Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 16.2

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

16.2.1

कथं विनष्टा भगवन्नन्धका वृष्णिभिः सह ।
पश्यतो वासुदेवस्य भोजश्चैवक महारथाः ॥ १६.२.१ ॥

尊者啊,当婆苏提婆(克里希那)观看之时,安陀迦与苏尼族人、以及大车战士般的婆荼族人,是如何灭亡的?

16.2.2

षट्त्रिंशेऽथ ततो वर्षे वृष्णीनामनयो महान् ।
अन्योन्यं मुसलैस्ते तु निजघ्नुः कालचोदिताः ॥ १६.२.२ ॥

第三十六年,维瑞尼族遭遇大灾难;受时间驱使,他们用铁杵互相击杀。

16.2.3

केनानुशप्तास्ते वीराः क्षयं वृष्ण्यन्धका गताः ।
भोजाश्च द्विजवर्य त्वं विस्तरेण वदस्व मे ॥ १६.२.३ ॥

那些英勇的维瑞尼、安陀迦和婆荼族,是被谁的诅咒所毁灭的?再生者中最殊胜者啊,请详细告诉我。

16.2.4

विश्वामित्रं च कण्वं च नारदं च तपोधनम् ।
सारणप्रमुखा वीरा ददृशुर्द्वारकां गतान् ॥ १६.२.४ ॥

以萨罗那为首的英雄们看见了来到德瓦拉卡的毗湿伐弥多罗、羯婆和苦行丰富的那罗陀。

16.2.5

ते वै सांबं पुरस्कृत्य भूषयित्वा स्त्रियं यथा ।
अब्रुवन्नुपसङ्गम्य् दैवदण्डिनिपीडिताः ॥ १६.२.५ ॥

他们被天命之杖所折磨,把桑巴推到前面,将他装扮成女子,走近他们说道:

16.2.6

इयं स्त्री पुत्रकामस्य बभ्रोरमिततेजसः ।
ऋषयः साधु जानीत किमियं जनयिष्यति ॥ १६.२.६ ॥

这位女子属于无量光辉的巴卜鲁,他渴望有子。诸位仙人啊,请仔细看看,她将会生下什么?

16.2.7

इत्युक्तास्ते तदा राजन्विप्रलम्भप्रधर्षिताः ।
प्रत्यबुवंस्तान्मुनयो यत्तच्छृणु नराधिप ॥ १६.२.७ ॥

国王啊,当时那些被欺骗所伤的仙人这样回答了他们。人主啊,请听他们所说的话。

16.2.8

वृष्ण्यन्धकविनाशाय मुसलं घोरमायसम् ।
वासुदेवस्य दायादः सांबोऽयं जनयिष्यति ॥ १६.२.८ ॥

为了毁灭毗瑟尼与安陀迦,这位婆藤提婆之子桑婆将生下一根可怕的铁杵。

16.2.9

येन यूयं सुदुर्वृत्ता नृशंसा जातमन्यवः ।
उच्छेत्तारः कुलं कृत्स्नमृते रामजनार्दनौ ॥ १६.२.९ ॥

因此你们这些极其邪恶、残忍、充满愤怒的人,将会毁灭整个家族,唯有罗摩和遮那陀那除外。

16.2.10

समुद्रं यास्यति श्रीमांस्त्यक्त्वा देहं हलायुधः ।
जरःकृष्णं महात्मानं शयानं भुवि भेत्स्यति ॥ १६.२.१० ॥

光荣的哈拉尤陀(大力罗)舍弃身体后将前往大海,猎人遮罗将射中躺在地上的大德克里希那。

16.2.11

इत्यब्रुवंस्ततो राजन्प्रलब्धास्तैर्दुरात्मभिः ।
मुनयः क्रोधरक्ताक्षाः समीक्ष्याथ परस्परम्।
तथोक्त्वा मुनयस्ते तु यथागतमथो ययुः ॥ १६.२.११ ॥

国王啊,那些被恶人欺骗的仙人怒目通红,彼此相视;说完这番话后,那些仙人便原路返回了。

16.2.12

अथाब्रवीत्तदा वृष्णीञ्श्रुत्वैतन्मधुसूदनः ।
अन्तज्ञो मतिमांस्तस्य भवितव्यं तथेति तान् ॥ १६.२.१२ ॥

此时,知晓终局的聪慧的摩图苏陀那(克里希那)听闻此事,对毗瑟尼们说:'此事必定会发生,就让它如此吧。'

16.2.13

एवमुक्त्वा हृषीकेशः प्रविवेश पुरं तदा ।
कृतान्तमन्यथा नैच्छत्कर्तुं स जगतः प्रभुः ॥ १६.२.१३ ॥

如此说罢,希利史凯沙便进入了城市。这位世界之主不愿改变命运。

16.2.14

श्वोभूतेऽथ ततः सांबो मुसलं तदसूकत वै ।
येन वृष्णन्धककुले पुरुषा भस्मसात्कृताः ॥ १६.२.१४ ॥

次日,桑巴生出了那根铁杵,由此,维里希尼与安陀迦族的男子皆化为灰烬。

16.2.15

वृष्ण्यन्धकविनाशाय किंकरप्रतिमं महत् ।
असूत सापजं घोरं तच्च राज्ञे न्यवेदयन् ॥ १६.२.१५ ॥

为了毁灭维里希尼与安陀迦族,他生出了一件如同死神之仆的巨大可怖之物,由诅咒而生;他们将此事禀告了国王。

16.2.16

विषण्णरूपस्तद्राजा सूक्ष्मं चूर्णमकारयत् ।
तच्चूर्णं सागरे चापि प्राक्षिपन्पुरुषा नृप ॥ १६.२.१६ ॥

那位容颜愁惨的国王命人将它研成细末;而那细末,哦国王,人们也将它投入了大海。

16.2.17

अघोषयंश्च नगरे वचनादाहुकस्य ते ।
जनार्दनस्य रामस्य बभ्रोश्चैव महात्मनः ॥ १६.२.१७ ॥

他们依照阿呼迦、阇那尔达那、罗摩以及大德的巴卜茹之命,在城中宣布。

16.2.18

अद्यप्रभृति सर्वेषु वृष्ण्यन्धककुलेष्विह ।
सुरासवो न कर्तव्यः सर्वैर्नगरवासिभिः ॥ १६.२.१८ ॥

从今日起,在维里希尼与安陀迦诸族之中,所有城中居民都不得酿造苏罗与阿娑婆。

16.2.19

यश्च नो विदितं कुर्यात्पेयं कश्चिन्नरः क्वचित् ।
जीवन्स शूलमारोहेत्स्वयं कृत्वा सबान्धवः ॥ १६.२.१९ ॥

若有人为我们所知,在何处饮用烈酒,他便将与亲属一同,活着自行登上刑柱。

16.2.20

ततो राजभयात्सर्वे नियमं चक्रिरे तदा ।
नराः सासनमाज्ञाय तस्य राज्ञो महात्मनः ॥ १६.२.२० ॥

于是,众人因畏惧国王,都遵守了规定;那些人明白了这位大德之王的命令及其刑罚,便照此行事。