摩诃婆罗多 · 章 15.6
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
15.6.1
ततो राज्ञाऽभ्यनुज्ञातो धृतराष्ट्रो महामनाः ।
ययौ स्वभवनं राजा गान्धार्याऽनुगतस्तदा ॥ १५.६.१ ॥
于是,得到国王允许的大度的持国王前往自己的宫殿,此时甘陀利跟随在他身后。
15.6.2
मन्दप्राणगतिर्धामान्कृच्छ्रादिव समुद्वहन् ।
पदानि स महीपालो जीर्णो गजपतिर्यथा ॥ १५.६.२ ॥
这位光辉的国王气息微弱、步履迟缓,艰难地迈着步子,像一头年老的象王。
15.6.3
तमन्वगच्छद्विदुरो विद्वान्सूतश्च संजयः ।
स चापि परमेष्वासः कृपः सारद्वतस्तथा ॥ १५.६.३ ॥
跟随在他身后的有智者维杜罗和御者桑阇耶,还有最优秀的射手、夏罗特瓦特之子克利帕。
15.6.4
स प्रविश्य गृहं राजा कृतपूर्वाह्णिकक्रियः ।
तर्पयित्वा द्विजश्रेष्ठानाहारमकरोत्तदा ॥ १५.६.४ ॥
国王进入宅中,完成午前的仪式,使最优秀的再生者满足,然后用餐。
15.6.5
गान्धारी चैव धर्मज्ञा कुन्त्या सह मनस्विनी ।
वधूभिरुपचारेणि पूजिताऽभुङ्क्त भारत ॥ १५.६.५ ॥
精通法的高尚的甘陀利,与贡蒂一同,受到儿媳们的殷勤侍奉而被尊敬,婆罗多啊,也用了饭。
15.6.6
कृताहारं कृताहाराः सर्वे ते विदुरादयः ।
पाण्डवाश्च कुरुश्रेष्ठमुपातिष्ठन्त तं नृपम् ॥ १५.६.६ ॥
大家用过饭后,维杜罗等人以及般度五子都来到那位库鲁之最的国王面前侍奉。
15.6.7
ततोऽब्रवीन्महाराजः कुन्तीपुत्रमुपह्वरे ।
निषण्णं पाणिना पृष्ठे संस्पृशन्नंबिकासुतः ॥ १५.६.७ ॥
于是大王, 安比迦之子, 在密处对坐着的昆提之子说话, 用手抚摸着他的背。
15.6.8
अप्रमादस्त्वया कार्यः सर्वथा कुरुनन्दन ।
अष्टाङ्गे राजशार्दूल राज्ये धर्मपुरस्कृते ॥ १५.६.८ ॥
俱卢的喜悦者啊, 你必须在一切事上保持警惕, 王中之虎啊, 在以法为先的八支王国之中。
15.6.9
तत्तु शक्यं महाराज रक्षितुं पाण्डुनन्दन ।
राज्यं धर्मेण कौन्तेय विद्वानसि निबोध तत् ॥ १५.६.९ ॥
大王, 般度之喜悦者啊, 那个确实可以守护。昆提之子啊, 你当以法守护王国。你是有学识的, 当理解此事。
15.6.10
विद्यावृद्धान्सदैव त्वमुपासीथा युधिष्ठिर ।
शृणुयास्ते च यद्ब्रूयुः कुर्याश्चैवाविचारयन् ॥ १५.६.१० ॥
坚战啊, 你应当常常侍奉学识年长者。听从他们的话, 不加思虑地照做。
15.6.11
प्रातरुस्थाय तान्राजन्पूजयित्वा यथाविधि ।
कृत्यकाले समुत्पन्ने पृच्छेथाः कार्यमात्मनः ॥ १५.६.११ ॥
国王啊, 清晨起身, 依法敬重他们, 当行事的时候到来, 便向他们询问自己的事务。
15.6.12
ते तु सम्मानिता राजंस्त्वया लोकहितार्थिना ।
प्रवक्ष्यन्ति हितं तात सर्वथा तव भारत ॥ १५.६.१२ ॥
大王啊, 你既以利益世间为念, 受你尊敬的他们, 亲爱的婆罗多后裔, 必将对你说一切有益之言。
