Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 16.8

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

16.8.1

एवमुक्तः स बीभत्सुर्मातुलेनि परंतप ।
दुर्मना दीनवदनो वसुदेवमुवाच ह ॥ १६.८.१ ॥

舅父如此说后,毗跋蹉(阿周那)——敌人的焚烧者啊——心意低沉、面容忧戚,对婆苏提婆说道。

16.8.2

नाहं वृष्णिप्रवीरेण बन्धुभिश्चैव मातुल ।
विहीनां पृथिवीं द्रष्टुं शक्तश्चिरमिह प्रभो ॥ १६.८.२ ॥

舅父啊,主啊!我无法长久地看着这片失去了毗黎尼族英雄和亲族的大地。

16.8.3

राजा च भीमसेनश्च सहदेवश्च पाण्डवः ।
नकुलो याज्ञसेनी च षडेकमनसो वयम् ॥ १६.८.३ ॥

国王(坚战)、毗摩先那、萨哈提婆、般度之子那古罗,以及耶阇赛尼(黑公主)——我们六人同心同意。

16.8.4

राज्ञः संक्रमणे चापि कामोऽयं नित्यमेव हि ।
तमिमं विद्धि सम्प्राप्तं कालं कालविदांवर ॥ १६.८.४ ॥

即使在国王离世之际,这份念头也始终存在。知时者中最优秀的人啊,你要知道,这正是已到来的时机。

16.8.5

सर्वथा वृष्णिदारांस्तु बालं वृद्धं तथैव च ।
नयिष्ये परिगृह्याहमिन्द्रप्रस्थमरिंदम ॥ १६.८.५ ॥

我将以各种方式庇护毗黎尼族的妇人,以及幼小和年老者,把他们带往因陀罗普拉斯塔,降敌者啊。

16.8.6

इत्युक्त्वा दारुकमिदं वाक्यमाह धनंजयः ।
अमात्यान्वृष्णिवीराणां द्रष्टुमिच्छामि माचिरम् ॥ १६.८.६ ॥

说完这些话,持财(阿周那)对达鲁迦说了这番话:我想立刻见到毗黎尼族英雄的大臣们。

16.8.7

इत्येवमुक्त्वा वचनं सुधर्मां यादवीं सभाम् ।
प्रविवेशार्जुनः शूरः शोचमानो महाभुजः ॥ १६.८.७ ॥

阿周那说完这些话后,悲伤地走进了耶达瓦人的善法大会堂。

16.8.8

तमासनगतं तत्र सर्वाः प्रकृतयस्तथा ।
ब्राह्मणा नागरास्तत्र परिवार्योपतस्थिरे ॥ १६.८.८ ॥

他坐在座位上,所有臣民、婆罗门和城民都围绕着他前来侍奉。

16.8.9

तान्दीनमनसः सर्वान्विमूढान्गतचेतसः ।
उवाचेदं वचः काले पार्थो दीनतरस्तथा ॥ १६.८.९ ॥

对于他们所有人——心怀悲伤、昏乱失神——更加悲痛的贡蒂之子在恰当的时候说了这些话。

16.8.10

शक्रप्रस्थमहं नेष्ये पृष्णन्धकजनं स्वयम् ।
इदं तु नगरं सर्वं समुद्रः प्लावयिष्यति ॥ १६.८.१० ॥

我将亲自把普利施尼和安陀迦之民带往帝释城;大海将淹没整座城市。

16.8.11

सज्जीकुरुत यानानि रत्नानि विविधानि च ।
वज्रोऽयं भवतां राजा शक्रप्रस्थे भविष्यति ॥ १६.८.११ ॥

准备车辆和各种珍宝;这位金刚将成为你们在帝释城的国王。

16.8.12

सप्तमे दिवसे चैव रवौ विमल उद्गते ।
बहिर्वत्स्यामहे सर्वे सज्जीभावत माचिरम् ॥ १६.८.१२ ॥

