摩诃婆罗多 · 章 15.33
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
15.33.1
भद्रे द्रक्ष्यसि गान्धारि पुत्रान्भ्रातॄन्स्वकान्गणान् ।
वधूश्च पतिभिः सार्धं निशि सुप्तोस्थिता इव ॥ १५.३३.१ ॥
善良的甘陀利啊,你将看到你的儿子、兄弟和你全部的亲族;儿媳们与她们的丈夫一起,仿佛夜里睡醒起身一般。
15.33.2
कर्णं द्रक्ष्यति कुन्ती च सौभद्रं चापि यादवी ।
द्रौपदी पञ्चपुत्रांश्च पितॄन्भ्रातॄंस्तथैव च ॥ १५.३३.२ ॥
贡蒂将看到迦尔纳;雅达瓦女苏跋陀罗也将看到苏跋陀罗之子(阿毗曼尤);德罗波蒂将看到她的五个儿子,同样也将看到父亲们和兄弟们。
15.33.3
पूर्वमेवैष हृदये व्यवसायोऽभकवन्मम ।
यदाऽस्मि चोदितो राज्ञा भवत्या पृथयैव च ॥ १५.३३.३ ॥
这一决定早已在我心中,如同孩童的心意,当时国王、你和普利塔也曾催促我。
15.33.4
न ते शोच्या महात्मानः सर्व एव नरर्षभाः ।
क्षत्रधर्मपराः सन्तस्तथा हि निधनं गताः ॥ १५.३३.४ ॥
他们都不值得悲伤:那些伟大的人中之牛,专注于武士之法,就这样走向了死亡。
15.33.5
भवितव्यमवश्यं तत्सुरकार्यमनिन्दिते ।
अवतेरुस्ततः सर्वे देवा भागैर्महीतलम् ॥ १५.३३.५ ॥
无瑕的女子啊,那事必然要发生,那是诸神的使命。于是所有的天神各以其分身降临大地。
15.33.6
गन्धर्वाप्सरसश्चैव पिशाचा गुह्यराक्षसाः ।
तथा पुण्यजनाश्चैव सिद्धा देवर्षयोपि च ॥ १५.३३.६ ॥
乾闼婆与阿普萨拉丝,毗舍遮,秘密罗刹,同样还有福德人、悉陀,以及天仙。
15.33.7
देवाश्च दानवाश्चैव तथा देवर्षयोऽमलाः ।
ते एते निधनं प्राप्ताः कुरुक्षेत्रे रणाजिरे ॥ १५.३३.७ ॥
诸天与檀那婆,以及无垢的天仙,都在俱卢之野的战场上殒命。
15.33.8
गन्धर्वराजो यो धीमान्धृतराष्ट्र इति श्रुतः ।
स एव मानुषे लोके धृतराष्ट्रः पतिस्तव ॥ १५.३३.८ ॥
那位名为持国的智慧乾闼婆王,正是在人间成为你夫君的持国王。
15.33.9
पाण्डुं मरुद्गणाद्विद्धि विशिष्टतममच्युतम् ।
धर्मस्यांशोऽभवत्क्षत्ता राजा चैव युधिष्ठिरः ॥ १५.३३.९ ॥
当知般度出自诸风神(摩录多)之众,是最卓越、不退转者。克莎塔(维杜罗)成为法的化身,国王坚战亦然。
15.33.10
कलिं दुर्योधनं विद्धि शकुनिं द्वापरं नृपम् ।
दुःशासनादीन्विद्धि त्वं राक्षसान्शुभदर्शने ॥ १५.३३.१० ॥
当知难敌即羯利,国王沙恭尼即双尊时。妙颜者啊,你当知道难降等人皆是罗刹。
15.33.11
मरुद्गणाद्भीमसेनं बलवन्तमरिंदमम् ।
विद्धिं त्वं तु नरमृषिमिमं पार्थं धनंजयम्।
नारायणं हृषीकेशमश्विनौ यमजौ तथा ॥ १५.३३.११ ॥
当知威猛的毗摩森那、降敌者,出自摩录多之众。当知此般遮婆(般遮)之子财胜即那罗仙人,当知那罗延、主宰感官的黑史吉舍,以及孪生双马神亦然。
15.33.12
द्विधा कृत्वाऽऽत्मनो देहमादित्यं तपतां वरम् ।
लोकांश्च तापयानं वै कर्णं विद्धि पृथासुतम् ॥ १५.३३.१२ ॥
当知普利塔之子迦尔纳,即太阳本身,诸发热者中最上者,他将自身分为二体,炙烤诸世界。