15.6.13
इन्द्रियाणि च सर्वाणि वाजिवत्परिपालय ।
हितायैव भविष्यन्ति रक्षितं द्रविणं यथा ॥ १५.६.१३ ॥
如驾驭马匹一样控制你的一切感官;如同受保护的财富,它们将为你带来福祉。
15.6.14
अमात्यानुपधातीतान्पितृपैतामहाञ्शुचीन् ।
दान्तान्कर्मसु सर्वेषु मुख्यान्मुख्येषु योजयेः ॥ १५.६.१४ ॥
任用自父祖时代起的大臣,他们超越猜疑、清白自持,委以一切职事,又将贤能之人置于要职。
15.6.15
चारयेथाश्च सततं चारैरविदितः परैः ।
परीक्षितैर्बहुविधैः स्वराष्ट्रेषु परेषु च ॥ १५.६.१५ ॥
令经过多方考验、不为他人所知的细作,时常在自己的国土和敌国境内往来。
15.6.16
पुरं च ते सुगुप्तं स्याद्दृढप्राकारतोरणम् ।
अट्टाट्टालकसम्बाधं षट्पदं सर्वतो दिशम् ॥ १५.६.१६ ॥
愿你的城池守卫森严,城墙坚固,门楼高耸,布满瞭望楼与角楼,四面方正规划。
15.6.17
तस्य द्वाराणि सर्वाणि पर्याप्तानि बृहन्ति च ।
सर्वतः सुविभक्तानि यन्त्रैरारक्षितानि च ॥ १५.६.१७ ॥
城门都要宽大充足,四面布置得当,并以器械守护。
15.6.18
पुरुषैरलमर्थस्ते विदितैः कुलशीलतः ।
आत्मा च रक्ष्यः सततं भोजनादिषु भारत।
विहाराहारकालेषु माल्यशय्यासनेषु च ॥ १५.६.१८ ॥
出身与品行都为人所知的人,足以供你差遣。婆罗多之子啊,饮食等事上,游憩与进食之时,乃至花环、床榻、座位上,你都应时常自我防护。
15.6.19
स्त्रियश्च ते सुगुप्ताः स्युर्वृद्धैराप्तैरधिष्ठिताः ।
शीलवद्भिः कुलीनैश्च विद्वद्भिश्च युधिष्ठिर ॥ १५.६.१९ ॥
般度之子啊,愿你的妇女也受到妥善保护,由长者、可信之人、品行端正者、高贵出身者和学者监护。
15.6.20
मन्त्रिणिश्चैव कुर्वीथा द्विजान्विद्याविशारदान् ।
विनीतांश्च कुलीनांश्च धर्मार्थकुशलानृजून् ॥ १५.६.२० ॥
你应任命精通学问的婆罗门为大臣,他们谦逊、出身高贵,善于法与利,且正直。
15.6.21
तैः सार्धं मन्त्रयेथास्त्वं नात्यर्थं बहुभिःक सह ।
समस्तैरपि च व्यस्तैर्व्यपदेशेन केनचित् ॥ १५.६.२१ ॥
你应与他们商议,但不要与太多人同时过度商议;无论是与全体一起,还是分别与他们,都应借某种理由进行。
15.6.22
सुसंवृतं मन्त्रगृहं स्थलं चारुह्य मन्त्रयेः ।
अरण्ये निःशलाके वा न च रात्रौ कथञ्चन ॥ १५.६.२२ ॥
你应在守卫严密的议事堂中商议,或登上高处,或在无人能听见的森林中;但无论如何不可在夜间商议。
15.6.23
वानराः पक्षिणश्चैव ये मनुष्यानुकारिणः ।
सर्वे मन्त्रगृहे वर्ज्या ये चापि जडपङ्गवः ॥ १५.६.२३ ॥
模仿人类的猴子和鸟类,以及一切愚钝笨拙之人,都应被排除在议事堂之外。
15.6.24
मन्त्रभेदे हि ये दोषा भन्ति पृथिवीक्षिताम् ।
न ते शक्याः समाधातुं कथञ्चिदिति मे मतिः ॥ १५.६.२४ ॥
