摩诃婆罗多 · 章 15.39
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
15.39.1
तेषु चोपनिवृत्तेषु पाण्डवेषु यदृच्छया ।
देवर्षिर्नारदो राजन्नाजगाम युधिष्ठिरम् ॥ १५.३९.१ ॥
当般度诸子返回之后,大王啊,神仙那罗陀偶然来到了坚战面前。
15.39.2
तमभ्यर्च्य महाबाहुः कुरुराजो युधिष्ठिरः ।
आसीनं परिविश्वस्तं प्रोवाच वदतांवरः ॥ १५.३९.२ ॥
坚战,俱卢王,大臂者,言语中的最优者,恭敬地招待了他,并对安坐的他说道。
15.39.3
चिरात्तु नानुपश्यामि भगवन्तमुपस्थितम् ।
कच्चित्ते कुशलं विप्र शुभं वा प्रत्युपस्थितम् ॥ १५.३९.३ ॥
久别之后,我见到您这位尊者来到这里。婆罗门啊,您是否安好?还是带来了吉祥的消息?
15.39.4
के देशाः परिदृष्टास्ते किं च कार्यं करोमि ते ।
तद्ब्रूहि द्विजमुख्यस्त्वं ह्यस्माकं च प्रियोऽतिथिः। ॥ १५.३९.४ ॥
您游历了哪些地方?我能为您做什么?二生者中的最优者啊,请说吧,您是我们亲爱的客人。
15.39.5
चिरदृष्टोसि मेऽत्येवमागतोऽहं तपोवनात् ।
परिदृष्टानि तीर्थानि गङ्गा चैव मया नृप ॥ १५.३९.५ ॥
我久别之后才见到您,因为我是从苦行林来的。大王啊,我已游历了圣渡口,也见到了恒河。
15.39.6
वदन्ति पुरुषा मेऽद्य गङ्गातीरनिवासिनः ।
धृतराष्ट्रं महात्मानमास्थितं परमं तपः ॥ १५.३९.६ ॥
今天,住在恒河岸边的人们告诉我,大心的持国正修持最高的苦行。
15.39.7
अपि दृष्टस्त्वया तत्र कुशली स कुरूद्वहः ।
गान्धारी च पृथा चैव सूतपुत्रश्च संजयः ॥ १५.३९.७ ॥
你在那里是否见到了库鲁族的那位支柱安好?还有甘陀利、普利塔,以及御者之子桑阇耶?
15.39.8
कथं च वर्तते चाद्य पिता मम स पार्थिवः ।
श्रोतुमिच्छामि भगवन्यदि दृष्टस्त्वया नृपः ॥ १५.३९.८ ॥
如今我的父亲那位君王怎样?尊者,若您见过国王,我愿意听闻。
15.39.9
स्थिरीभूय महाराज शृणु वृत्तं यथातथम् ।
यथाश्रुतं च दृष्टं च मया तस्मिंस्तपोवने ॥ १५.३९.९ ॥
大王,请安静地听。我如实地讲述在那片苦修林中所听所见之事。
15.39.10
वनवासनिवृत्तेषु भवत्सु कुरुनन्दन ।
कुरुक्षेत्रात्पिता तुभ्य गङ्गाद्वारं ययौ नृप ॥ १५.३९.१० ॥
库鲁族的喜乐,当你们从林中流放归来之后,大王,您的父亲便从俱卢之野前往恒河门。
15.39.11
गान्धार्या सहितो धीमान्वध्वा कुन्त्या समन्वितः ।
संजयेन च सूतेन साग्निहोत्रः सयाजकः ॥ १५.३९.११ ॥
这位智者与甘陀利同行,还有儿媳贡蒂与御者桑阇耶相随,携带圣火与祭司。
15.39.12
आतस्थे स तपस्तीव्रं पिता तव तपोधनः ।
अग्निं मुखे समाधाय वायुभक्षोऽभवन्मुनिः ॥ १५.३९.१२ ॥
您的父亲,以苦行为富,开始了严酷的苦修。将火置于口中,他成为只以风为食的仙人。
15.39.13
वने स मुनिभिः सर्वैः पूज्यमानो महातपाः ।
त्वगस्थिमात्रशेषः स षण्मासानभवन्नृपः ॥ १५.३९.१३ ॥
在森林中,这位大苦行的国王受到所有仙人的尊敬,六个月间只剩下皮和骨头。
15.39.14
गान्धारी तु जलाहारी कुन्ती मासोपवासिनी ।
संजयः षष्ठभुक्तेन वर्तयामास भारत ॥ १५.३९.१४ ॥
甘陀利只以水为食,贡蒂禁食一个月,而桑耶大只在每第六次时进食维持生命,婆罗多啊。
15.39.15
अग्नींस्तु याजकास्तत्र जुहुवुर्विधिवत्प्रभो ।
दृश्यतोऽदृश्यतश्चैव वने तस्मिन्नृपस्य वै ॥ १५.३९.१५ ॥
