Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 16.1

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

16.1.1

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्
षट्त्रिंशे त्वथ् संप्राप्ते वर्षे कौरवन्दनः ।
ददर्श विपरीतानि निमित्तानि युधिष्टिरः ॥ १६.१.१ ॥

向那罗延和人中最上的那罗、女神娑罗室伐底和毗耶娑致敬之后,应当诵念《胜利》。当第三十六年来临时,俱卢族的喜悦者坚战看到了不祥的征兆。

16.1.2

ववुर्वाताश्च निर्घाता रूक्षाः शर्करवर्षिणः ।
अपसव्यानि शकुना मण्डलानि प्रचक्रिरे ॥ १६.१.२ ॥

狂风呼啸,霹雳炸响,降下碎石之雨;不吉的鸟开始盘旋成圈。

16.1.3

प्रत्यगूहुर्महानद्यो दिशो नीहारसंवृताः ।
उल्काश्चाङ्गारवर्षिण्यः प्रापतन्गगनाद्भुवि ॥ १६.१.३ ॥

大河倒流,四方被雾气笼罩;降下火星之雨的流星从天空坠落到大地上。

16.1.4

आदित्यो रजसा राजन्समवच्छन्नगनाद्भुवि ।
विरश्मिरुदये नित्यं कबन्धैः समलङ्कृतः ॥ १६.१.४ ॥

国王啊,太阳被尘土完全遮蔽,仿佛从天空坠落到大地;日出时它没有光芒,并以无头的躯干为装饰。

16.1.5

परिवेषाश्च दृश्यन्ते दारुणाश्च द्रसूर्ययोः ।
त्रिवर्णाः श्यामरुक्षान्तास्तथा भस्मारुणप्रभाः ॥ १६.१.५ ॥

日月周围出现了可怕的光环;它们有三种颜色,边缘发黑而粗糙,并带有灰烬与赤红的光泽。

16.1.6

एते चान्ये च बहव उत्पाता भयसंसिनः ।
दृश्यन्ते जगतो नाथ दिवमारोढुमिच्छति ॥ १६.१.६ ॥

世界之主啊,这些以及许多其他令人恐惧的凶兆都显现出来了;世界似乎想要升上天界。

16.1.7

यस्य प्रसादाद्धर्मोऽयं कृते यद्वत्कलावपि ।
पाण्डवाश्च महाभाग युक्तास्तु यशसाऽनघ ॥ १६.१.७ ॥

凭借其恩典,此法在迦利时代亦如克里达时代般存续,般度五子亦与荣耀相连,哦,大福者,哦,无垢者。

16.1.8

कस्य चित्त्वथ कालस्य कुरुराजो विशङ्कितः ।
शुश्राव वृष्णिचक्रस्य मुसलोत्सादनं कृतम् ॥ १६.१.८ ॥

过了一段时间,俱卢王忧惧地听说,婆湿尼族已被木杵所毁灭。

16.1.9

विमुक्तं वासुदेवं च श्रुत्वा रामं च पाण्डवः ।
समानीयाब्रवीद्भ्रातृन्कि करिष्याम इत्युत ॥ १६.१.९ ॥

般度之子闻知婆苏提婆与罗摩已解脱,召集兄弟们说:“我们现在该怎么办?”

16.1.10

परस्परं समासाद्य ब्रह्मदण्डबलात्कृतान् ।
वृष्णिन्विनष्टास्ते श्रुत्वा व्यथिताः पाण्डवा भृशम् ॥ १६.१.१० ॥

婆湿尼族彼此相斗,因婆罗门咒诅之力而灭亡;般度五子闻之,极为悲痛。

16.1.11

निधनं वासुदेवस्य समुद्रस्येव शोषणम् ।
वीरा न श्रद्दधुस्तस्य विनाशं शार्ङ्गधन्वनः ॥ १६.१.११ ॥

婆苏提婆之死,犹如大海枯竭;众英雄不信执沙尔格弓者会遭毁灭。

16.1.12

मौसलं ते समाश्रित्य दुःखशोकसमन्विताः ।
विष्ण्णा हतसंकल्पाःकि पाण्डवाः समुपाविशन् ॥ १६.१.१२ ॥

婆湿尼族借木杵而灭;般度五子充满悲忧,心灰意冷,宏愿受挫,为何却坐了下来?