15.33.13
यः स वैरार्थमुद्भूतः संघर्षजननस्कतथा ।
तं कर्णं विद्धि कल्याणि भास्करं शुभदर्शने ॥ १५.३३.१३ ॥
吉祥的女子啊,你应知道,那为敌意而生、成为争斗之源的人,便是迦尔纳;他就是太阳,你有吉祥的容颜。
15.33.14
यश्च पाण्डवदायादो हतः षङ्मिर्महारथैः ।
स सोम इह सौभद्रो योगादेवाभवद्द्विधा ॥ १५.३३.१४ ॥
那位被六位大车战士杀害的般度后裔,便是这里的苏跋陀罗之子;他凭借瑜伽之力,以两种形式成为了月神。
15.33.15
द्रौपद्या सह संभूतं धृष्टद्युम्नं च पावकात् ।
अग्रेर्भागं शुभं विद्धि राक्षसं तु शिखण्डिनम् ॥ १५.३३.१५ ॥
你应知道,与德罗波蒂一同从火中所生的德里什塔笈姆那,是阿耆尼的吉祥一分;而你应知道希坎丁是罗刹。
15.33.16
द्रोणं बृहस्पतेर्भागं विद्धि द्रौणिं च रुद्रजम् ।
गाङ्गेयो वसुवीर्येण देवो मानुषतां गतः ॥ १५.३३.१६ ॥
你应知道德罗那是布利哈斯帕蒂的一分,德罗纳之子是从楼陀罗所生。恒河之子本是神,凭借婆苏的力量而入于人的境地。
15.33.17
एवमेते महाप्रज्ञे देवा मानुष्यमेत्य हि ।
ततः पुनर्गताः स्वर्गं कृते कर्मणि शोभने ॥ १५.३३.१७ ॥
如此,大智慧者啊,这些神明降生为人,完成了吉祥的事业,之后又重返天界。
15.33.18
यच्च वै हृदि सर्वेषां दुःखमेतच्चिरं स्थितम् ।
तदद्य व्यपनेष्यामि परलोककृताद्भयात् ॥ १५.३३.१८ ॥
这悲痛久久潜藏在众人心中,源于对彼岸世界所生的恐惧,今日我将消除它。
15.33.19
सर्वे भवन्तो गच्छन्तु नदीं भागीरथीं प्रति ।
तत्र द्रक्ष्यथ तान्सर्वान्ये हतास्तत्र संयुगे ॥ १५.३३.१९ ॥
你们都去往恒河婆吉罗提河。在那里,你们将见到所有在那场战斗中阵亡的人。
15.33.20
इति व्यासस्य वचनं श्रुत्वा सर्वा जनस्तदा ।
महता सिंहनादेन गङ्गामभिमुखो ययौ ॥ १५.३३.२० ॥
众人听了毗耶娑的这些话,便怀着雄狮般的巨大吼声,朝恒河走去。
15.33.21
धृतराष्ट्रश्च सामात्यः प्रययौ सह पाण्डवैः ।
सहितो मुनिशार्दूलैर्गन्धर्वैश्च समागतैः ॥ १५.३३.२१ ॥
持国王也与大臣们一同前往,与般度诸子同行,身边有众仙人中的俊杰,以及聚集而来的乾达婆。
15.33.22
ततो गङ्गां समासाद्य क्रमेण स जनार्णवः ।
निवासमकरोत्सर्वो यथाप्रीति यथासुखम् ॥ १५.३३.२२ ॥
于是,那人海抵达恒河,逐渐各随所愿、安适舒心地在那里安置了住处。
15.33.23
राजा च पाण्डवैः सार्धमिष्टे देशे सहानुगः ।
निवासमकरोद्धीमान्सस्त्रीवृद्धपुरःसरः ॥ १५.३३.२३ ॥
国王也与般度诸子及随从在一处称心的地方安居,这位明智之人让妇女与长者走在前头。
15.33.24
जगाम तदहस्चापि तेषां वर्षशतं यथा ।
निशां प्रतीक्षमाणानां दिदृक्षूणां मृतान्नृपान् ॥ १५.३३.२४ ॥
对于他们来说,那一天也如同百年般过去了。他们等待着夜晚,渴望见到已故的诸王。
15.33.25
अथ पुण्यं गिरिवरमस्तमभ्यगमद्रविः ।
ततः कृताभिषेकास्ते नैशं कर्म समाचरन् ॥ १५.३३.२५ ॥
那时太阳落在那座圣洁的最好的山之后。随后,他们沐浴完毕,举行了夜间的仪式。