主啊,在那片森林中,国王的祭司依法向圣火献祭,有时可见,有时不可见。
15.39.16
अनिकेतोथ राजा स बभूव वनगोचरः ।
ते चापि सहिते देव्यौ संजयश्च तमन्वयुः ॥ १५.३९.१६ ॥
于是那位国王成为无家可归的林中行者;那两位王后也与他同在,桑耶大也跟随着他。
15.39.17
संजयो नृपतेर्नेता समेषु विषमेषु च ।
गान्धार्याश्च पृथा चैव चक्षुरासीदनिन्दिता ॥ १५.३९.१७ ॥
桑耶大在平坦与崎岖之地都为国王引路,他也是甘陀利与无过失的普利塔的眼睛。
15.39.18
ततः कदाचिद्गङ्गायाः कच्छे स नृपसत्तमः ।
गङ्गायामाप्लुतो धीमानाश्रमाभिमुखो ययौ ॥ १५.३९.१८ ॥
有一次,那位最优秀的国王在岸边的恒河中沐浴后,明智地向修行处走去。
15.39.19
अथ वायुः समुद्भुतो दावाग्निरभवन्महान् ।
ददाह तद्वनं सर्वं परिगृह्य समन्ततः ॥ १५.३९.१९ ॥
于是风起,一场大森林火灾燃起。它从四面包围,烧毁了整片森林。
15.39.20
दह्यत्सु मृगयूथेषु द्विजिह्वेषु समन्ततः ।
वराहाणां च यूथेषु संश्रयत्सु जलाशयान् ॥ १५.३९.२० ॥
鹿群与蛇在四面燃烧,野猪群则在水池中寻求庇护,
15.39.21
सम्प्रदीप्ते वने तस्मिन्प्राप्ते व्यसन उत्तमे ।
निराहारतया राजा मन्दप्राणविचेष्टितः।
असमर्थोऽपसरणे सुकृशे मातरौ च ते ॥ १५.३९.२१ ॥
当那片森林全部燃烧、至大灾难降临时,国王因缺乏食物而气息微弱、动作迟钝,无力避开;你的两位母亲也极为憔悴。
15.39.22
ततः स नृपतिर्दृष्ट्वा वह्निमायान्तमन्तिकात् ।
इदमाह ततः सूतं संजयं जयतांवरः ॥ १५.३९.२२ ॥
那时,国王看见火从近处逼来,这位胜利者中的最优者便对御者桑闍耶说了这番话。
15.39.23
गच्छ संजय यत्राग्निर्न त्वां दहति कर्हिचित् ।
वयमत्राग्निना युक्ता गमिष्यामः परां गतिम् ॥ १५.३९.२३ ॥
桑闍耶啊,你去吧,去到火永远不会烧你的地方。我们在此与火相合,将前往至高的归宿。
15.39.24
तमुवाच किलोद्विग्नः संजयो वदतांवरः ।
राजन्मृत्युरनिष्टोऽयं भविता ते वृथाऽग्निना ॥ १५.३९.२४ ॥
于是桑闍耶心中不安,这位演说者中的最优者对他说:大王,这不祥的死亡将因火而白白降临于你。
15.39.25
न चोपायं प्रपश्यामि मोक्षणे जातवेदसः ।
यदत्रानन्तरं कार्यं तद्भवान्वक्तुमर्हति ॥ १५.३९.२५ ॥
我看不到从火中解脱的办法。接下来在此应当做什么,您应当告诉我。
15.39.26
इत्युक्तः संजयेनेदं पुनराह स पार्थिवः ।
नैष मृत्युरनिष्टो नो निःसृतानां गृहात्स्वयम् ॥ १५.३९.२६ ॥
桑闍耶如此说后,那位国王又说:“对于我们这些自行离家的人,这死亡并非不吉。”
15.39.27
जलमग्निस्तथा वायुरथवाऽपि विकर्षणम् ।
तापसानां प्रशस्यं ते गच्च संजय माचिरम् ॥ १५.३९.२७ ॥
水、火、风,或被卷走,对于苦行者都是值得称赞的。桑闍耶啊,你快去,不要久留。
15.39.28
इत्युक्त्वा संजयं राजा समाधाय मनस्तथा ।
प्राङ्मुखः सह गान्धार्या कुन्त्या चोपाविशत्तदा ॥ १५.३९.२८ ॥
对桑闍耶说完这话,国王收摄心神,面向东方,与甘陀利和贡蒂一同坐下。
15.39.29
संजयस्तं तथा दृष्ट्वा प्रदक्षिणमथाकरोत् ।
उवाच चैनं मेधावी युङ्क्ष्वात्मानमिति प्रभो ॥ १५.३९.२९ ॥
桑闍耶见他如此,便右绕致敬,说:“主啊,智者,请您收摄自我。”
15.39.30
ऋषिपुत्रो मनीषी स राज चक्रेऽस्य तद्वचः ।
सन्निरुध्येन्द्रियग्राममासीत्काष्ठोपमस्तदा ॥ १५.३९.३० ॥
