摩诃婆罗多 · 章 16.4
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
16.4.1
काली स्त्री पाण्डुरैर्दन्तैः प्रविश्य हसती निशि ।
स्त्रियः स्वप्नेषु मुष्णन्ती द्वारकां परिधावति ॥ १६.४.१ ॥
一名黑色的女子露出苍白的牙齿,夜间笑着进入,在梦中掳掠妇女,在德瓦拉卡城中奔跑。
16.4.2
अग्निहोत्रनिकेतेषु वास्तुमध्येषु वेश्मसु ।
वृष्ण्यन्धकानखादन्त स्वप्ने गृध्रा भयानकाः ॥ १६.४.२ ॥
在火祭之所、院落中央、房屋之内,梦中可怖的秃鹫吞食了婆利须尼族与安陀迦族。
16.4.3
अलङ्काराश्च च्छत्रं च ध्वजाश्च कवचानि च ।
ह्रियमाणान्यदृश्यन्त रक्षोभिः सुभयानकैः ॥ १६.४.३ ॥
人们看到饰物、华盖、旌旗和铠甲被极其可怖的罗刹夺走。
16.4.4
तच्चाग्निदत्तं कृष्णस्य वज्रनाभमयोमयम् ।
दिवमाचक्रमे चक्रं वृष्णीनां पश्यतां तदा ॥ १६.४.४ ॥
那是火神所赐、克里希那的铁制金刚轮(Vajranābha),在婆利须尼族众人注视之下升上了天空。
16.4.5
युक्तं रथं दिव्यमादित्यवर्णं ।
हयाऽहरन्पश्यतो दारुकस्य।
ते सागरस्योपरिष्टादगच्छ-
न्मनोजवाश्चतुरो वाजिमुख्याः ॥ १६.४.५ ॥
达鲁卡眼看着,那辆套好的、如太阳般色泽的神车被骏马载走;那四匹快如思念的良驹,越过大海而去。
16.4.6
तालः सुपर्णश्च महाध्वजौ तौ ।
सुपूजितौ रामजनार्धनाभ्याम्।
उच्चैर्जह्रुरप्सरसश्च दिव्या ।
देवा ऊचुर्गम्यतां तीर्थयात्राः ॥ १६.४.६ ॥
那两面大旗——多罗树旗与金翅鸟(迦卢荼)旗,曾被罗摩与阇那德那所敬奉,此时被天界的阿普萨拉斯高声夺去;诸天说:“让它们去朝圣吧。”
16.4.7
भगवद्दर्शनस्पर्शस्नेहैर्विततभोगिनः ।
दिवः प्रवेशानार्थं ते विमानैर्दिवमाययुः ॥ १६.४.७ ॥
他们因见到、触摸并爱慕世尊而享受广大,乘天车升往天界,以进入天界。
16.4.8
ततो जिगमिषन्तस्ते वृष्ण्यन्धकमहारथाः ।
सान्तःपुरास्तदा तीर्थयात्रामैच्छन्नरर्षभाः ॥ १६.४.८ ॥
于是,想要出发的伐里希尼与安陀迦的大车武士,连同后宫,那些人中雄牛便想要朝拜圣渡口的旅程。
16.4.9
ततो मनोहरा हृष्टाःक पेयं मांसं मधूनि च ।
बहु नानाविधं चक्रुस्त्वरिताः कालचोदिताः ॥ १६.४.९ ॥
于是,欢喜而可爱的他们,被时间驱使,匆忙准备了卡培耶酒、肉、蜜以及许多种类的东西。
16.4.10
ततः सीधुषु सक्ताश्च निर्ययुर्नगराद्बहिः ।
यानैरश्वैर्गजैश्चैव श्रीमन्तस्तिग्मतेजसः ॥ १६.४.१० ॥
于是,沉溺于酒的那些光辉的、威光炽盛的人,乘车、骑马和骑象,走出城外。
16.4.11
ततः प्रभासे न्यवसन्यथोद्दिष्टं यथागृहम् ।