第七天,当清朗的太阳升起时,我们都将住在城外;不要耽搁,准备好吧。

16.8.13

इत्युक्तास्तेन ते सर्वे पार्थेनाक्लिष्टकर्मणा ।
सज्जमाशु ततश्चक्रुः स्वसिद्ध्यर्थं समुत्सुकाः ॥ १६.८.१३ ॥

不费力行事的般度之子(阿周那)如此吩咐后,众人急切地迅速为各自的成功做好了准备。

16.8.14

तां रात्रिमवसत्पार्थः केशवस्य निवेशने ।
महता शोकमोहेन सहसाऽभिपरिप्लुतः ॥ १६.८.१४ ॥

那一夜,般度之子(阿周那)住在克舍婆(克里希那)的住所中,突然被巨大的悲伤与迷惑所笼罩。

16.8.15

श्वोभूतेऽथ ततः शौरिर्वसुदेवः प्रतापवान् ।
युक्त्वाऽऽत्मानं महातेजा जगाम गतिमुत्तमां ॥ १६.८.१५ ॥

次日清晨,威猛而光辉极盛的束利之子婆苏提婆收敛心神,踏上了至高的归途。

16.8.16

ततः शब्दो महानासीद्वसुदेवनिवेशने ।
दारुणः क्रोशतीनां च रुदतीनां च योषिताम् ॥ १६.८.१६ ॥

于是在婆苏提婆的住所中升起一片巨大而可怖的声响,那是哭喊与啼泣的女人们发出的。

16.8.17

प्रकीर्णमूर्धजाः सर्वा विमुक्ताभरणस्रजः ।
उरांसि पाणिभिर्घ्नन्त्यो व्यलपन्तकरुणं स्त्रियः। ॥ १६.८.१७ ॥

所有女子披散着头发,摘去了首饰与花环,用手捶打着胸膛,悲惨地哀哭。

16.8.18

तं देवकी च भद्रा च रोहिणी मदिरा तथा ।
अन्वारोढुं व्यवसिता भर्तारं योषितां वराः ॥ १६.८.१८ ॥

提婆吉、跋陀罗、罗希尼以及摩提罗,这些女子中的翘楚,都决意追随自己的丈夫而去。

16.8.19

ततः शौरिं नृयुक्तेन बहुमूल्येन भारत ।
यानेन महता पार्थो बहिर्निष्क्रामयत्तदा ॥ १६.८.१९ ॥

婆罗多啊,那时阿周那让舍利(Śauri)乘坐由人拉动的昂贵大车被运出城外。

16.8.20

तमन्वयुस्तत्रतत्रं दुःखसोकसमन्विताः ।
द्वारकावासिनः सर्वे पौरजानपदा हिताः ॥ १६.८.२० ॥

充满悲痛与哀伤的德瓦拉卡全体居民,城中与乡间的人们,皆作为友善者到处跟随于他。

16.8.21

तस्याश्वमेधिकं छत्रं दीप्यमानाश्च पावकाः ।
पुरस्तात्तस्य यानस्य याजकाश्च ततो ययुः ॥ १६.८.२१ ॥

在那辆车前面,行走着与马祭相关的华盖、熊熊燃烧的祭火,以及祭司们。

16.8.22

अनुजग्मुश्च तं वीरं देव्यस्ता वै स्वलङ्कृताः ।
स्त्रीसहस्रैः परिवृता वधूभिश्च सहस्रशः ॥ १६.८.२२ ॥

盛装打扮的王后们跟随那位英雄,被成千上万的女子与新娘环绕。

16.8.23

यस्तु देशः प्रियस्तस्य जीवतोऽभून्महात्मनः ।
तत्रैनमुपसंकल्प्य वितृमेधं प्रचक्रिरे ॥ १६.८.२३ ॥

他们把他带到那位大人在世时最喜爱的地方,在那里举行了维特里梅达(葬礼祭祀)。

16.8.24

तं चिताग्निगतं वीरं शूरपुत्रं वराङ्गनाः ।
ततोन्वारुरुहुः पत्न्यश्चतस्रः पतिलोकगाः ॥ १६.८.२४ ॥

