摩诃婆罗多 · 章 15.38
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
15.38.1
दृष्ट्वा पुत्रांस्तथा पौत्रान्सानुबन्धाञ्जनाधिपः ।
धृतराष्ट्रः किमकरोद्राजा चैव युधिष्ठिरः ॥ १५.३८.१ ॥
众王之主啊,看见儿子和孙子们及其亲属之后,国王持国与国王坚战做了什么?
15.38.2
तद्दृष्ट्वा महदाश्चर्यं पुत्राणां दर्शनं पुनः ।
वीतशोकः स राजर्षिः पुनराश्रममागमत् ॥ १५.३८.२ ॥
再次看见儿子们那伟大而奇妙的景象后,已无忧愁的王仙又回到了修行处。
15.38.3
इतरस्तु जनः सर्वस्ते चैव परमर्षयः ।
प्रतिजग्मुर्यथाकामं धृताराष्ट्राभ्यनुज्ञया ॥ १५.३८.३ ॥
其余的人们和那些至上的仙人,也都在持国的允许下,随心所愿地返回了。
15.38.4
पाण्डवास्तु महात्मानो लघुभूयिष्ठसैनिकाः ।
अनुजग्मुर्महात्मानं सदारास्तं महीपतिम् ॥ १५.३८.४ ॥
然而,大德的般度诸子以少量的军队,与妻子们一同跟随那位大德的地上之王。
15.38.5
तमाश्रमगतं धीमान्ब्रह्मर्षिर्लोकपूजितः ।
द्वैपायनोऽभ्युपागम्य राजानमिदम्नब्रवीत् ॥ १५.३८.५ ॥
那位智慧的梵仙、受世间尊敬的二岛仙,走近到达修行处的国王,说了这些话。
15.38.6
धृताष्ट्र महाबाहो शृणु कौरवनन्दन ।
श्रुतास्ते ज्ञानवृद्धानामृषीणां पुण्यकर्मणाम् ॥ १५.३८.६ ॥
啊,持国,大臂者,听着,俱卢的喜悦!你已经听说过那些智慧年长、行善积德的仙人。
15.38.7
अद्धाभिजनवृद्धानां वेदवेदाङ्गवेदिनाम् ।
धर्मज्ञानां पुराणानां वदतां विविधाः कथाः ॥ १५.३८.७ ॥
确实,这些出身高贵的长者、精通吠陀与吠陀支分的人、通晓法的人以及讲述往世书者所讲述的种种故事。
15.38.8
मा स्म शोके मनः कार्षीर्दिष्टे न व्यथते बुधः ।
श्रुतं देवरहस्यं ते नारदाद्देवदर्शनात् ॥ १५.३८.८ ॥
不要让心沉溺于悲伤;智者不会因命运而痛苦。你已从那罗陀和神的显现中听闻了神的秘密。
15.38.9
गतास्ते क्षत्रधर्मेण शस्त्रपूतां गतिं शुभाम् ।
यथा दृष्टास्त्वया पुत्रास्तथा कामविहारिणः ॥ १५.३८.९ ॥
你的儿子们凭借刹帝利之法,以兵器净化,获得了吉祥的归宿;你怎样看见他们,他们现在便随意游乐。
15.38.10
युधिष्ठिरः स्वयं धीमान्भवन्तमनुरुध्यते ।
सहितो भ्रातृभिः सर्वैःइ सदारः ससुहृज्जनः ॥ १५.३८.१० ॥
智慧的坚战亲自想要侍奉你,与所有兄弟、妻子以及朋友亲属一同前来。
15.38.11
विसर्जयैनं यात्वेष स्वराज्यमनुशासताम् ।
मासः समधिकस्तेषामतीतो वसतां वने ॥ १५.३८.११ ॥
送他走吧,让他去治理自己的国家。对于居住在森林中的他们来说,已经过去了一个多月。
15.38.12
एतद्धि नित्यं यत्नेन पदं रक्ष्यं नराधिप ।
बहुप्रत्यर्थिकं ह्येतद्राज्यं नाम कुरूद्वह ॥ १५.३८.१२ ॥
这王位,人主啊,必须时刻努力守护;因为这王国,库鲁族最优秀的人啊,有许多对手。
15.38.13
इत्युक्तः कौरवो राजा व्यासेनामितबुद्धिना ।
युधिष्ठिरमथाहूय वाग्मी वचनमब्रवीत् ॥ १५.३८.१३ ॥
无量智慧的毗耶娑如此说后,俱卢王召唤坚战,言辞雄辩地说道:
15.38.14
अजातशत्रो भद्रं ते शृणु मे भ्रातृभिः सह ।
त्वत्प्रसादान्महीपाल शोको नास्मान्प्रबाधते ॥ १५.३८.१४ ॥
