摩诃婆罗多 · 章 15.4
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
15.4.1
न मां प्रीणयते राज्यं त्वय्येवं दुःखिते नृप ।
दिङ्मामस्तु सुदुर्बुद्धिं राज्यसक्तं प्रमादिनम् ॥ १५.४.१ ॥
君王啊,你如此悲伤,这王国并不能让我欢喜。愿我这极其愚昧、贪恋王权、疏忽放逸的人受到斥责!
15.4.2
गृहे वसन्तं दुःखार्तमुपवासकृशं भृशम् ।
यताहारं क्षितिशयं नाविदं भ्रातृभिः सह ॥ १५.४.२ ॥
住在家中,为悲伤所苦,因禁食而极度消瘦,节制饮食,睡在地上——这一切我和兄弟们都未曾知晓。
15.4.3
अहोस्मि वञ्चितो मूढो भवता गूढबुद्धिना ।
विस्वासयित्वा पूर्वं मां यदिदं दुःखमश्नुथा ॥ १५.४.३ ॥
唉!我这愚人被你这心机深藏的人所欺骗。你先令我信任,之后自己却遭受了这份痛苦。
15.4.4
किं मे राज्येन भोगैर्वा किं यज्ञैः किं सुखेन वा ।
यस्य मे त्वं महीपाल दुखान्येतान्यवाप्तवान् ॥ १५.४.४ ॥
大地的守护者啊!因为我,你遭受了这些苦难。对于我这样的人,王权、享乐、祭祀或安乐又有什么用呢?
15.4.5
पीडितं चापि जानामि राज्यमात्मानमेव च ।
अनेन वचसा तेऽद्य दुःखितस्य जनेश्वरः ॥ १५.४.५ ॥
人民之主啊!从你今日这些话中,我知道王国和我自己都在受苦,而你也如此悲伤。
15.4.6
भवान्पिता भवान्माता भवान्नः परमो गुरुः ।
भवता विप्रहीणा वै क्वनु तिष्ठामहे वयम् ॥ १५.४.६ ॥
你是我们的父亲,你是我们的母亲,你是我们至高的导师。与你分离的我们,将站在何处呢?
15.4.7
औरसो भवतः पुत्रो युयुत्सुर्नृपसत्तम ।
अस्तु राजा महाराज यमन्यं मन्यते भवान् ॥ १५.४.७ ॥
诸王中的至尊啊,愿你的亲生儿子युयुत्सु为王。大王啊,愿你视为他人的那人为王。
15.4.8
अहं वनं गमिष्यामि भवान्राजा प्रशास्त्विदम् ।
नमामयशसा दग्धं भूयस्त्वं दग्धुमर्हसि ॥ १५.४.८ ॥
我将入林而去;大王您为王,治理此国。您应当再次焚烧那被那摩之名所焚的(大地)。
15.4.9
नाहं राजा भवान्राजा भवता परवानहम् ।
कथं गुरुं त्वां धर्मज्ञमनुज्ञातुमिहोत्सहे ॥ १५.४.९ ॥
我不是王,您才是王;我依赖于您。知法的、如师长一般的您,我怎敢在此允许您呢?