因泄露机密而使君王产生的过失,无论如何都无法弥补——这是我的看法。
15.6.25
दोषांश्च मन्त्रभेदस्य ब्रूयास्त्वं मन्त्रिमण्डले ।
अभेदे च गुणा राजन्पुनःपुनररिंदम ॥ १५.६.२५ ॥
君王啊,你应当在大臣议会中一再宣说泄露秘密谋议所带来的过失,以及保守秘密的种种益处,降敌者啊。
15.6.26
पौरजानपदानां च शौचशौचे युधिष्ठिर ।
यथा स्याद्विदितं राजंस्तथा कार्यं कुरूद्वह ॥ १५.६.२६ ॥
坚战啊,你应当充分了解城镇居民和乡村百姓的行为是清净还是污浊,并据此行事,俱卢族中最优秀的君王啊。
15.6.27
व्यवहारश्च ते राजन्नित्यमाप्तैरधिष्ठितः ।
योज्यस्तुष्टैर्हितै राजन्नित्यं चारैरनुष्ठितः ॥ १५.६.२७ ॥
君王啊,你的政务应始终由可靠之人监督;应任用满意而忠诚的人;君王啊,还应始终借助间谍来加以督察。
15.6.28
परिमाणं विदित्वा च दण्डं दण्ड्येषु भारत ।
प्रणयेयुर्यथान्यायं पुरुषास्ते युधिष्ठिर ॥ १५.६.२८ ॥
婆罗多的后裔啊,坚战,你的官员应当知晓刑罚的尺度,依法公正地对应受惩罚者施以刑罚。
15.6.29
आदानरुचयश्चैव परदाराभिमर्शिनः ।
उग्रदण्डिप्रधानाश्च मिथ्याव्याहारिणस्तथा ॥ १५.६.२९ ॥
贪取他人之物的人、接触他人妻子的人、以严酷刑罚为首务的人,以及说谎的人,同样(应受惩罚)。
15.6.30
आक्रोष्टारश्च लुब्धाश्च हर्तारः साहसप्रियाः ।
सभाविहारभेत्तारो वर्णानां च प्रदूषकाः।
हिरण्यदण्ड्या वध्याश्च कर्तव्या देशकालतः ॥ १५.६.३० ॥
辱骂者、贪婪者、盗贼抢夺者、好行暴力者、扰乱议会安宁者、以及败坏种姓者——应依地点与时节,以金罚惩治他们,其中有人还应处死。
15.6.31
अवरोधभूमौ भृत्यैश्च पानं सह विवर्जयेत् ।
आक्रोशन्त्यनुमत्तास्ते कलत्रं वाऽपि गृह्णते ॥ १५.६.३१ ॥
在内宫之中,应避免与仆役一同饮酒。他们醉后辱骂,甚至抓住王后。
15.6.32
जिघांसन्त्यपि शस्त्रेण नष्टाः क्रीडन्ति चोत्कटाः ।
नानाक्षेपा व्याहरन्ति गम्यागम्यं न जानते ॥ १५.६.३२ ॥
他们失去理智、放纵无度,甚至想以兵器杀人,又嬉戏取乐。他们说出种种指责,不知可亲近与不可亲近之人。
15.6.33
अतिपानेनि राजाऽपि सर्वं कोशं विनाशयेत् ।
वितरेद्गायकेभ्यश्च वृथा च द्रव्यसञ्चयम् ॥ १५.६.३३ ॥
因过度饮酒,即使国王也会毁掉全部府库,并把积聚的财富徒然分给歌者。
15.6.34
शब्दमात्मनि दोषांश्च पिबेदेकश्च जायया ।
युक्त्या प्रकाशमयति सुवीर्यस्यि विवृद्धये ॥ १५.६.३४ ॥
自省自身的过失与事务,应只与妻子私下饮酒;以道理使之显明,以增益那位勇武之人。
15.6.35
प्रातरेव हि पश्यथा ये कुर्युः प्रियकर्म ते ।
अलङ्कारमथो भोज्यमत ऊर्ध्वं समाचरेः ॥ १५.६.३५ ॥
清晨便应接见那些行善举者;随后应赐予他们饰物与食物。
15.6.36
पश्येथाश्चि ततो योधान्सदा त्वं प्रतिहर्षयन् ।