坚战啊,愿你吉祥。与众兄弟一同听我说。大地的守护者啊,因你的恩惠,悲伤并不困扰我们。
15.38.15
रमे चाहं त्वया पुत्र पुरेव गजसाहये ।
नाथेनानुगतो विद्वन्प्रियेषु परिवर्तिना ॥ १५.३८.१५ ॥
我儿,正如从前在象城,我与你一同欢喜。博学者啊,有你作为庇护,行走于亲人之间,我得以喜乐。
15.38.16
प्राप्तं पुत्रफलं त्वत्तः प्रीतिर्मे परमा त्वयि ।
न मे मन्युर्महाबाहो गम्यतां मा चिरं कृथाः ॥ १५.३८.१६ ॥
我从你那里得到了儿子的福报,我对你有至高的爱。大臂者啊,我心中并无怒意。去吧,不要耽搁太久。
15.38.17
भवन्तं चेह संप्रेक्ष्य तपो मे परिहीयते ।
उपयुक्तं शरीरं च त्वां दृष्ट्वा धारितं पुनः ॥ १५.३८.१७ ॥
在此见到你,我的苦行便有所减损;然而见到你之后,我的身体又得以支撑。
15.38.18
मातरौ ते तथैवेमे शीर्णपर्णकृताशने ।
मम तुल्यव्रते पुत्र न चिरं वर्तयिष्यतः ॥ १५.३८.१८ ॥
你的两位母亲也一样,以落叶为食,持与我相同的誓愿。我儿,她们不会支撑太久。
15.38.19
दुर्योधनप्रभृतयो दृष्टा लोकान्तरं गताः ।
व्यासस्य तपसो वीर्याद्भवतश्च समागमात् ॥ १५.३८.१९ ॥
凭借毗耶娑的苦行之力与你们的相会,难敌等人被看见已进入另一个世界。
15.38.20
प्रयोजनं चिरं वृत्तं जीवितस्य ममानघ ।
उग्रं तपः समास्थास्येत्वमनुज्ञातुमर्हसि ॥ १५.३८.२० ॥
无罪者啊,我长久生命的目的已经完成;我将修持严酷的苦行,你应当允许。
15.38.21
त्वय्यद्य पिण्डः कीर्तिश्च कुलं चेदं प्रतिष्ठितम् ।
श्वोवाऽद्य वा महाबाहो गम्यतां माचिरं कृथाः ॥ १५.३८.२१ ॥
今日,祭品、名声与此家族皆系于你身;大臂者啊,明日或今日便去吧,不要耽搁。
15.38.22
राजनीतिः सुबहुशः श्रुता ते भरतर्षभ ।
संदेष्टव्यं न पश्यामि कृतमेतावता विभो ॥ १५.३८.२२ ॥
婆罗多族中的雄牛啊,你已多次听闻王道;我看不到还需嘱咐什么,威力无边者啊,如此已足够。
15.38.23
इत्युक्तवचनं तं तु नृपो राजानमब्रवीत् ।
न मामर्हसि धर्मज्ञ परित्यक्तुमनागसम् ॥ १५.३८.२३ ॥
说完这些话后,那位国王对国王说:精通法者啊,你不应舍弃我这个无罪之人。
15.38.24
कामं गच्छन्तु मे सर्वे भ्रातरोऽनुचरास्तथा ।
भवन्तमहमन्विष्ये मातरौ च यतव्रतः ॥ १५.३८.२४ ॥
任凭我的兄弟和随从各自随意离去;我坚守誓愿,将亲自寻找你和两位母亲。
15.38.25
तमुवाचाथ गान्धारी मैवं पुत्र शृणुष्व च ।
त्वय्यधीनं कुरुकुलं पिण्डश्च श्वशुरस्य मे ॥ १५.३८.२५ ॥
于是甘陀利对他说:「儿啊,不要这样说,听着。俱卢族和我公公的供饭都系于你一人。」
15.38.26
गम्यतां पुत्र पर्याप्तमेतावत्पूजिता वयम् ।
राजा यदाह तत्कार्यं त्वया पुत्र पितुर्वचः ॥ १५.३८.२६ ॥
「儿啊,去吧。这已经足够,我们已受到尊敬。国王所说的,儿啊,就是父亲的话;你应当去做。」
15.38.27
इत्युक्तः स तु गान्धार्या कुन्तीमिदमभाषत ।
स्नेहबाष्पाकुले नेत्रे परिमृज्य विनीतवत् ॥ १५.३८.२७ ॥
甘陀利如此说后,他便对贡蒂说此话,擦拭充满爱之泪水的双眼,谦恭地。
15.38.28
विसर्जयति मां राजा गान्धारी च यशस्विनी ।
भवत्यां बद्धचित्तस्तु कथं यास्यामि दुःखितः ॥ १५.३८.२८ ॥
国王和名声显赫的甘陀利送我离去,然而我的心系于你;我悲伤地如何能走呢?