15.4.10
न मन्युर्हृदि नः कश्चित्सुयोधनकृतेऽनघ ।
भवितव्यं तथा तद्धि वयं चान्ये च मोहिताः ॥ १५.४.१० ॥
无罪者啊,因为难敌,我们心中并无怨怒。事情必然如此;我们与其他人都被迷惑了。
15.4.11
वयं पुत्रा हि भवोत यथा दुर्योधनादयः ।
गान्धारी चैव कुन्ती च निर्विशेषे मते मम ॥ १५.४.११ ॥
我们也是您的儿子,如难敌等人一样。在我看来,甘陀利与贡蒂也毫无差别。
15.4.12
स मां त्वं यदि राजेन्द्र परित्यज्य गमिष्यसि ।
पृष्ठतस्त्वनुयास्यामि सत्यमात्मानमालभे ॥ १५.४.१२ ॥
王中之王啊,若您舍弃我而离去,我将在您身后跟随。此为真实,我以自身发誓。
15.4.13
इयं हि वसुसंपूर्णा मही सागरमेखला ।
भवता विप्रहीणस्य न मे प्रीतिकरी भवेत् ॥ १५.४.१३ ॥
这片充满财富、以大海为腰带的大地,若与你分离,也不会使我欢喜。
15.4.14
भवदीयमिदं सर्वं शिरसा त्वां प्रसादये ।
त्वदधीनाः स्म राजेन्द्र व्येतु ते मानसो ज्वरः ॥ १५.४.१४ ॥
这一切都属于你;我低首恳求你。王中之王啊,我们依赖于你;愿你心中的煎熬消散。
15.4.15
भवितव्यमनुप्राप्तो मन्ये त्वं वसुधाधिप ।
दिष्ट्या शुश्रूषमाणस्त्वां मोक्षिष्ये मनसो ज्वरं ॥ १५.४.१५ ॥
我想这本是注定会发生的,大地之主啊。幸运的是,侍奉你,我将从心中的这股煎熬中解脱。
15.4.16
तापस्ये मे मनस्तात वर्तते कुरुनन्दन ।
उचितं च कुलेऽस्माकमरण्यगमनं प्रभो ॥ १५.४.१६ ॥
我的心向往苦行生活,亲爱的儿子,库鲁族的欢喜。对于我们家族而言,前往森林是恰当的,主啊。
15.4.17
चिरमध्युषितः पुत्र चिरं शुश्रूषितस्त्वया ।
वृद्धं मामप्यनुज्ञातुमर्हसि त्वं नराधिप ॥ १५.४.१७ ॥
儿子啊,我在此居住已久,你也长久地侍奉我。人主啊,你也应当允许年老的我离去。
15.4.18
इत्युक्त्वा धर्मराजानं वेपमानं कृताञ्जलिम् ।
उवाच विदुरं राजा धृतराष्ट्रोंऽबिकासुतः ॥ १५.४.१८ ॥
对着双手合十、浑身颤抖的法王如此说完,安比卡之子国王持国便对毗度罗说道。
15.4.19
संजयं च महात्मानं कृपं चापि महारथम् ।
अनुनेतुमिहेच्छामि भवद्भिर्वसुधाधिपम् ॥ १५.४.१९ ॥
我希望你们在此安抚那位大度的桑闍耶、大车战士克里巴,以及大地之主。
15.4.20
म्लायते मे मनो हीदं मुखं च परिशुष्यति ।
वयसा च प्रकृष्टेन वाग्व्यायामेन चैव ह ॥ १५.४.२० ॥
我的心神枯萎,面容也干涸了,因为年迈,也因为说了太多话而疲惫。
15.4.21
इत्युक्त्वा स तु धर्मात्मा वृद्धो राजा कुरूद्वहः ।
गान्धारीं शिश्रिये धीमान्सहसैव गतासुवत् ॥ १५.४.२१ ॥
说完这些,那位心地正直、年迈的国王,俱卢之最,智慧的他,突然倚靠在甘陀利身上,仿佛已气绝。
15.4.22
तं तु दृष्ट्वा समासीनं विसंज्ञमिव कौरवम् ।
आर्तिं राजाऽगमत्तीव्रां कौन्तेयः परवीरहा ॥ १५.४.२२ ॥
