摩诃婆罗多 · 章 15.36
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
15.36.1
एतच्छ्रुत्वा नृपो विद्वान्हृष्टोऽभूज्जनमेजयः ।
पितामहानां सर्वेषां गमनागमनं तदा ॥ १५.३६.१ ॥
闻此,博学的国王阇那美阁耶欣喜;此时,他听闻了所有祖先的往来之事。
15.36.2
अब्रवीच्च मुदा युक्तः पुनरागमनं प्रति ।
कथं न त्यक्तदेहानां पुनस्तद्रूपदर्शनम् ॥ १५.३६.२ ॥
他满心欢喜地再次问及他们的归来:为何舍弃肉身者不能以那同样的形貌再次显现?
15.36.3
इत्युक्तः स द्विजश्रेष्ठो व्यासशिष्यः प्रतापवान् ।
प्रोवाच वदतांश्रेष्ठस्तं नृपं जनमेजयम् ॥ १५.३६.३ ॥
被如此询问后,那位再生者中的最优者、毗耶娑的威严弟子、言者之首,对国王阇那美阁耶说道。
15.36.4
अविप्रणाशः सर्वेषां कर्मणामिति निश्चयः ।
कर्मजानि शरीराणि शरीराकृतयस्तथा ॥ १५.३६.४ ॥
决定无疑:一切业行皆不毁灭;由业所生的身体,以及其形貌也是如此。
15.36.5
महाभूतानि नित्यानि भूताधिपतिसंश्रयात् ।
तेषां च नित्यसंवासो न विनाशो वियुज्यताम् ॥ १५.३६.५ ॥
大元素是永恒的,因为它们依托于众生之主;它们的永恒结合不是毁灭,即使分离也不会消亡。
15.36.6
अनाशया कृतं कर्म तस्य चेष्टः फलागमः ।
आत्मा चैभिः समायुक्तः सुखदुःखमुपाश्नुते ॥ १५.३६.६ ॥
无欲而作的业,其所求之果便会到来;而自我与这些相结合,便体验苦乐。
15.36.7
अविनाश्यस्तथा नित्यं क्षेत्रज्ञ इति निश्चयः ।
भूतानामात्मभावो यो ध्रुवोसौ संविजानताम् ॥ १५.३६.७ ॥
知场者不灭且永恒,这是确定的。对于真正知晓的人而言,众生的自性是那恒定不变者。
15.36.8
यावन्न क्षीयते कर्म तावत्तस्य स्वरूपता ।
क्षीणकर्मा नरो लोके रूपान्यत्वमुपाश्नुते ॥ १५.३६.८ ॥
只要业尚未耗尽,其自身形态便持续存在。业已耗尽的人,在世间获得另一种形态。
15.36.9
नानाभूतास्तथैकत्वं शरीरं प्राप्य संहताः ।
भवन्ति ते तथा नित्याः पृथग्भावं विजानताम् ॥ १५.३६.९ ॥
众多元素获得身体后,聚合为一体。它们也同样是永恒的;对于知晓分离状态的人而言,此即如此。
15.36.10
अश्वमेधश्रुतिश्चेयमश्वसंज्ञपनं प्रति ।
लोकान्तरगता नित्यं प्राणा नित्या हि वाजिनः ॥ १५.३६.१० ॥
此为关于马祭的吠陀教导,涉及杀马之事。马的生命之气已往他界,实为永恒。
15.36.11
अहं हितं वदाम्येतत्प्रियं चेत्तव पार्थिव ।
देवयाना हि पन्थानः श्रुतास्ते यज्ञसंस्तरे ॥ १५.३६.११ ॥
国王啊,若你喜悦,我便说此有益之言。你在祭仪的安排中已听闻诸神之道。
15.36.12
सुकृतो यत्र यज्ञस्ते तत्र देवा हितास्तव ।
यदा समन्विता देवाः पशूनां गमनेश्वराः ॥ १५.३६.१२ ॥
你的祭祀若行得圆满,诸神便会对你有利。诸神聚合之时,他们便是牲畜行进的主宰。
15.36.13
गमिमन्तश्च तेनेष्ट्वा नान्ये नित्या भवन्त्युत ।
नित्येऽस्मिन्पञ्चके वर्गे नित्ये चात्मनि पूरुषः ॥ १५.३६.१३ ॥
凭借那祭祀而前行者成为永恒,其他人则不然。在这永恒的五重群体与永恒的自我之中,补鲁沙安住。
15.36.14
अस्य नाशं समायोगं यः पश्यति वृथामतिः ।
वियोगे शोचतेऽत्यर्थं स बाल इति मे मतिः ॥ १५.३६.१४ ॥
凡见其毁灭与结合者,心智虚妄。在分离时他极度悲伤;我认为此人是孩童。
15.36.15
वियोगे दोषदर्शी यः संयोगं स विसर्जयेत् ।
असङ्गे सङ्गमो नास्ति दुःखं भावि वियोगजम ॥ १५.३६.१५ ॥
见分离之过者,应舍弃结合。无执之中并无结合;由分离所生之苦将不会到来。
15.36.16
परापरज्ञस्त्वपरो नाभिमानादुदीक्षितः ।
अपरज्ञः परां बुद्धिं स्पृष्ट्वा मोहाद्विमुच्यते ॥ १५.३६.१६ ॥
知晓上与下者,不被傲慢所见;不知者触及至上之智,便从迷惑中解脱。
15.36.17
अदर्शनादापतितः पुनश्चादर्शनं गतः ।
नाहं तं वेद्मि नासौ मां न च मेऽस्ति विरागता ॥ १५.३६.१७ ॥
他从不现之处来,又归于不现。我不认识他,他也不认识我,我心中也没有离欲。
15.36.18
येनयेन शरीरेणि करोत्ययमनीश्वरः ।
तेनतेन शरीरेण तदवश्यमुपाश्नुते।
मानसं मनसाऽऽप्नोति शरीरं च शरीरवान् ॥ १५.३६.१८ ॥
无力者以任何身体行事,必以那同一身体享受其果报。心之果报由心而得,有身者则得身之果报。