸吠陀知者中最优秀的,欢喜地说道:“王中之王啊,你心中所欲言的,我已知晓。”

15.31.19

दह्यमानस्य शोकेन तव पुत्रकृतेन वै ।
गान्धार्याश्चैव यद्दुःखं हृदि तिष्टति नित्यदा ॥ १५.३१.१९ ॥

你正因你的儿子们所造成的悲痛而焚烧,而常驻甘陀利心中的哀伤也正是如此。

15.31.20

कुन्त्याश्च यन्महाराज द्रौपद्याश्च हृदि स्थितम् ।
यच्च धारयते तीव्रं दुःखं पुत्रविनाशजम्।
सुभद्रा कृष्णभगिनी तच्चापि विदितं मम ॥ १५.३१.२० ॥

大王,我知道古提与德罗波蒂心中的悲痛,她们所承受的、由儿子们的毁灭而生的剧烈痛苦,以及克里希纳之妹苏跋陀罗的那份哀伤,我也都知道。

15.31.21

श्रुत्वा समागममिमं सर्वेषां वस्ततो नृप ।
संशयच्छेदनार्थाय प्राप्तः कौरवनन्दन ॥ १५.३१.२१ ॥

大王,听闻你们众人的这次集会,我为断除疑惑而来,俱卢族的喜悦啊。

15.31.22

इमे च देवगन्धर्वाः सर्वे चेमे महर्षयः ।
पश्यन्तु तपसो वीर्यमद्य मे चिरसम्भृतम् ॥ १५.३१.२२ ॥

愿这些天神、乾闼婆以及所有这些大仙今日见到我long积累的苦行之力。

15.31.23

तदुच्यतां महाप्राज्ञ कं कामं प्रददामि ते ।
प्रवणोस्मि वरं दातुं पश्य मे तपसो बलम् ॥ १५.३१.२३ ॥

因此,大智者啊,请说出你的哪个愿望我将满足。我愿赐予恩惠;请看我苦行的力量。

15.31.24

एवमुक्तः स राजेन्द्रो व्यासेनामितबुद्धिना ।
मुहूर्तमिव संचिन्त्य वचनायोपचक्रमे ॥ १५.३१.२४ ॥

无量智慧的毗耶娑如此说后,那位王中之王略作沉思,便开口说话。

15.31.25

धन्योस्म्यनुगृहीतश्च सफलं जीवितं च मे ।
यन्मे समागमोऽद्येह भवद्भिः सह साधुभिः ॥ १५.३१.२५ ॥

我有福且蒙恩,我的生命也因今日在此与你们这些善人相聚而有了成果。

15.31.26

अद्य चाप्यवगच्छामि गतिमिष्टामिहात्मनः ।
ब्रह्मकल्पैर्भवद्भिर्यत्समेतोऽहं तपोधनाः ॥ १५.३१.२६ ॥

今日我也明白了自己所求的归宿,因为我与你们相会了,你们是苦行富足的人,如同梵天一般。

15.31.27

दर्शनादेव भवतां पूतोऽहं नात्र संशयः ।
विद्यते न भयं चापि परलोके ममानघाः ॥ १५.३१.२७ ॥

仅凭看到你们,我便得到了净化,这一点毫无疑问;而在来世,诸位无罪之人啊,我也无所畏惧。

15.31.28

किंतु तस्य सुदुर्बुद्धेर्मन्दस्यापनयैर्भृशम् ।
दूयते मे मनो नित्यं स्मरतः पुत्रगृद्धिनः ॥ १५.३१.२८ ॥

然而,每当我想起那极其邪恶愚蠢、贪恋儿子的人所做的恶行,我的心便永远痛苦不堪。

15.31.29

अपापाः पाण्डवा येन निकृताः पापबुद्धिना ।
घातिता पृथिवी येन सहया सनरद्विपा ॥ १५.३१.२९ ॥

那心怀恶念之人欺骗了无辜的般度五子,又使大地连同马匹、人众与象群遭受毁灭。

15.31.30

राजानश्च महात्मानो नानाजनपदेश्वराः ।
आगम्य मम पुत्रार्थे सर्वे मृत्युवशं गताः ॥ १५.३१.३० ॥

那些统治各地的伟大君王,为了我的儿子们前来,如今全都落入了死亡的掌控。

15.31.31

ये ते पितॄश्चं दारांश्च प्राणांश्च मनसः प्रियान् ।
परित्यज्य गताः शूराः प्रेतराजनिवेशनम् ॥ १५.३१.३१ ॥

那些抛弃父辈、妻子和心爱之生命、前往死王居所的英雄们。

15.31.32

का नु तेषां गतिर्ब्रह्मन्मित्रार्थे ये हता मृधे ।
तथैव पुत्रपौत्राणां मम ये निहता युधि ॥ १५.३१.३२ ॥

婆罗门啊,为朋友而战死沙场者,其归宿如何?我的子孙在战中被杀者,又如何?

