Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 16.3

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

16.3.1

एवं प्रयतमानानां वृष्णीनामन्धकैः सह ।
कालो गृहाणि सर्वेषां परिचक्राम नित्यशः ॥ १६.३.१ ॥

当韦尔什尼与安陀迦竭力而为时,时间不断地绕行于众人的房屋之间。

16.3.2

करालो विकटो मुण्डः पुरुषः कृष्णपिङ्गलः ।
गृहाण्यावेक्ष्य वृष्णीनां नादृश्यतं पुनः क्वचित् ॥ १६.३.२ ॥

一个可怖、丑陋、光头、黑黄色的人,看过韦尔什尼家的房屋后,便再也不见踪影。

16.3.3

तमघ्नन्त महेष्वासाः शरैः शतसहस्रशः ।
न चाशक्यत वेद्धुं स सर्वभूतात्ययस्तदा ॥ १६.३.३ ॥

众大弓手以数十万支箭射他,但那时他们无法射穿这毁灭一切众生的存在。

16.3.4

उत्पेदिरे महावाता दारुणाश्च दिनेदिने ।
वृष्ण्यन्धकविनाशाय बहवो रोमहर्षणाः ॥ १६.३.४ ॥

日复一日,为毁灭韦尔什尼与安陀迦,大风骤起,既猛烈又众多,令人毛骨悚然。

16.3.5

विवृद्धमूषिका रथ्या विभिन्नमणिकास्तथा ।
केशा नखाश्च सुप्तानामद्यन्ते मूषिकैर्निशि ॥ १६.३.५ ॥

街巷中老鼠繁多,宝石破碎;夜里,老鼠啃啮睡眠者的头发与指甲。

16.3.6

चीचीकूचीति वाशन्ति शारिका वृष्णिवेश्मसु ।
नोपशाम्यति शब्दस्य सदिवारात्रमेव हि ॥ १६.३.६ ॥

在韦尔什尼的家中,鹦鹉般的沙里迦鸟叫着"吱吱-库奇";这声音从不止息,日夜始终如此。

16.3.7

अन्वकुर्वन्नुलूकानां सारसा विरुतं तथा ।
अजाः शिवानां विरुतमन्वकुर्वत भारत ॥ १६.३.७ ॥

鹤模仿猫头鹰的叫声,山羊也模仿豺狼的嚎叫,婆罗多之子啊。

16.3.8

पाण्डुरा रक्तपादाश्च विहगाः कालचोदिताः ।
वृष्ण्यन्धकानां गेहेषु कपोता व्यचरंस्तदा ॥ १६.३.८ ॥

被时运驱使的白色红脚之鸟,以及鸽子,那时在诸毗湿尼与安陀迦的家中四处飞翔。

16.3.9

व्यजायन्त खरा गोषु करभाश्वतरीषु च ।
शुनीष्वपि बिडालाश्च मूषिका नकुलीषु च ॥ १६.३.९ ॥

母牛中生出驴;母骆驼与母骡中生出骆驼与骡;雌狗中生出猫,雌獴中生出老鼠。

16.3.10

नापत्रपन्त पापानि कुर्वन्तो वृष्णयस्तदा ।
प्रार्दयन्ब्राह्मणांश्चापि पितॄन्देवांस्तथैव च ॥ १६.३.१० ॥

诸毗湿尼族人行恶事而不知羞耻,他们折磨婆罗门、祖先,甚至诸神。

16.3.11

गुरूंश्चाप्यवमन्यन्ते न तु रामजनार्दनौ ।
पत्न्यः पतीनुच्चरन्ति पत्नीश्चक पतयस्तथा ॥ १६.३.११ ॥

他们甚至轻慢长辈与师长,却不敢轻慢罗摩与生主。妻子辱骂丈夫,丈夫也辱骂妻子。

16.3.12

विभावसुः प्रज्वलितो वामं विपरिवर्तते ।
नीललोहितमञ्जिष्ठा विसृजन्नर्चिषः पृथक् ॥ १६.३.१२ ॥