那位仙人之子、智者,国王听从了他的话。他完全收摄诸根,便如木头一般端坐不动。
15.39.31
गान्धारी च महाभागा जननी च पृथा तव ।
दावाग्निना समायुक्ते स च राजा पिता तव ॥ १५.३९.३१ ॥
大福的甘陀利、你的母亲普利塔,以及你的父王,被林火所围困。
15.39.32
संजयस्तु महाप्राज्ञस्तस्माद्दावादमुच्यत ।
गङ्गाकूले मया दृष्टस्तापसैः परिवारितः ॥ १५.३९.३२ ॥
然而大智的桑惹耶从那场林火中脱身;我看见他在恒河岸边,被苦行者们环绕。
15.39.33
स तानामन्त्र्य तेजस्वी निवेद्यैतच्च सर्वशः ।
प्रययौ संजयो धीमान्हिमवन्तं महीधरम् ॥ १५.३९.३३ ॥
他与他们告别,将这一切完整地禀告之后,光明而智慧的桑惹耶便前往喜马拉雅山。
15.39.34
एवं स निधनं प्राप्तः कुरुराजो महामनाः ।
गान्धारी च पृथा चैव जनन्यौ ते विशाम्पते ॥ १५.३९.३४ ॥
如此,那位心胸广大的库鲁王便已殒命;啊,人主,你的两位母亲甘陀利与普利塔亦是如此。
15.39.35
यदृच्छयाऽनुव्रजता मया राज्ञः कलेवरम् ।
तयोश्च देव्योरुभयोर्मया दृष्टानि भारत ॥ १५.३९.३५ ॥
婆罗多之子啊,我偶然行走时,看见了国王的遗体,以及那两位王后的遗体。
15.39.36
ततस्तपोवने तस्मिन्समाजग्मुस्तपोधनाः ।
श्रुत्वा राज्ञस्तदा निष्ठां न त्वशोचन्गतीश्च ते ॥ १५.३९.३६ ॥
于是那些以苦行为财富的仙人聚集在那片苦行林中;听闻国王的结局,他们并不悲伤,也不为他们的去向悲伤。
15.39.37
तत्राश्रौषमहं सर्वमेतत्पुरुषसत्तम ।
यथा च नृपतिर्दग्धो देव्यौ ते चेति पाण्डव ॥ १५.३९.३७ ॥
人中之最,般度之子啊,我在那里听闻了这一切:国王如何被焚,你的两位王后也如何被焚。
15.39.38
न शोचितव्यं राजेन्द्र स्वर्गस्थः पृथिवीपतिः ।
प्राप्तवानग्निसंयोगं गान्धारी जननी च ते ॥ १५.३९.३८ ॥
诸王之主啊,不应悲伤。大地之主已在天界,你的母亲甘陀利也已与火相合。
15.39.39
एतच्छ्रुत्वा च सर्वेषां पाण्डवानां महात्मनाम् ।
निर्याणं धृतराष्ट्रस्य शोकः समभवन्महान् ॥ १५.३९.३९ ॥
众大德般度子们听闻此事,对持国王的离去都生起了深深的悲痛。
15.39.40
अन्तःपुराणां च तदा महानार्तस्वरोऽभवत् ।
पौराणां च महाराज श्रुत्वा राज्ञस्तदा गतिम् ॥ १५.३९.४० ॥
大王啊,那时听闻国王的去向,后宫与城中百姓之中便响起了巨大的哀号。
15.39.41
अहो धिगिति राजा तु विक्रुश्य भृशदुःखितः ।
ऊर्ध्वबाहुः स्मरन्मातुः प्ररुरोद युधिष्ठिरः ॥ १५.३९.४१ ॥
'唉,可耻!'国王坚战深感悲痛,高举双臂,想起母亲,放声大哭。
15.39.42
भीमसेनपुरोगाश्च भ्रातरः सर्व एव ते ।
रुरुदुर्दुःखसंतप्ता वर्णयन्तः पृथां तदा ॥ १५.३९.४२ ॥
以怖军为首的诸兄弟,被悲痛煎熬,哭泣着,同时赞颂普利塔(贡蒂)。
15.39.43
अन्तःपुरेषु च तदा सुमहान्रुदितस्वनः ।
प्रादुरासीन्महाराज पृथां श्रुत्वा तथागताम् ॥ १५.३९.४३ ॥
那时,内宫中升起了巨大的哭声,大王啊,听闻普利塔如此去世之后。
15.39.44
तं च वृद्धं तथा दग्धं हतपुत्रं नराधिपम् ।
अन्वशोचन्त ते सर्वे गान्धारीं च तपस्विनीम् ॥ १५.३९.४४ ॥
他们都为那位老迈、焚毁、丧子的国王哀悼,也为苦行的甘陀利哀悼。
15.39.45
तस्मिन्नुपरते शब्दे मुहूर्तादिव भारत ।
निगृह्य बाष्पं धैर्येण धर्मराजोऽब्रवीदिदम् ॥ १५.३९.४५ ॥
婆罗多啊,那声音停止之后,仿佛过了一刻,法王以坚忍克制住泪水,说出了这些话。