Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 16.7

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

16.7.1

तं प्रविष्टं महात्मानं वीरमानकदुन्दुभिः ।
पुत्रशोकेन संतप्तो ददर्श कुरुपुङ्गवम् ॥ १६.७.१ ॥

阿纳卡杜恩杜比(婆苏提婆)因失子之痛而备受煎熬,他看见进来的那位大英雄,俱卢族的雄牛。

16.7.2

तस्याश्रुपरिपूर्णाक्षो व्यूढोरस्को महाभुजः ।
आर्तस्यार्ततरः पार्थः पादौ जग्राह भारत ॥ १६.७.२ ॥

满眼泪水、胸膛宽阔、双臂强壮的普利塔之子(阿周那),比悲伤者更加悲痛,抱住了他的双脚,婆罗多啊。

16.7.3

तस्य मूर्धानमाघ्रातुमियेषानकदुन्दुभिः ।
स्वस्रीयस्य महाबाहुर्न शशाक च शत्रुहन् ॥ १६.७.३ ॥

阿纳卡杜恩杜比(婆苏提婆)想要亲吻他姐妹之子的头顶,但是,啊,敌人的摧毁者,这位大臂者却无法做到。

16.7.4

समालिङ्ग्यार्जुनं वृद्धः स भुजाभ्यां महाभुजः ।
रुरोदाथ स्मरञ्शौरिं विललाप सुविह्वलः।
भ्रातॄन्पुत्रांश्च पौत्रांश्च दौहित्रान्स सखीनपि ॥ १६.७.४ ॥

这位大臂的老人拥抱阿周那并痛哭;随后,他想起沙乌利(克里希纳),悲痛欲绝,为兄弟、儿子、孙子、外孙和朋友哀悼。

16.7.5

यैर्जिता भूमिपालाश्च दैत्याश्च शतशोऽर्जुन ।
तान्सर्वान्नेह पश्यामि जीवाम्यर्जुन दुर्मरः ॥ १६.७.५ ॥

啊阿周那,那些曾击败成百上千君王和阿修罗的人,我在这里都看不见了;啊阿周那,难以死去的我,仍然活着。

16.7.6

यो तावर्जुनशिष्यौ ते प्रियौ बहुमतौ सदा ।
तयोरपनयात्पार्थ वृष्णयो निधनं गताः ॥ १६.७.६ ॥

啊普利塔之子,你的那两位弟子始终深受喜爱、备受尊重;因为那两人的离去,毗湿尼族走向了毁灭。

16.7.7

यौ तौ वृष्णिप्रवीराणां द्वावेवातिरथौ मतौ ।
प्रद्युम्नो युयुधानश्चि कथनन्कत्थसे च यौ ॥ १६.७.७ ॥

在韦瑞尼英雄中被视为大车战士的那两位——普拉俄由那与优由陀那,他们夸耀自己,正是这两人。

16.7.8

तौ सदा कुरुशार्दूल कृष्णस्य प्रियभाजनौ ।
तावुभौ वृष्णिनाशस्य मुखमास्तां धनंजय ॥ १६.७.८ ॥

这两人始终是克里希那所宠爱的人,库鲁之虎啊;二人,德汗逝耶,都站在韦瑞尼毁灭的前头。

16.7.9

न तु गर्हामि शैनेयं हार्दिक्यं चाहमर्जुन ।
अक्रूरं रौक्मिणेयं च शापो ह्येवात्र कारणम् ॥ १६.७.९ ॥

阿周那啊,我不责怪施尼之子(萨谛奇),也不责怪希尔迪基亚(克里塔瓦尔马),也不责怪阿克鲁罗及鲁克米尼之子;这里的原因只是诅咒。

16.7.10

केशिनं यस्तु कंसं च विक्रम्यि हतवान्प्रभुः ।
विदेहमकरोत्पार्थं चैद्यं च बलगर्वितम् ॥ १६.७.१० ॥

那位以勇力杀死凯希诺与康萨的主宰,使毗提诃臣服——普利塔之子啊——还有以力量自豪的赤迪。

16.7.11

नैषादिमेकलव्यं च चक्रे कालिङ्गमागधान् ।
गान्धारान्काशिराजं च मरुभूमौ च पार्थिवान् ॥ १६.७.११ ॥

他也使尼沙陀之子埃卡拉维亚臣服,使羯陵伽人、摩揭陀人、犍陀罗人、迦尸王及沙漠之地的诸王臣服。

16.7.12

प्राच्यांश्च दाक्षिणात्यांश्च पार्वतीयांस्तथा नृपान् ।
सोभ्युपेक्षितवानेवमनयान्मधुसूदनः ॥ १६.७.१२ ॥

东方与南方的诸王,以及山地的诸王——摩图苏陀那便如此不公地忽视了他们。

16.7.13

त्वं हि तं नारदश्चैव मुनयश्च सनातनम् ।
गोविन्दमनघं देवमभिजानीध्वमच्युतम् ॥ १६.७.१३ ॥