熊熊燃烧的火向左旋转,分别喷出深蓝、赤红和茜草色的火焰。

16.3.13

उदयास्तमये नित्यं पुर्यां तस्यां दिवाकरः ।
व्यदृश्यतासकृत्पुंभिः कबन्धैः परिवारितः ॥ १६.३.१३ ॥

在那座城中,日出与日落之时,太阳屡次被人与无头的躯干所环绕。

16.3.14

महानसेषु सिद्धेषु संस्कृतेऽतीवि भारत ।
आहार्यमाणे कृमयो व्यदृश्यन्त सहस्रशः ॥ १६.३.१४ ॥

婆罗多啊,当煮好的食物从厨房被端走时,成千上万的虫子出现了。

16.3.15

पुण्याहे वाच्यमाने तु जपत्सु च महात्मसु ।
अभिधावन्तः श्रूयन्ते न चादृश्यत कश्चन ॥ १६.३.१५ ॥

吉祥的祝祷正在诵读,大德者低声持咒之时,只听见有人奔跑的声音,却不见一人。

16.3.16

परस्परं च नक्षत्रं हन्यमानं पुनःपुनः ।
ग्रहैरपश्यन्सर्वे ते नात्मनस्तु कथञ्चन ॥ १६.३.१६ ॥

他们都看见星宿被行星一次次相互撞击,却无论如何也看不见自己。

16.3.17

नदन्तं पाञ्चिजन्यं च वृष्णन्धकनिवेशने ।
समन्तात्पर्यवाशन्त रासभा दारुणस्वराः ॥ १६.३.१७ ॥

在婆里瑟尼与安陀迦的居所中,般遮若耶贝螺吼叫之时,四周传来可怖声音的驴子嘶鸣。

16.3.18

एवं पश्यन्हृषिकेशः संप्राप्तं कालपर्ययम् ।
त्रयोदश्याममावास्यां तान्दृष्ट्वा प्राब्रवीदिदम् ॥ १६.३.१८ ॥

见时运已然转变,希利施柯西(黑利希克舍)于十三日、新月之夜看着他们,便说了这些话。

16.3.19

चतुर्दशी पञ्चदशी कृतेयं राहुणा पुनः ।
प्राप्ते वै भारते युद्धे प्राप्ता चाद्य क्षंयाय नः ॥ १६.३.१९ ॥

十四日与十五日再次因罗睺而造成;如同婆罗多大战来临之时,今日它已降临为我们的毁灭。

16.3.20

विमृशन्नेव कालं तं परिचिन्त्य जनार्दनः ।
मेने प्राप्तं स षट्त्रिंशं वर्षं वै केशिसूदनः ॥ १६.३.२० ॥

思量那个时刻,遮那陀那想到,尝试者罗摩之杀者(克里希纳)的第三十六年确已来临。

16.3.21

पुत्रशोकाभिसंतप्ता गान्धारी हतबान्धवा ।
यदनुव्याजहारार्ता तदिदं समुपागमत् ॥ १६.३.२१ ॥

甘陀丽因失子之痛、亲族被杀而悲苦,所说之言,如今已经应验。

16.3.22

इदं च तदनुप्राप्तमब्रवीद्यद्युधिष्ठिरः ।
पुरा व्यूढेष्वनीकेषु दृष्ट्वेत्पातान्सुदारुणान् ॥ १६.३.२२ ॥

与此相应而发生的事,是坚战先前所说的——他在列阵的军队中看到了极可怖的凶兆。

16.3.23

इत्युक्त्वा वासुदेवस्तु चिकीर्षुः सत्यमेव तत् ।
आज्ञापयामास तदा तीर्थयात्रामरिंदमः ॥ १६.३.२३ ॥

如此说罢,婆苏提婆(克里希纳)欲使此真实应验,遂命令朝圣——降伏敌人者。

16.3.24

अघोषयन्त पुरुषास्तत्र केशवशासनात् ।
तीर्थयात्रा समुद्रे वः कार्येति पुरुषर्षभाः ॥ १६.३.२४ ॥

众人依照遮那陀那(克里希纳)之命宣告:诸人中的雄牛们,你们应当到海边去朝圣。