दूतानां च चराणां च प्रदोषस्ते सदा भवेत् ॥ १५.६.३६ ॥
此后你应当时常接见战士,使他们欢喜;使者与间谍的傍晚报告,也应当经常送到你这里。
15.6.37
सदा चापररात्रान्ते भवेत्कार्यार्थनिर्णयः ।
मध्यरात्रे विहारस्ते मध्याह्ने च सदा भवेत् ॥ १५.६.३७ ॥
始终在深夜将尽之时,应决定事务及其目的。午夜应有你的娱乐,午间也应始终如此。
15.6.38
सर्वे त्वौपयिकाः कालाः कार्याणां भरतर्षभ ।
तथैवालङ्कृतः काले तिष्ठिथा भूरिदक्षिणः ॥ १५.६.३८ ॥
婆罗多族的雄牛啊,一切适合事务的时间都是恰当的。同样,在适当的时候盛装,你应当立于此处,广施布施。
15.6.39
न विद्राव्य च तिष्ठेत परिहार्य विभूषणम् ।
प्रयोज्यं सर्वदैवेह मङ्गल्यं पापनाशनम् ॥ १५.६.३९ ॥
不应弃之而立,也不应佩戴当避之的饰物。此处应常用吉祥且能消除罪恶的饰物。
15.6.40
चक्रवत्तात कार्याणां पर्यायो दृश्यते सदा ।
कोशस्य निचये यत्नं कुर्वीथा न्यायतः सदा।
विविधस्य महाराज विपरीतं विवर्जयेः ॥ १५.६.४० ॥
亲爱的孩子,事务的轮转始终如车轮一般可见。积聚府库时应始终依正义而努力。伟大的君王,对于种种事务,应避免相反之道。
15.6.41
चारैर्विदित्वा शत्रूंश्च ये राज्ञामन्तरैषिणः ।
तानाप्तैः पुरुषैर्दूराद्धातयेथा नराधिप ॥ १५.६.४१ ॥
借由密探得知那些伺机侵害国王的敌人,人主啊,应派可信之人从远处将他们诛杀。
15.6.42
कर्म दृष्ट्वाऽथ भृत्यांस्त्वं वरयेथाः कुरूद्वह ।
कारयेथाश्च कर्माणि युक्तायुक्तैरधिष्ठितैः ॥ १५.६.४२ ॥
库鲁族中的最优者,观察其行为之后,你应选择你的臣仆,并让那些被安置于其上的人来执行事务,无论合格与否。
15.6.43
सेनाप्राणेता च भवेत्तव तात दृढव्रतः ।
शूरः क्लेशसहश्चैव हितो भक्तश्च पूरुषः ॥ १५.६.४३ ॥
你的军队统帅应是坚守誓愿、勇敢、能忍受艰辛、友善而忠诚的人,亲爱的孩子。
15.6.44
सर्वे जनपदाश्चैव तव कर्माणि पाण्डव ।
गोवद्रासभवच्चैव कुर्युर्ये व्यवहारिणः ॥ १५.६.४४ ॥
般度之子啊,你王国的所有百姓,以及担任官职的人,都应像牛和驴一样为你执行职责。
15.6.45
स्वरन्ध्रं पररन्ध्रं च स्वेषु चैव परेषु च ।
उपलक्षयितव्यं ते नित्यमेव युधिष्ठिर ॥ १५.६.४५ ॥
坚战啊,你应当时常留意自己和敌人的弱点,无论在自己人中还是在敌人中。
15.6.46
देशजाश्चैव पुरुषा विक्रान्ताः स्वेषु कर्मसु ।
यात्राभिरनुरूपाभिरनुग्राह्या हितास्त्वया ॥ १५.६.४६ ॥
当地出生的勇敢之士,你应在其职务上以适当的差遣与赏赐加以厚待,因为他们是你的友好之人。
15.6.47
गुणार्थिनां गुणः कार्यो विदुषा वै जनाधिप ।
अविचार्याश्च ते ते स्युरचला इव नित्यशः ॥ १५.६.४७ ॥
人主啊,智者应当赏赐追求功绩的人;也不可不加考察,而要让他们始终如山岳般坚定不移。