你也认识他;那那罗陀与众仙人也认识这位永恒、无垢的神——不退的哥文达。

16.7.14

प्रत्यपश्यच्च स विभुर्ज्ञातिक्षयमधोक्षजः ।
समुपेक्षितवान्नित्यं स्वयं स मम पुत्रकः ॥ १६.७.१४ ॥

那遍及一切的阿陀乌贾预见了族人的毁灭,而我的儿子自己始终任其发生。

16.7.15

गान्धार्या वचनं यत्तदृषीणां च परंतप ।
तन्नूनमन्यथा कर्तुं नैच्छत्स जगतः प्रभुः ॥ १६.७.१५ ॥

征服者啊,甘陀利与众仙人的那句话,世界之主当然不愿让它有所改变。

16.7.16

प्रत्यक्षं भवतश्चापि तव पौत्रः परंतप ।
अश्वत्थाम्ना हतश्चापि जीवितस्तस्य तेजसा।
इमांस्तु नैच्छत्स्वान्ज्ञातीन्रक्षितुं च सखा तव ॥ १६.७.१६ ॥

征服者啊,就在你眼前,你的孙子被马嘶所杀,又凭借他的威力复活;然而你的朋友却不愿保护他自己的这些族人。

16.7.17

ततः पुत्रांश्च पौत्रांश्च भ्रातॄनथ सखींस्तथा ।
शयानान्निहतान्दृष्ट्वा कृष्णो मामब्रवीदिदम् ॥ १६.७.१७ ॥

然后,克里希那看见儿子、孙子、兄弟和朋友都倒卧被杀,便对我说了这些话。

16.7.18

सम्प्राप्तोऽद्यायमस्यान्तः कुलस्य भरतर्षभ ।
आगमिष्यति बीभत्सुरिमां द्वारवतीं पुरीम्।
आख्येयं तस्य यद्वृत्तं वृष्णीनां वैशसं महत् ॥ १६.७.१८ ॥

婆罗多的雄牛啊,今日这一族的末日已到。比拖苏(阿周那)将来到这座杜婆罗婆底城,要把瓦尔什尼族那场大毁灭的经过讲给他听。

16.7.19

स तु श्रुत्वा महातेजा यदूनां निधनं प्रभो ।
आगन्ता क्षिप्रमेवेह न मेऽत्रास्ति विचारणा ॥ १६.७.१९ ॥

主啊,他听闻耶度族的毁灭后,将很快来到此地;对此我毫不怀疑。

16.7.20

योऽहं तमर्जुनं विद्धि योऽर्जुनः सोहमेव तु ।
यद्ब्रूयात्तत्तथा कार्यमिति बुद्ध्यस्व भारत ॥ १६.७.२० ॥

要知道,我所是的那个人就是阿周那,而阿周那就是我自己。婆罗多啊,要明白他所说的话必须照办。

16.7.21

स स्त्रीषु प्राप्तकालासु पाण्डवो बालकेषु च ।
प्रतिपत्स्यति बीभत्सुर्भवतश्चौर्ध्वद्गेहिकम् ॥ १६.७.२१ ॥

那位般度之子毗跋蹉(阿周那)将为时辰已到的妇女和孩童,以及为你们,举行葬后仪式。

16.7.22

इमां च नगरीं सद्यः प्रतियाते धनंजये ।
प्राकारट्टालकोपेतां समुद्रः प्लावयिष्यति ॥ १६.७.२२ ॥

一旦财主(阿周那)离去,大海便会淹没这座有城墙和望楼的城市。

16.7.23

अहं देशे तु कस्मिंश्चित्पुण्ये नियममास्थितः ।
कालं काङ्क्षे सद्य एव रामेण सहितो वने ॥ १६.७.२३ ॥

我将在某处圣地持守誓戒,与罗摩一同,在林中立即等待死亡。

16.7.24

एवमुक्त्वा हृषीकेशो मामचिन्त्यपराक्रमः ।
हित्वा मां बालकैः सार्धं दिशं कामप्यगात्प्रभुः ॥ १६.७.२४ ॥

说完这番话,具有不可思议勇力的希里希凯莎(克里希那)离开了我和孩子们,走向了某个方向。

16.7.25

सोहं तौ च महात्मानौ चिन्तयन्रामकेशवौ ।
घोरं ज्ञातिवधं चैव न भुञ्जे शोककर्शितः ॥ १६.७.२५ ॥

我思念那两位伟大的罗摩与克沙婆,因亲族惨遭屠戮的巨大悲痛而消瘦,我不进食。

16.7.26

न मोक्ष्येन च जीविष्ये दिष्ट्या प्राप्तोसि पाण्डव ।
यदुक्तं पार्थं कृष्णेन तत्सर्वमखिलं कुरु ॥ १६.७.२६ ॥

我不会得解脱,也不会活下去。幸运的是你来了,般度之子;把克里希纳对普利塔之子所说的一切完整地做好。

16.7.27

एतत्ते पार्थ राज्यं च स्त्रियो रत्नानि चैव हि ।
इष्टान्प्राणानहं हीमांस्त्यक्ष्यामि रिपुसूदन ॥ १६.७.२७ ॥

普利塔之子啊,这王国、这些女子和这些珍宝都属于你。敌人的毁灭者啊,我也将舍弃这些珍贵的生命之气。