15.38.29
न चोत्सहे तपोविघ्नं कर्तुं ते धर्मचारिणि ।
तपसो हि परं नास्ति तपसा विन्दते महत् ॥ १५.३८.२९ ॥
法行之女啊,我也不愿妨碍你的苦行。没有比苦行更高的;通过苦行,人便得到伟大的成就。
15.38.30
ममापि न तथा राज्ञि राज्ये बुद्धिर्यथा पुरा ।
तपस्येवानुरक्तं मे मनः सर्वात्मना तथा ॥ १५.३८.३० ॥
王后啊,我的心意已不像从前那样系于王国;我的心完全专注于苦行。
15.38.31
शून्येयं च मही कृत्स्ना न मे प्रीतिकरी शुभे ।
बान्धवा नः परिक्षीणा बलं नो न यथा पुरा ॥ १५.३८.३१ ॥
整个大地都空虚了,它不再使我喜悦,吉祥的女子啊。我们的亲族已大大衰败,我们的力量也不如从前。
15.38.32
पाञ्चालाः सुभृशं क्षीणाः कन्यामात्रावशेषिताः ।
न तेषां कुलकर्तारं कञ्चित्पश्याम्यहं शुभे ॥ १५.३८.३२ ॥
般遮罗人已大大衰落,他们之中只剩下少女。吉祥的女子啊,我看不到他们之中有谁能延续家族的血脉。
15.38.33
सर्वे हि भस्मासान्नीतास्ते द्रोणेन रणाजिरे ।
अवशिष्टाश्च निहता द्रोणपुत्रेण वै निशि। ॥ १५.३८.३३ ॥
他们全都在战场上被德罗纳化为灰烬,而残存者则在夜间被德罗纳之子杀死。
15.38.34
चेदयश्चैव मत्स्याश्च दृष्टपूर्वास्तथैव नः ।
केवलं वृष्णिचक्रं च वासुदेवपरिग्रहात्।
यद्दृष्ट्वा स्थातुमिच्छामि धर्मार्थं नार्थहेतुतः ॥ १५.३८.३४ ॥
我们以前也见过车底国和摩蹉国,但如今因婆薮提婆的庇护,只剩下毗瑟尼族。我想留在这里,为了法,而非为了财富。
15.38.35
शिवेन पश्य नः सर्वान्दुर्लभं तव दर्शनम् ।
भविष्यत्यंब राजा हि तीव्रं चारप्स्यते तपः ॥ १५.३८.३५ ॥
请以吉祥之心看望我们所有人,你的面容难得一见。母亲啊,国王将修持严厉的苦行。
15.38.36
एतच्छ्रुत्वा महाबाहुः सहदेवो युधांपतिः ।
युधिष्ठिरमुवाचेदं बाष्पव्याकुललोचनः ॥ १५.३८.३६ ॥
萨诃提婆(大臂、战士之主)听后,泪眼模糊,对坚战说了这番话。
15.38.37
नोत्सहेऽहं परित्यक्तुं मातरं भरतर्षभ ।
प्रतियातु भवान्क्षिप्रं तपस्तप्स्याम्यहं वने ॥ १५.३८.३७ ॥
婆罗多族的雄牛啊,我不能舍弃母亲。你快快回去吧,我将在林中苦修。
15.38.38
इहैव शोषयिष्यामि तपसेदं कलेवरम् ।
पादशुश्रूषणेरक्तो राज्ञो मात्रोस्तथाऽनयोः ॥ १५.३८.३८ ॥
我将在此以苦行使这身躯枯竭,专心侍奉国王与这两位母亲的双足。
15.38.39
तमुवाच ततः कुन्ती परिष्वज्य महाभुजम् ।
गम्यतां पुत्र मैवं त्वं वोचः कुरु वचो मम ॥ १५.३८.३९ ॥
于是贡蒂拥抱那位大臂者说:孩子,去吧;不要这样说,听从我的话。
15.38.40
आगमा वः शिवाः सन्तु स्वस्था भवत पुत्रकाः ।
उपरोधो भवेदेवमस्माकं तपसः कृते ॥ १५.३८.४० ॥
愿你们的道路吉祥;我的孩子们,你们要平安安好。为了我们的苦行,这样的阻碍便会降临。
15.38.41
त्वत्स्नेहपाशबद्धा च हीयेयं तपसः परात् ।