15.31.33

दूयते मे मनोऽभीक्ष्णं घातयित्वा महाबलम् ।
भीष्मं शान्तनवं वृद्धं द्रोणं च द्विजसत्तमम् ॥ १५.३१.३३ ॥

我心时常痛苦,因为我使强大的婆罗多之子、沙阇怒之子、年老的毗湿摩,以及婆罗门中最优秀的德罗纳被杀害。

15.31.34

मम पुत्रेण मूढेन पापेनाकृतबुद्धिना ।
क्षयं नीतं कुलं दीप्तं पृथिवीराज्यमिच्छता ॥ १५.३१.३४ ॥

我那愚蠢、邪恶、心智不明的儿子,贪求大地的王权,使这光辉的家族走向毁灭。

15.31.35

एते मदर्थे पुत्रांश्च दारांश्च मनसः प्रियान् ।
भोगांश्च विविधांस्तात इष्टापुर्तांस्तथैव च।
परित्यज्य गताः शूराः प्रेतराजनिवेशनम् ॥ १५.३१.३५ ॥

这些英雄为了我,抛弃了儿子、妻子、心爱的种种享乐,以及祭祀和功德之事,亲爱的,前往死王居所。

15.31.36

एतत्सर्वमनुस्मृत्य दह्यमानो दिवानिशम् ।
न शान्तिमधिगच्छामि दुःखशोकसमाहतः ॥ १५.३१.३६ ॥

回想这一切,我日夜焚烧;被忧伤和悲痛击中,我无法获得安宁。

15.31.37

इति मे चिन्तयानस्य पितः शान्तिर्न विद्यते ॥ १५.३१.३७ ॥

我父如此思虑,竟无法得到平静。

15.31.38

तच्छ्रुत्वा विविधं तस्य राजर्षेः परिदेवितम् ।
पुनर्नवीकृतः शोको गान्धार्या जनमेजय ॥ १५.३१.३८ ॥

闻听那位王仙种种哀叹,jānamejaya啊,甘陀利的悲痛再度涌起。

15.31.39

कुन्त्या द्रुपदपुत्र्याश्च सुभद्रायास्तथैव च ।
तासां च वरनारीणां वधूनां कौरवस्य ह ॥ १५.३१.३९ ॥

还有贡蒂、德鲁帕达之女、苏跋陀罗,以及那些优秀女子和俱卢家族的媳妇们的悲痛,也都再度涌起。

15.31.40

पुत्रशोकसमाविष्टा गान्धारी त्विदमब्रवीत् ।
श्वशुरं बद्धनयना देवी प्राञ्जलिरुत्थिता ॥ १५.३१.४० ॥

甘陀利被丧子之痛所笼罩,于是说了这些话。这位以布蒙眼的女神合掌起身,对公公说道。

15.31.41

लोकान्तरगतान्पुत्रानयं काङ्क्षति मानद ।
तच्चास्य मासं ज्ञातं भगवंस्तपसा त्वया ॥ १५.३१.४१ ॥

尊贵的赐荣者啊,此人思念已往生他界的儿子们。尊者啊,您借苦行一个月前便已知晓此事。

15.31.42

षोडशेमानि वर्षाणि गतानि मुनिपुङ्गव ।
अस्य राज्ञोहतान्पुत्राञ्शोचतो न शमो विभो ॥ १५.३१.४२ ॥

最优秀的仙人啊,这十六年过去了,而这位为被杀之子悲泣的国王,仍未得到平静,啊,大能者。

15.31.43

पुत्रशोकसमाविष्टो निःश्वसन्ह्येष भूमिपः ।
न शेते वसतीः सर्वा धृतराष्ट्रो महामुने ॥ १५.३१.४३ ॥

这位大地之主、被丧子之痛所困的持国,深深叹息,在任何居所都无法入睡,大仙啊。

15.31.44

लोकानन्यान्समर्थोसि स्रष्टुं सर्वांस्तपोबलात् ।
किमु लोकान्तरगतान्राज्ञो दर्शयितुं सुतान् ॥ १५.३१.४४ ॥

凭借你的苦行之力,你能够创造所有其他世界;那么,让国王看见已去往他界的儿子们,又有什么困难呢?