प्रभूतभक्ष्यपेयास्ते सदारा यादवास्तदा ॥ १६.४.११ ॥
于是他们在普拉巴萨按照指定住进各自的房屋,雅达瓦人与妻子们同住,食物与饮品丰盛。
16.4.12
निविष्टांस्तान्निशाम्याथ समुद्रान्ते स योगवित् ।
जगामामन्त्र्य तान्वीरानुद्धवोऽर्थविशारदः ॥ १६.४.१२ ॥
见他们已在海边安居,精通瑜伽、善明真义的乌达瓦,向那些英雄告别后离去了。
16.4.13
तं प्रस्थितं महात्मानमभिवाद्य कृताञ्जलिम् ।
जानन्विनाशं वृष्णीनां नैच्छद्वारयितुं हरिः ॥ १६.४.१३ ॥
当那位伟大的人启程,合掌向他致敬时,哈里知道维里希尼族的毁灭,却不愿阻拦他。
16.4.14
ततः कालपरीतास्ते वृष्ण्यन्धकमहारथाः ।
अपश्यन्नुद्धवं यान्तं तेजसाऽऽवृत्य रोदसी ॥ १६.४.१४ ॥
此时,被时间所困的维里希尼与安陀迦大车将们,看见乌达瓦正在离去,以其光辉遍照天地。
16.4.15
ब्राह्मणार्थेषु यत्सिद्धमन्नं तेषां महात्मनाम् ।
तद्वानरेभ्यः प्रददुः सुरागन्धसमन्वितम् ॥ १६.४.१५ ॥
那些伟大的人把为婆罗门准备的食物——混有酒香的——分给了猴子们。
16.4.16
ततस्तूर्यशताकीर्णं नटनर्तकसंकुलम् ।
अवर्तत महापानं प्रभासे तिग्मतेजसाम् ॥ १६.४.१६ ॥
随后,在普拉巴萨举行了一场大型饮宴,充满数百种乐器,挤满了演员与舞者,为那些烈焰般光辉的人而设。
16.4.17
कृष्णस्य सन्निधौ रामः सहितः कृतवर्मणा ।
अपिबद्युयुधानश्च गदो बभ्रुस्तथैव च ॥ १६.४.१७ ॥
在黑天面前,罗摩与克里塔瓦尔曼一同饮酒;尤尤达那、伽达与巴布鲁同样饮酒。
16.4.18
ततः परिषदो मध्ये युयुधानो मदोत्कटः ।
अब्रवीत्कृतवर्माणमवहास्यावमत्य च ॥ १६.४.१८ ॥
于是在众人之中,醉意狂烈的尤尤达那讥笑而轻蔑地对克里塔瓦尔曼说道。
16.4.19
कः क्षत्रियो हन्यमानः सुप्तान्हन्यान्मृतानिव ।
तन्न मृष्यन्ति हार्दिक्य यादवा यत्त्वया कृतम् ॥ १६.४.१९ ॥
哪位刹帝利在被打击时,会像杀死死者一样杀死熟睡之人?哈尔迪基亚啊,耶达瓦人不会容忍你所做的事。
16.4.20
इत्युक्ते युयुधानेन पूजयामास तद्वचः ।
प्रद्युम्नो रथिनांश्रेष्ठो हार्दिक्यमवमत्य व ॥ १६.४.२० ॥
尤尤丹纳如此说后,车战者中最优秀的普拉迪尤姆纳赞赏他的话,并轻视哈尔迪基亚……
16.4.21
ततः परमसंक्रुद्धः कृतवर्मा तमब्रवीत् ।
निर्दिशन्निव सावज्ञं तदा सव्येन पाणिना ॥ १६.४.२१ ॥
于是极度愤怒的克利塔瓦尔曼对他说道,仿佛以轻蔑的左手指示。
16.4.22
भूरिश्रवाश्छिन्नबाहुर्युर्द्धे प्रायगतस्त्वया ।
वधेन सुनृशंसेन कथं वीरेण पातितः ॥ १६.४.२२ ॥
断臂的薄利室罗瓦斯在战斗中殒命;你以如此残忍的杀戮,是如何击倒这位英雄的?
