Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 15.9

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

15.9.1

एवमेतत्करिष्यामि यथाऽऽत्थ पृथिवीपते ।
भूयश्चैवानुशास्योऽहं भवता पार्थिवर्षभ ॥ १५.९.१ ॥

大地之主啊,我会照你所说的去做。王中之牛啊,请你再教导我。

15.9.2

भीष्मे स्वर्गमनुप्राप्तो गते च मधुसूदने ।
विदुरे संजये चैव कोऽन्यो मां वक्तुमर्हति ॥ १५.९.२ ॥

毗湿摩已升天,摩图苏陀那也已离去,毗都罗与三遮耶也已离去;如今还有谁配来教导我呢?

15.9.3

यत्तु मामनुशास्तीह भवानद्य हिते स्थितः ।
कर्तास्मि तन्महीपाल निर्वृतो भव पार्थिव ॥ १५.९.३ ॥

你今日立于善利之中,所教导我做的事,大地之护主啊,我必定去做。王啊,请安心喜乐吧。

15.9.4

एवमुक्तः स राजर्षिर्धर्मराजेन धीमता ।
कौन्तेयं समनुज्ञातुमियेष भरतर्षभ ॥ १५.९.४ ॥

智慧的法王如此说罢,那位王仙便想允许俱卢族之子(贡蒂之子)离去,婆罗多族之牛啊。

15.9.5

पुत्र विश्राम्यतां तावन्ममापि बलवाञ्श्रमः ।
इत्युक्त्वा प्राविशद्राजा गान्धार्या भवनं तदा ॥ १५.९.५ ॥

“孩子,你现在歇息吧;我也很疲倦了。”说罢,国王便走进了甘陀利的宫室。

15.9.6

तमासनगतं देवी गान्धारी धर्मचारिणी ।
उवाच काले कालज्ञा प्रजापतिसमं पतिम् ॥ १५.९.६ ॥

甘陀利女神,行持法道、知晓时机,在恰当的时候对坐于座上的、与生主相等的夫君说道。

15.9.7

अनुज्ञातः स्वयं तेन व्यासेनि त्वं महर्षिणा ।
युधिष्ठिरस्यानुमते कदाऽरण्यं गमिष्यसि ॥ १५.९.७ ॥

大仙人毗耶娑亲自准许了你。经坚战同意,你何时将前往森林?

15.9.8

गान्धार्यहमनुज्ञातः स्वयं पित्रा महात्मना ।
युधिष्ठिरस्यानुमते गन्तास्मि नचिराद्वनम् ॥ १५.९.८ ॥

甘陀利说:伟大的父亲亲自准许了我。经坚战同意,我不久将前往森林。

15.9.9

अहं हि तावत्सर्वेषां तेषां दुर्द्यूतदेविनाम् ।
पुत्राणां दातुमिच्छामि प्रेत्यभावानुगं वसु।
सर्वप्रकृतितिसान्निध्यं कारयित्वा स्ववेश्मनि ॥ १५.९.९ ॥

持国说:我想先为那些沉迷于不幸骰戏的诸子,布施能随他们至来世的财物。我将在自己的宫中、在全体臣民面前举行此事。

15.9.10

इत्युक्त्वा धर्मराजाय प्रेषयामास वै तदा ।
स च तद्वचनात्सर्वं समानिन्ये महीपतिः ॥ १५.९.१० ॥

持国说罢,便派遣使者前往法王坚战处。那位国王依照他的话,将一切都集齐了。

15.9.11

ततः प्रतीतमनसो ब्राह्मणाः कुरुजाङ्गलाः ।
क्षत्रियाश्चैव वैश्याश्च शूद्राश्चैव समाययुः ॥ १५.९.११ ॥

于是心怀欢喜的婆罗门、俱卢和阇部罗地方的人民、刹帝利、吠舍,以及首陀罗也都聚集而来。

15.9.12

ततो निष्क्रम्य नृपतिस्तस्मादन्तःकपुरात्तदा ।
दद्दशे तं जनं सर्वं सर्वाश्च प्रकृतीस्तथा ॥ १५.९.१२ ॥