在被放置于火葬柴堆上的那位英雄、即舜罗之子身后,四位决意前往夫君之界的贤淑女子登上了柴堆。

16.8.25

तं वै चतसृभिः स्त्रीभिरन्वितं पाण्डुनन्दनः ।
अदाहयच्चन्दनैश्च गन्धैरुच्चावचैरपि ॥ १६.८.२५ ॥

般度之子让他在四位女子的陪伴下,用檀香和各种香料焚化。

16.8.26

ततः प्रादुरभूच्छब्दः समिद्धस्य विभावसोः ।
सामगानां च निर्घोषो नराणां रुदतामपि ॥ १६.८.२६ ॥

于是燃烧的火焰发出声响,唱诵《娑摩》的吟诵声与哭泣的人们的声音也一并响起。

16.8.27

ततो वज्रप्रधानास्ते वृष्ण्यन्धककुमारकाः ।
सर्वे चैवोदकं चक्रुः स्त्रियश्चैव महात्मनः। ॥ १६.८.२७ ॥

于是,以金刚为首的毗湿尼与安陀迦诸王子,以及那位伟大者的女眷,都行了献水之礼。

16.8.28

अलुप्तधर्मस्तं धर्मं कारयित्वा स फल्गुनः ।
जगाम वृष्णयो यत्र विनष्टा भरतर्षभ ॥ १६.८.२८ ॥

从不废弃职责的般度之弟法尔古那,主持完成那些仪式后,婆罗多的雄牛啊,前往毗湿尼族已灭亡之处。

16.8.29

स तान्दृष्ट्वा निपतितान्कदने भृशदुःखितः ।
बभूवातीव कौरव्यः प्राप्तकालं चकार ह ॥ १६.८.२९ ॥

看见他们在厮杀中倒下,那位俱卢族人极其悲痛,于是在适当的时候完成了应行之事。

16.8.30

यथाप्रधानतश्चैव चक्रे सर्वास्तथा क्रियाः ।
ये हता ब्रह्मशापेन मुसलैरेरकोद्भवैः ॥ १६.८.३० ॥

他依照尊卑次第,为所有那些因婆罗门的诅咒而死于由芦草所生的木杵之下的人,举行了一切应行的仪式。

16.8.31

ततो भगवतो देहं दृष्ट्वा शिष्यः प्रलप्य च ।
स्मृत्वा तद्वचनं सर्वं मोहशोकोपबृंहितः ॥ १६.८.३१ ॥

于是,见到尊者的遗体,弟子悲叹不已;回想起他所说的一切,心中充满迷惑与悲伤。

16.8.32

ततः शरीरे रामस्य वासुदेवस्य चोभयोः ।
अन्वीक्ष्य दाहयामास पुरुषैराप्तकारिभिः ॥ १६.८.३२ ॥

随后,他看着罗摩与婆苏提婆两人的遗体,命令可靠的仆人将他们火化。

16.8.33

स तेषां विधिवत्कृत्वा प्रेतकार्याणि पाण्डवः ।
सप्तमे दिवसे प्रायाद्रथमारुह्य सत्वरः ॥ १६.८.३३ ॥

般度之子依礼为他们举行了丧葬仪式,第七天便登上战车,迅速启程。

16.8.34

अश्वयुक्तै रथैश्चापि गोखरोष्ट्रयुतैरपि ।
स्त्रियस्ता वृष्णिवीराणां रुदन्त्यः शोककर्शिताः ॥ १६.८.३४ ॥

乘着马驾的战车,也乘着牛、驴、骆驼拉的车,毗湿尼英雄的那些女子哭泣着前行,被悲伤消瘦。

16.8.35

अनुजग्मुर्महात्मानं पाण्डुपुत्रं धनंजयम् ।
भृत्याश्चान्धकवृष्णीनां सादिनो रथिनश्च ये ॥ १६.८.३५ ॥

安陀迦与毗湿尼的仆从、骑兵与车兵,跟随般度之子大德的丹阁耶。

16.8.36

वीरहीना वृद्धबालाः पौरजानपदास्तथा ।
ययुस्ते परिवार्याथ कलत्रं पार्थशासनात् ॥ १६.८.३६ ॥