看到那位俱卢族人坐着,仿佛失去知觉,敌方英雄的屠杀者、俱提之子国王,感到了剧烈的痛苦。
15.4.23
यस्य नागसहस्रेण शतसङ्ख्येन वै बलम् ।
सोयं नारीं व्यपाश्रित्य शेते राजा गतासुवत् ॥ १५.४.२३ ॥
此王力量抵得上千头大象,如今却倚靠着一位女子,像死去一般躺着。
15.4.24
आयसी प्रतिमा येन भीमसेनस्य सा पुरा ।
चूर्णीकृता बलवता सोबलामाश्रितः स्त्रियम् ॥ १५.४.२४ ॥
昔日粉碎了毗摩娑那那尊铁像的强者,如今却依靠着一位柔弱的女子。
15.4.25
धिगस्तु मामधर्मज्ञं धिग्बुद्धिं धिक्च मे श्रुतम् ।
यत्कृते पृथिवीपालः शेतेऽयमतथोचितः ॥ १५.४.२५ ॥
我这不知法的人应受责备!我的智慧应受责备,我所学的也应受责备。因我之故,这位大地的守护者竟躺在不相称的境地之中。
15.4.26
अहमप्युपवत्स्यामि यथैवायं गुरुर्मम ।
यदि राजा न भुङ्क्तेऽयं गान्धारी च यशस्विनी ॥ १५.४.२६ ॥
如果我这位师长国王不进食,光荣的甘陀利也不进食,那么我也将同样绝食。
15.4.27
ततोस्य पाणिना राजञ्जलशीतेन पाण्डवः ।
उरो मुखं च शनकैः पर्यमार्जत धर्मवित् ॥ १५.४.२७ ॥
于是,大王啊,通晓法的般度之子用沾了冷水的手,轻轻抚摩他的胸膛和面部。
15.4.28
तेन रत्नौषधिमता पुण्येन च सुगन्धिना ।
पाणिस्पर्शेन राज्ञः स राजा संज्ञामवाप ह ॥ १५.४.२८ ॥
那只神圣、芬芳、蕴含宝石与药草之力的手一经触碰,国王便恢复了知觉。
15.4.29
स्पृशन्तं पाणिना भूयः परिष्यज्य च पाण्डवम् ।
उवाच राजा धर्मज्ञो धृतराष्ट्रः शुभं वचः ॥ १५.४.२९ ॥
般度之子仍以手不断触碰他,通晓法的国王持国再度拥抱他,并说出吉祥的话语。
15.4.30
जीवामीवातिसंस्पर्शात्तव राजीवलोचन ।
मूर्धानं च तवाघ्रातुमिच्छामि मनुजाधिप।
पाणिभ्यां हि परिस्प्रष्टुं प्राणानां हितमात्मनि ॥ १५.४.३० ॥
莲花眼的人啊,正因你的触碰我才得以活着。人主啊,我想嗅一嗅你的头;用双手触摸你,确实对我的生命之气和自身有益。
15.4.31
अष्टमो ह्यद्य कालोऽयमाहारस्य कृतस्य मे ।
येनाहं कुरुशार्दूल शक्नोमि न विचेष्टितुम् ॥ १५.४.३१ ॥
库鲁之虎啊,今天这是我进食的第八次,因此我连动弹都做不到。
15.4.32
व्यायामश्चायमत्यर्थं कृतस्त्वामभियाचता ।
ततो ग्लानमनास्तान नष्टसंज्ञ इवाभवम् ॥ १५.४.३२ ॥
我恳求你时付出了如此大的努力;于是,我心力交瘁,仿佛失去了知觉。
15.4.33
तवामृतसुखस्पर्शं हस्तस्पर्शमिमं प्रभो ।
लब्ध्वा संजीवितोस्मीति मन्ये कुरुकुलोद्वह ॥ १५.४.३३ ॥
主啊,库鲁家族的担当者,得到你这如甘露般令人愉悦的手之触碰,我想我已重获生命。
15.4.34
एवमुक्तस्तु कौन्तेयः पित्रा ज्येष्ठेन भारत ।
पस्पर्श सर्वगात्रेषु स्नेहार्द्रस्तं शनैस्तदा ॥ १५.४.३४ ॥
婆罗多啊,长兄父亲如此说后,怀着深情的贡蒂之子,慢慢地触摸了他全身的每一处。
15.4.35