于是国王从内宫走出,看见了那全体人众和所有臣民。

15.9.13

समवेतांश्च तान्सर्वान्पौराञ्जानपदांस्तथा ।
तानागतानभिप्रेक्ष्य समस्तं च सुहृञ्जनम् ॥ १५.९.१३ ॥

见所有聚集而来的城民与乡民,以及前来的全体亲友,

15.9.14

ब्राह्मणांश्च महीपाल नानादेशसमागतान् ।
उवाच मतिमान्राजा धृतराष्ट्रोऽम्बिकासुतः ॥ १५.९.१४ ॥

啊,大地的守护者!智慧的国王、阿姆比迦之子持国,对从各地前来的婆罗门说道:

15.9.15

भवन्तः कुरुवश्चैव चिरकालं सहोषिताः ।
परस्परस्य सुहृदः परस्परहिते रताः ॥ १५.९.१५ ॥

诸位与俱卢族人共同生活已久,彼此为友,互相致力于对方的福祉。

15.9.16

यदिदानीमहं ब्रूयामस्मिन्काल उपस्थिते ।
तथा भवद्भिः कर्तव्यमविचार्य वचो मम ॥ १५.९.१६ ॥

如今时机已到,我此刻所言,你们应不加思索地依我的话去做。

15.9.17

अरण्यगमने बुद्धिर्गान्धारीसहितस्य मे ।
व्यासस्यानुमते राज्ञस्तथा कुन्तीसुतस्य मे ॥ १५.९.१७ ॥

我与甘陀利决意前往森林,得到毗耶娑的同意,也得到了贡蒂之子的同意。

15.9.18

भवन्तोप्यनुजानन्तु मान्या वोऽभूद्विचारणा ॥ १५.९.१८ ॥

愿你们也允许;这番考虑正是出于你们尊贵的意见。

15.9.19

अस्माकं भवतां चैव येयं प्रीतिर्हि शाश्वती ।
न च साऽन्येषु देशेषु राज्ञामिति मतिर्मम ॥ १५.९.१९ ॥

我们与你们之间的这份情谊是永恒的,而这样的君王之情在其他国度并不存在,这是我的看法。

15.9.20

शान्तोस्मि वयसाऽनेन तथा पुत्रविनाकृतः ।
उपवासकृशश्चास्मि गान्धारीसहितोऽनघाः ॥ १५.९.२० ॥

诸位无罪之人啊,我因这衰老而平静,失去了儿子,因绝食而消瘦,与甘陀利同在。

15.9.21

युधिष्ठिरगते राज्ये प्राप्तश्चास्मि सुखं महत् ।
मन्ये दुर्योधनैश्वर्याद्विशिष्टं बहुभिर्गुणैः ॥ १५.९.२१ ॥

自从国土归于坚战,我得到了极大的幸福;我认为这在许多方面都胜过难敌的权势。

15.9.22

मम चान्धस्य वृद्धस्य हतपुत्रस्य का गतिः ।
ऋते वनं महाभागास्तन्माऽनुज्ञातुमर्हथ ॥ १५.९.२२ ॥

我是盲人、老人,又失去了儿子,除了森林还有什么去处呢?因此,诸位大福之人啊,请允许我离去。

15.9.23

तस्य तद्वचनं श्रुत्वा सर्वे ते कुरुजाङ्गलाः ।
बाप्पसंदिग्धया वाचा रुरुदुर्भरतर्षभ ॥ १५.९.२३ ॥

众人听了他的话,都是泪水哽咽、声音哽住地哭了起来,婆罗多中的雄牛啊。

15.9.24

तानविब्रुवतः किञ्चित्सर्वाञ्शोकपरायणान् ।
पुनरेव महातेजा धृतराष्ट्रोऽब्रवीदिदम् ॥ १५.९.२४ ॥

对于那些沉浸在悲痛中一言不发的人们,大光辉的持国再次说了这些话。