摩诃婆罗多 · 章 15.40
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
15.40.1
तथा महात्मनस्तस्य तपस्युग्रे च तस्थुषः ।
अनाथस्येव निधनं तिष्ठत्स्वस्मासु बन्धुषु ॥ १५.४०.१ ॥
那位大德虽在严酷的苦行中安住,我们这些亲族却站在一旁,他的死亡竟如无依无靠之人一般降临。
15.40.2
दुर्विज्ञेया गतिर्ब्रह्मन्पुरुषाणां मतिर्मम ।
यत्र वैचित्रवीर्योसौ दग्ध एवं वनाग्निना ॥ १५.४०.२ ॥
婆罗门啊,我认为人的命运难以理解;毗奇特拉维利亚之子就这样被林火烧死了。
15.40.3
यस्य पुत्रशतं श्रीमदभवद्बाहुशालिनः ।
नागायुतबलो राजा स दग्धो हि दवाग्निना ॥ १५.४०.३ ॥
那位国王有百位光荣的儿子,臂力强大,拥有万象之力,却被林火烧死了。
15.40.4
यं पुरा पर्यवीजन्त तालवृन्तैर्वरस्त्रियः ।
तं गृध्राः पर्यवीजन्त दावाग्निपरिकालितम् ॥ १५.४०.४ ॥
昔日有优美的女子以棕榈扇为他扇风,如今他被林火烧焦,秃鹫在他周围盘旋。
15.40.5
सूतमागधसङ्घैश्च शयानो यः प्रबोध्यते ।
धरण्यां स नृपः शेते विकृष्टो गृध्रवायसैः ॥ १५.४०.५ ॥
那位曾被诸多御者与赞颂之士唤醒的国王,如今躺在地上,被秃鹫与乌鸦拖曳。
15.40.6
न च शोचामि गान्धारीं हतपुत्रां यशस्विनीम् ।
पतिलोकमनुप्राप्तां तथा भर्तृव्रते स्थिताम् ॥ १५.४०.६ ॥
对于失去了儿子的、名声显赫的甘陀利,我并不悲伤;她已到达丈夫的世界,并坚守于对丈夫的贞节。
15.40.7
पृथामेव च शोचामि या पुत्रैश्वर्यमृद्धिमत् ।
उत्सृज्य् सुमहद्दीप्तं वनवासमरोचयत् ॥ १५.४०.७ ॥
我为普利塔而悲伤,她舍弃了充满儿子们繁荣的广大辉煌王国,却选择了林中生活。
15.40.8
धिग्राज्यमिदमस्माकं धिग्बलं धिक्पराक्रमम् ।
क्षत्रधर्मं च धिग्यस्मान्मृता जीवामहे वयम् ॥ १५.४०.८ ॥
这王国之耻,我们的力量之耻,我们的勇武之耻,刹帝利之职责也可耻,因为我们虽已如死人,却仍然活着。
15.40.9
सुसूक्ष्मा किल लोकस्य गतिर्द्विजवरोत्तम ।
यत्समुत्सृज्य राज्यं सा वनवासमरोचयत् ॥ १५.४०.९ ॥
啊,再生者中最优秀的人,世间的道路实在精微,她舍弃王国,却选择了林中生活。
15.40.10
युधिष्ठिरस्य जननी भीमस्य विजयस्य च ।
अनाथवत्कथं दग्धा इति मुह्यामि चिन्तयन् ॥ १५.४०.१० ॥
坚战、怖军与胜利者的母亲,竟像无依无靠之人般被焚——每每思及此,我便心神迷乱。
15.40.11
वृथा संतर्पितो वह्निः खाण्डवे सव्यसाचिना ।
उपकारमजानन्स कृतघ्न इति मे मतिः ॥ १५.४०.११ ॥
在坎达瓦森林中,萨维亚萨钦白白地让火神得到满足。不知报恩的他是忘恩负义之人,这是我的看法。
15.40.12
यत्रादहत्स भगवान्मातरं सव्यसाचिनः ।
कृत्वा यो ब्राह्मणच्छद्म भिक्षार्थी समुपागतः ॥ १५.४०.१२ ॥
那位化作婆罗门、前来乞食的尊贵火神,正是在那里焚烧了萨维亚萨钦之母。
15.40.13
धिगग्निं धिक् च पार्थस्य विश्रुतां सत्यसन्धताम् ।
इदं कष्टतरं चान्यद्भगवन्प्रतिभाति मे ॥ १५.४०.१३ ॥
火神可耻,普利塔之子闻名的诚信也可耻!尊者啊,此事与另一件事对我来说似乎更加痛苦。
15.40.14
वृथाऽग्निना समायोगो यदभूत्पृथिवीपतेः ।
तथा तपस्विनस्तस्य राजर्षेः कौरवस्य ह ॥ १५.४०.१४ ॥
地上之主与火的结合成了徒劳;那苦行的王仙、俱卢族之人亦复如此。
15.40.15
कथमेवंविधो मृत्युः प्रशास्य पृथिवीमिमाम् ॥ १५.४०.१५ ॥
统治这片大地的人,怎会遭遇这样的死亡?
15.40.16
तिष्ठत्सु मन्त्रपूतेषु तस्याग्निषु महावने ।
वृथाऽग्निना समायुक्तो निष्ठां प्राप्तः पिता मम ॥ १५.४०.१६ ॥
他那经咒净化的圣火仍立于那大林之中,我的父亲却徒然与火相合,走向了终结。
15.40.17
मन्ये पृथा वेपमाना कृशा धमनिसंतता ।
हा तात धर्मराजेति मामाक्रन्दन्महाभये ॥ १५.४०.१७ ॥
我想,普利塔颤抖着、消瘦着、青筋暴露,在巨大的恐惧中呼喊我:“哎呀,我的法王儿啊!”
15.40.18
भीम पर्याप्नुहि भयादिति चैवाभिवाशती ।
समन्ततः परिक्षिप्ता माताऽभून्मे दवाग्निना ॥ १५.४०.१८ ॥
我的母亲四面被林火包围,呼喊着:“婆罗摩啊,救我脱离恐惧!”
15.40.19
सहदेवः प्रियस्तस्याः पुत्रेभ्योधिक एव तु ।
न चैनां मोक्षयामास वीरो माद्रवतीसुतः ॥ १५.४०.१९ ॥
萨诃提婆对她而言比她的儿子们还要亲爱,但摩德罗之女的英勇之子却未能救出她。
15.40.20
तच्छ्रुत्वा रुरुदुः सर्वे समालिङ्ग्य परस्परम् ।
पाण्डवाःक पञ्च दुःखार्ता भूतानीव युगक्षये ॥ १५.४०.२० ॥
众人听闻此言,五位般度子因悲痛而相互拥抱,一同哭泣,仿佛劫末时的众生在哭泣。
15.40.21
तेषां तु पुरुषेन्द्राणां रुदतां रुदितस्वनः ।
प्रासादाभोगसंरुद्धे अन्वरौत्सीत्स रोदसी ॥ १५.४०.२१ ॥
那些人中之雄的哭声被困在广阔的宫殿中,回荡于天地之间。