16.4.23
इति तस्य वचः श्रुत्वा केशवः परवीरहा ।
तिर्यक्सरोषया दृष्ट्या वीक्षांचक्रे स मन्युमान् ॥ १६.४.२३ ॥
克沙瓦,敌方英雄的杀手,听了他的话,以充满愤怒的斜视看去;他怒气满胸地注视着。
16.4.24
मणिः स्यमन्तकश्चैव यः स सत्राजितोऽभवत् ।
तां कथां श्रावयामास सात्यकिर्मधुसूदनम् ॥ १६.४.२४ ॥
那颗属于萨特拉吉特的宝珠“斯雅曼塔卡”——这个故事,萨提亚吉让摩度苏陀那听了。
16.4.25
तच्छ्रुत्वा केशवस्याङ्कमगमद्रुदती तदा ।
सत्यभामा प्रकुपिता कोपयन्ती जनार्दनम् ॥ १६.४.२५ ॥
萨提亚帕玛闻言,哭泣着、满怀愤怒地走到罗尚身边坐下,又挑唆遮那陀那。
16.4.26
तत उत्थाय सक्रोधः सात्यकिर्वाक्यमब्रवीत्। ॥ १६.४.२६ ॥
于是,萨提亚基怒气冲冲地站起来,说了这番话。
16.4.27
पञ्चानां द्रौपदेयानां धृष्टद्युम्नशिखण्डिनोः ।
एष गच्छामि पदवीं सत्येन च तथा शपे ॥ १६.४.२७ ॥
我将追随五位德劳帕迪之子以及达湿吒笈名与尸建底的道路;我以真理发誓。
16.4.28
सौप्तिके ये च निहताः सुप्ता येन दुरात्मना ।
द्रोणपुत्रसहायेन पापेन कृतवर्मणा ॥ १६.४.२८ ॥
在夜袭屠杀中被杀于睡梦中的那些人,都是那个恶毒之人在德罗纳之子和罪人克里塔瓦尔曼的协助下杀害的。
16.4.29
समाप्तमायुरस्याद्य यशश्चैव सुमध्यते ।
इत्येवमुक्त्वा खङ्गेन केशवस्य समीपतः।
अभिद्रुत्य शिरः क्रुद्धश्चिच्छेद कृतवर्मणः ॥ १६.४.२९ ॥
“今日他的寿命与声名都已终结,哦,苏摩提雅!”说罢,他满怀愤怒,从罗尚身旁冲上前去,以剑斩下了克里塔瓦尔曼的头颅。
16.4.30
तथाऽन्यानपि निघ्नन्तं युयुधानं समन्ततः ।
अभ्यधावद्धृषीकेशो विनिवारयितुं तदा ॥ १६.४.३० ॥
此时,希利希开什转身奔去,要制止四面击杀他人的尤尤达那。
16.4.31
एकीभूतास्ततः सर्वे कालपर्यायचोदिताः ।
भोजान्धका महाराज शैनेयं पर्यवारयन् ॥ १६.४.३१ ॥
此时,众人被时运所驱,齐聚一处。大王啊,诸Bhoja与Andhaka将Śainya团团围住。
16.4.32
तान्दृष्ट्वा पततस्तूर्णमभिक्रुद्धाञ्जनार्दनः ।
न चुक्रोध महातेजा जानन्कालस्य पर्ययम् ॥ १६.४.३२ ॥
见他们疾速扑来,极为愤怒,大光明的Janārdana并未动怒,因他知晓时运的转变。
16.4.33
ते तु पानमदाविष्टाश्चोदिताः कालधर्मणा ।
युयुधानमथाभ्यघ्नन्नुच्छिष्टैर्भाजनैस्तदा ॥ १६.४.३३ ॥
他们被酒醉所迷,受时运之法驱使,便以残余的器皿击打Yuyudhāna。
16.4.34
हन्यमाने तु शैनेये क्रुद्धो रुक्मिणिनन्दनः ।
तदनन्तरमागच्छन्मोचयिष्यञ्शिनेः सुतम् ॥ १६.४.३४ ॥
当Śainya被击打时,愤怒的Rukmiṇī之子随即前来,欲解救Śini之子。
16.4.35
स भोजैः सह संयुक्तः सात्यकिश्चान्धकैः सह ।
व्यायच्छमानौ तौ वीरौ बाहुद्रविणशालिनौ।
बहुत्वान्निहतौ तत्र उभौ कुष्णस्य पश्यतः ॥ १६.४.३५ ॥