15.31.45

इयं च द्रौपदी कृष्णा हतज्ञातिसुता भृशम् ।
शोचत्यतीव सर्वासां स्नुषाणां दयिता स्नुषा ॥ १५.३१.४५ ॥

而这位克利须那·德罗跋蒂,亲族与儿子皆已被杀,极度悲伤;她是所有儿媳中最受宠爱的一位。

15.31.46

तथा कृष्णस्य भगिनी सुभद्रा भद्रभाषिणी ।
सौभद्रकवधसंतप्ता भृशं शोचति भामिनी ॥ १५.३१.४६ ॥

同样,克利须那的妹妹苏跋陀罗,言语温和,因萨乌跋陀拉卡被杀而痛苦万分,极度悲伤,这位光彩照人的夫人。

15.31.47

इयं च भूरिश्रवसो भार्या परमसम्मता ।
भर्तृव्यसनशोकार्ता भृशं शोचति भामिनी ॥ १५.३१.४७ ॥

而这位是婆利斯罗婆最受尊重的妻子,因丈夫遭遇的灾难而深感痛苦,极度悲伤,这位光彩照人的夫人。

15.31.48

यस्यास्तु श्वशुरो धीमान्बाह्लिकः स कुरूद्वहः ।
निहतः सोमदत्तश्च पित्रा सह महारणे ॥ १५.३१.४८ ॥

她的公公智者跋利迦,这位俱卢中的首领,以及索摩达多与其父亲,都在大战中被杀。

15.31.49

श्रीमतोस्य महाबुद्धेः सङ्ग्रामेष्वपलायिनः ।
पुत्रस्य ते पुत्रशतं निहतं यद्रणाजिरे ॥ १५.३१.४९ ॥

你那从不逃避战斗、智慧高深而光荣的儿子的一百个儿子,都在战场上被杀死了。

15.31.50

तस्य भार्याशतमिदं दुःखशोकसमाहतम् ।
पुनःपुनर्वर्धयानं शोकं रोज्ञो ममैव च।
हताहारेण महता मामुपास्ते महामुने ॥ १५.३१.५० ॥

他的这一百位妻子被悲痛和哀伤所击倒,一再加深国王和我的悲伤;大仙啊,她们以严格的斋戒侍奉着我。

15.31.51

ये च शूरा महात्मानः श्वशुरा मे महारथाः ।
सोमदत्तप्रभृतयः का नु तेषां गतिः प्रभो ॥ १५.३१.५१ ॥

主啊,那些英勇的、高尚的、作为我岳父的大车战士——索摩达塔等人——他们的归宿如何?

15.31.52

तव प्रसादाद्भगवन्विशोकोऽयं महीपतिः ।
कुर्यात्कालमहं चेयं वधूस्तव महामुने ॥ १५.३१.५२ ॥

尊者啊,愿这位国王因你的恩典而脱离悲伤,愿我与你这儿媳也得以度日。大仙啊。

15.31.53

इत्युक्तवत्यां गान्धार्यां कुन्ती व्रतकृशानना ।
प्रच्चन्नजातं पुत्रं तु सस्मारादित्यसन्निभम् ॥ १५.३१.५३ ॥

甘陀丽如此说后,因苦修而面容憔悴的贡蒂想起了那秘密出生的、如太阳般的儿子。

15.31.54

तामृषिर्वरदो व्यासो दूरश्रवणदर्शनः ।
अपश्यद्दुःखितां देवीं मातरं सव्यसाचिनः ॥ १५.३१.५४ ॥

施赐恩惠的仙人毗耶娑,听闻与视见都能及远,他看见了那位悲伤的女神——左手善射者阿周那的母亲。

15.31.55

तामुवाच ततो व्यासो यत्ते कार्यं विवक्षितम् ।
तद्बूहि त्वं महाभागे यत्ते मनसि वर्तते ॥ १५.३१.५५ ॥

于是毗耶娑对她说:“大福德者啊,你心中有何事想说,就请说出来吧。”

15.31.56

श्वशुराय तत कुन्ती प्रणम्य शिरसा तदा ।
उवाच वाक्यं सव्रीडा विवृण्वाना पुरातनम् ॥ १५.३१.५६ ॥

于是贡蒂向公公低头行礼,带着羞愧,揭开往事,说出了这些话。