तस्मात्पुत्रक गच्छ त्वं शिष्टमल्पं च नः प्रभो ॥ १५.३८.४१ ॥
被你的爱之绳索所缚,我将从至高的苦行中退失。所以孩子,你去吧;主啊,我们所剩的生命已经不多了。
15.38.42
एवं संस्तंभितं वाक्यैः कुन्त्या बहुविधैर्मनः ।
सहदेवस्य राजेन्द्र राज्ञश्चैव विशेषतः ॥ १५.३८.४२ ॥
王中之王啊,贡蒂的种种言语就这样使偕天的心意被止住,而国王的心尤其如此。
15.38.43
ते मात्रा समनुज्ञाता राज्ञा च कुरुपुङ्गवाः ।
अभिवाद्य कुरुश्रेष्ठमामन्त्रयितुमारभन् ॥ १५.३८.४३ ॥
得到母亲与国王的允许后,这些俱卢族的雄杰向俱卢族中最优秀者行礼,开始告辞。
15.38.44
राज्यं प्रति गमिष्यामः शिवेन प्रतिनन्दितः ।
अनुज्ञातास्त्वया राजन्गमिष्यामो विकल्मषाः ॥ १५.३८.४४ ॥
我们将在吉祥的祝福中告辞,前往王国;大王,蒙您允许,我们将无过地离去。
15.38.45
एवमुक्तः स राजर्षिर्धर्मराज्ञा महात्मना ।
अनुयज्ञे जयाशीर्भिः पूजयित्वा युधिष्ठिरम् ॥ १५.३८.४५ ॥
大德法王如此言语之后,那位王仙在祭祀结束时以胜利的祝福尊敬坚战……
15.38.46
भीमं च बलिनां श्रेष्ठं सान्त्वयामास पार्थिवः ।
स चास्य सम्यङ्मेधावी प्रत्यपद्यत वीर्यवान् ॥ १५.३८.४६ ॥
国王也安慰了力士中最优秀的怖军,那位智慧而勇猛的人也完全接受了他的话。
15.38.47
अर्जुनं च समाश्लिष्य यंमौ च भरतर्षभौ ।
अनुयज्ञे स कौरव्यः परिष्वज्याभिनन्द्य च ॥ १५.३८.४७ ॥
那位俱卢人拥抱了阿周那,以及婆罗多族的两位雄杰双胞胎兄弟,在祭祀结束时拥抱并祝贺他们……
15.38.48
गान्धार्या चाभ्यनुज्ञाताः कृतपादाभिवादनाः ।
जनन्या समुपाघ्राताः परिष्वक्ताश्च ते नृपम् ॥ १५.३८.४८ ॥
得到甘陀利的允许后,他们在她足下行礼,被母亲嗅首并拥抱,然后走向国王。
15.38.49
चक्रुः प्रदक्षिणं सर्वे वत्सा इव निवारणे ।
पुनः पुनर्निरीक्षन्तः प्रचक्रुस्ते प्रदक्षिणम् ॥ १५.३८.४९ ॥
如被拴在栏边的牛犊,众人皆右绕行礼,一再回首顾望。
15.38.50
द्रौपदीप्रमुखाश्चैव सर्वाः कौरवयोषितः ।
न्यायतः श्वशुरे वृत्तिं प्रयुज्य प्रययुस्ततः ॥ १५.३८.५० ॥
以德罗波蒂为首,诸考罗婆妇人依礼对待公公之后,便从那里出发了。
15.38.51
श्वश्रूभ्यां समनुज्ञाताः परिष्वज्याभिनन्दिताः ।
संदिष्टाश्चेतिकर्तव्यं प्रययुर्भर्तृभिः सह ॥ १५.३८.५१ ॥
得到婆婆的许可,受到拥抱与祝福,并被告知应当如何行事,她们便与丈夫一同启程。
15.38.52
ततः प्रजज्ञे निनदः सूतानां युज्यतामिति ।
उष्ट्राणां क्रोशतां चापि हयानां हेषतामपि ॥ १५.३८.५२ ॥
于是御者喊道:"套车!"骆驼的哀鸣与马匹的嘶鸣也随之响起。
15.38.53
ततो युधिष्ठिरो राजा सदारः सहसैनिकः ।
नगरं हास्तिनपुरं पुनरायात्सबान्धवः ॥ १५.३८.५३ ॥
于是国王坚战携妻妾、军士与亲族,重新回到了象城(Hāstinapura)。