失去英雄的老人与孩童,以及城乡百姓,遵从阿周那的命令,簇拥着妇女们上路了。

16.8.37

कुञ्जरैश्च गजारोहा ययुः शैलनिर्भस्तथा ।
सपादरक्षैः संयुक्ताः सोत्तरायुधिका ययुः ॥ १६.८.३७ ॥

骑象的象师与如山的勇士出发了;由步兵护卫随行、身披上衣并携带武器的人也出发了。

16.8.38

पुत्राश्चान्धकवृष्णीनां सर्वे पार्थमनुव्रताः ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव महाधनाः ॥ १६.८.३८ ॥

安陀迦与伐瑞尼的所有儿子都追随阿周那;婆罗门、刹帝利、吠舍和首陀罗,也都极为富有。

16.8.39

दश षट् च सहस्राणि वासुदेवावरोधनम् ।
पुरस्कृत्य ययुर्वज्रं पौत्रं कृष्णस्य धीमतः ॥ १६.८.३९ ॥

婆素提婆内宫的一万六千名女子,以智者克里希那之孙缚阇罗居前,启程而去。

16.8.40

बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च ।
भोजवृष्ण्यन्धकस्त्रीणां हतनाथानि निर्ययुः ॥ १६.८.४० ॥

诸婆阇、伐瑞尼、安陀迦族的数以千、万、亿计的女子,其夫君已被杀,纷纷走出。

16.8.41

तत्सागरसमप्रख्यं वृष्णिचक्रं महर्द्धिमत् ।
उवाह रथिनांश्रेष्ठः पार्थः परपुरंजयः ॥ १६.८.४१ ॥

那如海洋般庞大、极其富足的伐瑞尼大众,由车战之首、攻克敌城者普利塔之子带领而去。

16.8.42

निर्याते तु जने तस्मिन्सागरो मकरालयः ।
द्वारकां रत्नसंपूर्णां जलेनाप्लावयत्तदा ॥ १६.८.४२ ॥

众人离去之后,海洋——摩羯之居所——便以海水淹没了充满珍宝的德瓦拉卡城。

16.8.43

यद्यद्धि पुरुषव्याघ्रो भूमेस्तस्या व्यमुञ्चत ।
तत्तत्संप्लावयामास सलिलेन स सागरः ॥ १६.८.४३ ॥

人中虎(阿周那)从那片土地上救出的一切,大海都用水淹没了。

16.8.44

तदद्भुतमभिप्रेक्ष्य द्वारकावासिनो जनाः ।
तूर्णात्तूर्णतरं जग्मुरहो दैवमिति ब्रुवन् ॥ १६.८.४४ ॥

居住在德瓦拉卡的人们见到这奇异景象,愈跑愈快,口中说道:“啊,这是天命!”

16.8.45

काननेषु च रम्येषु पर्वतेषु नदीषु च ।
निवसन्नानयामास वृष्णिदारान्धनंजयः ॥ १६.८.४५ ॥

财富征服者(阿周那)在美丽的森林、山岳和河流边安住,带领了维希尼族的妇女。

16.8.46

स पञ्चनदमासाद्य धीमानतिसमृद्धिमत् ।
देशे गोपशुधान्याढ्ये निवासमकरोत्प्रभुः ॥ १६.८.४६ ॥

那位智慧的主人到达五河之地,在这极其富饶、牛羊和谷物丰足的地区安家。

16.8.47

ततो लोभः समभवद्दस्यूनां निहतेश्वराः ।
दृष्ट्वा स्त्रियो नीयमानाः पार्थेनैकेन भारत ॥ १६.८.४७ ॥

婆罗多啊,那些首领已被杀死的强盗,见到只有一个人的贡提之子(阿周那)带走妇女,便生起了贪欲。

16.8.48

ततस्ते पापकर्माणो लोभोपहतचेतसः ।
आभीरा मन्त्रयामासुः समेत्याशुभदर्शनाः ॥ १६.८.४८ ॥