他与Bhoja同在,Sātyaki与Andhaka相会。那两位以臂力之富而光彩照人的英雄,因人寡而在那里被杀,就在Kṛṣṇa眼前。
16.4.36
हतं दृष्ट्वा च शैनेयं पुत्रं च यदुनन्दनः ।
एरकाणां ततो मुष्टिं कोपाज्जग्राह केशवः ॥ १६.४.३६ ॥
见Śainya与其子皆被杀,Yadu族之喜悦者Keśava怒从心起,抓起一把eraka草。
16.4.37
तदभून्मुसलं घोरं वज्रकल्पमयोमयम् ।
जघान कुष्णस्तांस्तेनि येये प्रमुखतोऽभवन् ॥ १६.४.३७ ॥
那成了一柄可怕的铁制木杵,如同金刚杵。黑天用它打击了站在最前面的人。
16.4.38
ततोऽन्धकाश्च भोजाश्च शैनेया वृष्णयस्तथा ।
जघ्नुरन्योन्यमाक्रन्दे मुसलैः कालचोदिताः ॥ १६.४.३८ ॥
于是安陀迦、薄阁、舍尼耶与伏瑞尼族人,被时间驱使,在喧嚣中以木杵互相击打。
16.4.39
यस्तेषामेरकां कश्चिज्जग्राह कुपितो नृपः ।
वज्रभूतेव सा राजन्नदृश्यत तदा विभो ॥ १६.४.३९ ॥
他们中有人愤怒地抓起一根芦苇(erakā);大王啊,主啊,那时它看起来如同金刚杵。
16.4.40
तृणं च मुसलीभूतमपि तत्र व्यदृश्यत ।
ब्रह्मदण्डकृतं सर्वमिति तद्विद्वि पार्थिव ॥ १६.४.४० ॥
那里连青草也显现为木杵。大王啊,应知这一切皆由婆罗门的咒诅所致。
16.4.41
आविध्याविध्य ते राजन्प्रहरन्ति स्म तैस्तृणैः ।
तद्वज्रभूतं मुसलं व्यदृश्यत तदा दृढम् ॥ १६.४.४१ ॥
大王啊,他们反复挥舞那些草,用它们击打;那时那木杵显得坚固如金刚杵。
16.4.42
अवधीत्पितरं पुत्रः पिता पुत्रं च भारत ।
मत्ताः परिपतन्ति स्म योधयन्तः परस्परम् ॥ १६.४.४२ ॥
婆罗多的后裔啊,儿子杀死了父亲,父亲杀死了儿子;他们陷入疯狂,四处奔走,彼此厮杀。
16.4.43
पतङ्गा इव चाग्नौ ते निपेतुः कुकुरान्धकाः ।
नासीत्पलायने बुद्धिर्वधअयमानस्य कस्यचित् ॥ १६.४.४३ ॥
如飞蛾投火,俱卢族与安陀迦族纷纷倒下。被杀者中没有人想到逃跑。
16.4.44
तत्रापश्यन्महाबाहुर्जानन्कालस्य पर्ययम् ।
मुसलं समवष्टभ्य तस्थौ स मधुसूदनः ॥ १६.४.४४ ॥
大臂者知晓时运的变化,在那里观望。他紧握铁杵,摩图苏陀那(克里希那)屹立不动。
16.4.45
सांबं च निहतं दृष्ट्वा चारुदेष्णं च माधवः ।
प्रद्युम्नं चानिरुद्धं च ततश्चुक्रोध भारत ॥ १६.४.४५ ॥
婆罗多之子啊,见到桑波与被杀的恰鲁德什那,又见到普拉迪尤姆那与阿尼鲁达,摩陀婆便愤怒起来。
16.4.46
गदं वीक्ष्य शयानं च भृशं कोपसमन्वितः ।
स निःशेषं तदा चक्रे शार्ङ्गचक्रगंदाधरः ॥ १६.४.४६ ॥
见到迦陀倒卧,他怒不可遏。持沙尔嘎弓、轮盘与铁杵的他,此时将众人彻底毁灭。
16.4.47
तं निघ्नन्तं महातेजा बभ्रुः परपुरंजयः ।
दारुकश्चैव दाशार्हमूवतुर्यन्निबोध तत् ॥ १६.४.४७ ॥
击杀之际,光辉赫赫、征服敌城的巴布如与达鲁卡对达沙尔哈的后裔说道:请听他们所言。
16.4.48
भगवन्निहताः सर्वे त्वया भूयिष्ठशो नराः ।
रामस्य पदमन्विच्छ तत्र गच्छाम यत्र सः ॥ १६.४.४८ ॥
世尊啊,大多数人已被您所杀。让我们寻找罗摩的足迹,前往他所在之处吧。