Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 15.7

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

15.7.1

मण्डलानि च बुध्येथाः परेषामात्मनस्तथा ।
उदासीनगुणानां च मध्यस्थानां च भारत ॥ १५.७.१ ॥

婆罗多之子啊,你应当了解他人的、自己的曼陀罗,以及中立者与调停者的曼陀罗。

15.7.2

चतुर्णां शत्रुजातानां सर्वेषामाततायिनाम् ।
मित्रं चामित्रमित्रं च बोद्धव्यं तेऽरिकर्शन ॥ १५.७.२ ॥

降伏敌人者啊,在四类敌人和一切侵犯者之中,你应当辨别朋友、敌人的朋友以及朋友的朋友。

15.7.3

अथ नानाजनपदा दुर्गाणि विविधानि च ।
बलानि च कुरुश्रेष्ठ भवत्येषां यथेच्छकम् ॥ १५.७.३ ॥

库鲁之最,他们拥有众多邦国、各种堡垒与军队,一切皆随其意。

15.7.4

ते च द्वादश कौन्तेय राजानो विविधात्मकाः ।
मन्त्रिप्रधानाश्च गुणाः षष्टिर्द्वादश च प्रभो ॥ १५.७.४ ॥

贡蒂之子啊,那十二位君王性情各异,以大臣为首;主啊,德性有六十与十二。

15.7.5

एतन्मण्डलमित्याहुराचार्या नीतिकोविदाः ।
अत्र षाड्गुण्यमाचत्तं युधिष्ठिर निबोध तत् ॥ १५.७.५ ॥

精通治国之道的师长称此为曼陀罗。此处阐述六策,俱利王啊,你应当理解它。

15.7.6

वृद्धिक्षयौ च विज्ञेयौ स्थानं च कुरुसत्तम ।
द्विसप्तत्यां महाबाहो ततः षाड्गुण्यजा गुणाः ॥ १५.७.६ ॥

库鲁之最啊,增长与衰落,以及所处之位,都应当了解。大臂者啊,在七十二之中,有由六策所生的德性。

15.7.7

यथा स्वपक्षो बलवान्परपक्षस्तथा बलः ।
विगृह्य शत्रून्कौन्तेय यायात्क्षितिपतिस्तदा ॥ १५.७.७ ॥

当己方强大时,敌方也同样强大。俺孔提之子啊,那时国王应当与敌人对抗并进军。

15.7.8

यदा परे च बलिनः स्वपक्षश्चैव दुर्बलः ।
सार्धं विद्वांस्तदा क्षीणः परैः सन्धिं मसाश्रयेत् ॥ १५.७.८ ॥

当敌人强大而己方衰弱时,明智的国王应在衰弱之中与敌人寻求和议。

15.7.9

द्रव्याणां सञ्चयश्चैव कर्तव्यः सुमहांस्तथा ।
यदा समर्था यानाय नचिरेणैव भारत ॥ १५.७.९ ॥

还应大量积累财富,以便婆罗多之子啊,不久便能够出征。

15.7.10

तदा सर्वं विधेयं स्यात्स्थानेन च विचारयेत् ।
भूमिरल्पफला देया विपरीतस्य भारत ॥ १५.७.१० ॥

此时应当全力行事,并审度形势。婆罗多之子啊,对于对立者应给予产出微薄的土地。

15.7.11

हिरण्यरूप्यभूयिष्ठं मित्रं क्षीणमकोशभृत् ।
विपरीतं निगृह्णीयात्स्वयं सन्धिविशारदः ॥ १५.७.११ ॥

对于富有金银却衰弱且无府库的盟友,精通和议的国王应亲自加以约束,如同对待敌对者一般。

15.7.12

सन्ध्यर्थं राजपुत्रं वा लिप्सेथा भरतर्षभ ।
विपरीतं न तच्छ्रेयः पुत्र कस्यांचिदापदि ॥ १५.७.१२ ॥

婆罗多族中的雄牛啊,为了和议,甚至应当求取王子。孩子啊,在任何灾难中做相反之事都不是好的。

15.7.13

तस्याः प्रमोक्षे यत्नं च कुर्याः सोपायमन्त्रवित् ।
प्रकृतीनां च राजेन्द्र राजा दीनान्विभावयेत् ॥ १५.७.१३ ॥

王中之王啊,你精通方略与谋议,应当努力从那灾难中解脱;国王也应照顾臣民中的困苦者。

15.7.14

क्रमेणि युगपद्बुध्वा व्यसनानां बलाबलम् ।
पीडनं स्तंभनं चैव कोशभङ्गस्तथैव च ॥ १५.७.१४ ॥

依次或同时了解灾难的强弱,应当施加压制、加以遏止,并同样地毁坏府库。

15.7.15

कार्यं यत्नेन शत्रूणां स्वराज्यं रक्षता स्वयम् ।
न च हिंस्योऽभ्युपगतः सामन्तो वृद्धिमिच्छता ॥ १५.७.१५ ॥

在保卫自己王国的同时,应当努力对付敌人;想要兴盛的人不应伤害前来归附的属国诸侯。

15.7.16

कौन्तेय तद्धितं ते स्यात्पृथिवीं विजिगीषतः ।
गुणानां भेदने योगमीप्सेथाः सह मन्त्रिभिः ॥ १५.७.१६ ॥

坤蒂之子啊,你想征服大地,与大臣们一同寻求瓦解敌人优势的方略,对你最为有利。

15.7.17

साधुसङ्ग्रहणाच्चैव पापनिग्रहणात्तथा ।
आत्मसात्करणे नित्यं पालनानि गृहे तथा।
दुर्बलाश्चैव सततं नान्वेष्टव्या बलीयसा ॥ १५.७.१७ ॥

聚集善人、制伏恶人、使万物归于己,并常在家中加以守护,王国便得以长存;强者不应不断地搜寻弱者。

15.7.18

तिष्ठेथा राजशार्दूल वैतसीं वृत्तिमास्थितः ।
यद्येनमभियायाच्च बलवान्दुर्बल नृपः। ॥ १५.७.१८ ॥

王中之虎啊,采取如芦苇般随风弯曲的态度,坚定地立足;若强大的国王攻击他,那弱者……

15.7.19

सामादिभिरुपायैस्तं क्रमेणि विनिवर्तयेः ।
अशक्नुवंश्च युद्धाय निष्पतेत्सह मन्त्रिभिः ॥ १५.७.१९ ॥

以怀柔等手段逐步使他退却。若不能作战,便与大臣们一同出走。

15.7.20

कोशेन पौरैर्दण्डेन ये चास्य प्रियकारिणः ।
असम्भवे तु सर्वस्य यथा मुख्येन निष्पतेत्।
क्रमेणानेन मोक्षः स्याच्छरीरं प्रति केवलम् ॥ १५.७.२० ॥

以财富、城民和军队使那些亲近他的人离开他。若做不到,便与首领一同出走。依此次第,只能保全身体。