Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 16.6

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

16.6.1

दारुकोपि कुरून्गत्वा दृष्ट्वा पार्थान्महारथान् ।
आचष्ट मौसले वृष्णीनन्योन्येनोपसंहृतान् ॥ १६.६.१ ॥

达鲁迦也前往俱卢族,见到大车将般的般度子孙,讲述了毛萨罗之争中维须尼族彼此相残的情形。

16.6.2

श्रुत्वा विनष्टान्वार्ष्णेयान्सभोजान्धककौकुरान् ।
पाण्डवाः शोकसंतप्ता वित्रस्तमनसोऽभवन् ॥ १६.६.२ ॥

听闻维须尼后裔及跋阇、安陀迦、俱俱罗诸族皆已毁灭,般度诸子悲痛万分,心中惊恐。

16.6.3

ततोऽर्जुनस्तानामन्त्र्य केशवस्य प्रियः सखा ।
प्रययौ मातुलं द्रष्टुं नेदमस्तीति चाब्रवीत् ॥ १६.६.३ ॥

于是,克舍瓦的亲密挚友阿周那与他们告别,前去探望舅父,并说:“这不可能是真的。”

16.6.4

स वृष्णिनिलयं गत्वा दारुकेण सह प्रभो ।
ददर्श द्वारकां वीरो मृतनाथामिव स्त्रियम् ॥ १६.६.४ ॥

主啊,这位英雄与达鲁迦一同前往维须尼族的居所,看见杜尔伽卡城如同丧夫的妇人一般。

16.6.5

याः स्म ता लोकनाथेन नाथवत्यः पुराऽभवन् ।
तास्त्वनाथास्तदा नाथं पार्थं दृष्ट्वा विचुक्रुशुः ॥ १६.६.५ ॥

这些女子先前由世界之主(克里希那)护持,如今无依无靠,见到般度之子(阿周那)作为护持者,便放声悲号。

16.6.6

षोडश स्त्रीसहस्राणि वासुदेवपरिग्रहाः ।
तासामासीन्महान्नादो दृष्ट्वैवार्जुनमागतम् ॥ १६.६.६ ॥

婆苏提婆(克里希那)有一万六千名妻子;她们一见阿周那到来,便齐声大哭。

16.6.7

तास्तु दृष्ट्वैव कौरव्यो बाष्पेणापिहितेक्षणः ।
हीनाः कृष्णेन पुत्रैश्च नाशकत्सोभिवीक्षितुम् ॥ १६.६.७ ॥

见到她们,俱卢之后(阿周那)双眼被泪水遮蔽,无法正视这些失去了黑天与诸子的妇人。

16.6.8

स तां वृष्ण्यन्धकजलां हयमीनां रथोडुपाम् ।
वादित्ररथघोषौघां वेश्मतीर्थमहाग्रहाम् ॥ १६.६.८ ॥

他望见那座多瓦拉卡——以韦利什尼与安达卡为水,以马为鱼,以车为舟,乐声与车轮之声为激流,以房屋为圣渡口,以巨鳄为其中之物。

16.6.9

रत्नशैवलसंघातां वज्रप्राकारमालिनीम् ।
रथ्यास्रोतोजलावर्तां चत्वरस्तिमितह्रदाम् ॥ १६.६.९ ॥

以宝石堆为水藻,以金刚墙垣为环绕之花环,街道为水流与漩涡,广场为静止的池沼。

16.6.10

रामकृष्णमहाग्राहां द्वारकां सरितं तदा ।
कालपाशग्रहां भीमां नदीं वैतरणीमिव ॥ १६.६.१० ॥

彼时他望见那条多瓦拉卡河——以罗摩与黑天为大鳄,以时间之索为其擒拿,可怖,犹如吠多兰尼河。

16.6.11

ददर्श वासविर्धीमान्विहीनां वृष्णिपुङ्गवैः ।
गतश्रियं विरानन्दां पद्मिनीं शिशिरे यथा। ॥ १६.६.११ ॥

智慧的婆娑之子(阿周那)望见她——失去了韦利什尼诸英杰,失去光彩与欢愉,犹如寒冬中的莲池。

16.6.12

तां दृष्ट्वा द्वारकां पार्थस्ताश्च कृष्णस्य योषितः ।
सस्वनं बाष्पमुत्सृज्य निपात महीतले ॥ १६.६.१२ ॥

普利塔之子(阿周那)见到那座多瓦拉卡与黑天的妇人们,发出哀号,洒下泪水,倒在地上。

16.6.13

सात्राजिती ततः सत्या रुक्मिणी च विशांपते ।
अभिपत्य प्ररुरुदुः परिवार्य धनंजयम् ॥ १६.६.१३ ॥

于是,萨特拉吉提、萨蒂亚和鲁克米尼,啊,人民之主,奔上前来,将达那涧耶围住,放声痛哭。

16.6.14

ततस्तं काञ्चने पीठे समुत्ताप्योपवेश्य च ।
अभिनन्द्य महात्मानं परिवार्योपतस्थिरे ॥ १६.६.१४ ॥

然后,她们将他从金座上扶起、请他坐下,向这位伟大的人致意,并围绕着他站立。

16.6.15

ततः संस्तूय गोविन्दं कथयित्वा च पाण्डवः ।
आश्वास्य ताः स्त्रियश्चापि मातुलं द्रष्टुमभ्यगात् ॥ १६.६.१५ ॥

然后,般度之子赞颂了戈文达,说了自己的话,又安慰了那些女子,便前去看望他的舅父。