उपलभ्य ततः प्राणान्धृतराष्ट्रो महीपतिः ।
बाहुभ्यां सम्परिष्वज्य मूर्ध्न्याजिघ्रत पाण्डवम् ॥ १५.४.३५ ॥
于是,重获气息的般度之王持国以双臂紧紧拥抱般度之子,并嗅了嗅他的头顶。
15.4.36
विदुरादयश्च ते सर्वे रुरुदुर्दुःखिता भृशम् ।
अतिदुःखात्तु राजानं नोचुः किञ्चन पाण्डवम् ॥ १५.४.३६ ॥
毗杜罗等人都悲伤不已,痛哭流涕;但因极度悲痛,他们一句话也没有对般度之子国王说。
15.4.37
गान्धारी त्वेव धर्मज्ञा मनसोद्वहती भृशम् ।
दुःखान्यधारयद्राजन्मैवमित्येव चाब्रवीत् ॥ १५.४.३७ ॥
通晓法义的甘陀利心中承受着极大的悲痛,并说道:“大王啊,就这样吧。”
15.4.38
इतरास्तु स्त्रियः सर्वाः कुन्त्या सह सुदःखिताः ।
नेत्रैरागतविक्लेदैः परिवार्य स्थिताऽभवन् ॥ १५.४.३८ ॥
其余的女人们与贡蒂一同深感悲痛,眼中泪水涟涟,围绕着她站立。
15.4.39
अथाब्रवीत्पुनर्वाक्यं धृतराष्ट्रो युधिष्ठिरम् ।
अनुजानीहि मां राजंस्तापस्ये भरतर्षभ ॥ १५.४.३९ ॥
于是持国王又对坚战说道:“大王啊,婆罗多族的雄牛,请允许我过苦行的生活。”
15.4.40
ग्लायते मे मनस्तात भूयोभूयः प्रजल्पतः ।
न मामतः परं पुत्र परिक्लेष्टुमिहार्हसि ॥ १५.४.४० ॥
亲爱的孩子,我反复说话,心中已经疲倦;孩子啊,你不应再在此使我痛苦了。
15.4.41
तस्मिंस्तु कौरवेन्द्रे तं तथा ब्रुवति पाण्डवम् ।
सर्वेषामवरोधानामार्तनादो महानभूत् ॥ १५.४.४१ ॥
当库鲁之主如此对般度之子说话时,内宫所有女子中发出了巨大的哀号声。
15.4.42
दृष्ट्वा कृशं विवर्णं च राजानमतथोचितम् ।
उपवासपरिश्रान्तं त्वगस्थिपरिवारितम् ॥ १५.४.४२ ॥
他们看到国王消瘦苍白,处于不合他身份的状态,因禁食而疲惫,皮包骨头。
15.4.43
धर्मपुत्रः स्वपितरं परिष्वज्य महाप्रभुम् ।
शोकजं बाष्पमुत्सृज्यि पुनर्वचनमब्रवीत् ॥ १५.४.४३ ॥
法之子拥抱了他伟大的父亲,流下因悲痛而生的泪水,然后又说了这些话。
15.4.44
न कामये नरश्रेष्ठ जीवितं पृथिवीं तथा ।
यथा तव प्रियं राजंश्चिकीर्षामि परंतप ॥ १५.४.४४ ॥
人中之最,敌人的焚烧者,国王啊!我既不求生命,也不求大地,只愿做您所喜爱的事。
15.4.45
यदि चाहमनुग्राह्यो भवतो दयितोऽपि वा ।
क्रियतां तावदाहारस्ततो वेत्स्याम्यहं परम् ॥ १५.४.४५ ॥
若我蒙您恩宠,或为您所爱,请先进食;那时我才知道至上之善。
15.4.46
ततोऽब्रवीन्महातेजा धृतराष्ट्रो युधिष्ठिरम् ।
अनुज्ञातस्त्वया पुत्र भुञ्जीयामिति कामये ॥ १५.४.४६ ॥
于是大光辉的持国对坚战说:“孩子,若得你允许,我想进食。”
15.4.47
इति ब्रुवति राजेन्द्रे धृतराष्ट्रे युधिष्ठिरम् ।
ऋषिः सत्यवतीपुत्रो व्यासोऽभ्योत्य वचोऽब्रवीत् ॥ १५.४.४७ ॥
当众王之主持国这样对坚战说话时,萨蒂亚瓦蒂之子仙人毗耶娑走近,说了这些话。