于是,心智被贪欲毁坏的那些作恶者、面貌不祥的阿比罗人聚在一起商议。

16.8.49

अयमेकोऽर्जुनो धन्वी वृद्धबालं हतेश्वरम् ।
नयत्यस्मानतिक्रम्य् योधाश्चेमे हतौजसः ॥ १६.८.४९ ॥

这位孤身的弓手阿周那正带走那些失去主君的老人与孩子;越过我们,这些战士已失去了力量。

16.8.50

ततो यष्टिप्रहरणा दस्यवस्ते सहस्रशः ।
अभ्यधावन्त वृष्णीनां तं जनं लोप्त्रहारिणः ॥ १६.८.५० ॥

于是那些持棍的盗贼成千上万地扑向那群vṛṣṇi族人;他们是劫掠财物的盗贼。

16.8.51

महता सिंहनादेन त्रासयन्तः पृथग्जनम् ।
अभिपेतुर्धनार्थं ते कालपर्यायचोदिताः ॥ १६.८.५१ ॥

以巨大的狮吼惊吓平民,为了财富而扑上去,被时运的轮转所驱使。

16.8.52

ततो निवृत्तः कौन्तेयः सहसा सपदानुगः ।
उवाच तान्महाबाहुरर्जुनः प्रहसन्निव ॥ १६.८.५२ ॥

于是贡蒂之子阿周那忽然转身,步兵随其后;那大臂者仿佛笑着对他们说。

16.8.53

निवर्तध्वमधर्मज्ञा यदि जीवितुमिच्छथ ।
इदानीं शरनिर्भिन्नाः शोचध्वं निहता मया ॥ १६.८.५३ ॥

若想活命,你们这些不知法的人,就回去吧;现在,被箭射穿、被我杀死,你们将会悲叹。

16.8.54

तथोक्तास्तेन वीरेणि कदर्तीकृत्य तद्वचः ।
अभिपेतुर्जनं मूढा वार्यमाणाः पुनःपुनः ॥ १६.८.५४ ॥

虽然那英雄这样说了,愚昧之人却轻视他的话,尽管一再被阻止,仍扑向那群人。

16.8.55

ततोऽर्जुनो धनुर्दिव्यं गाण्डीवमजरं महत् ।
कआरोपयितुमारेभे यत्नादिव कथञ्चन ॥ १६.८.५५ ॥

于是阿周那开始给神圣、不朽、巨大的甘狄拔弓上弦,仿佛勉强才能做到。

16.8.56

चकार सज्यं कृच्छ्रेणि सम्भ्रमे तुमुले सति ।
चिन्तयामास शस्त्राणि न च सस्मार तान्यपि ॥ १६.८.५६ ॥

在慌乱和喧嚣之中,他艰难地上了弦;他思索着武器,却怎么也想不起来。

16.8.57

वैकृतं तन्महद्दृष्ट्वा भुजवीर्य तथा युधि ।
दिव्यानां च महास्त्राणां विनाशाद्व्रीडितोऽभवत् ॥ १६.८.५७ ॥

看到自己臂力在战斗中的那种异常状态,以及神圣大兵器的毁灭,他感到羞愧。

16.8.58

वृष्णियोधाश्च ते सर्वे गजाश्वरथयोधिनः ।
न शेकुरावर्तयितुं ह्रियमाणं स्वकं धनम् ॥ १६.८.५८ ॥

所有的substring Vṛṣṇi武士、象兵、骑兵和车兵,都无法夺回正被抢走的自己的财富。

16.8.59

कलत्रस्य बहुत्वाद्धि सम्पतन्सु ततस्ततः ।
प्रयत्नमकरोत्पार्थो जनस्य परिरक्षणे ॥ १६.८.५९ ॥

由于女人众多,四处奔散,般度之子(阿周那)努力保护众人。

16.8.60

मिषतां सर्वयोधानां ततस्ताः प्रमदोत्तमाः ।
समन्ततोवकृष्यन्त कामाच्चान्याः प्रवव्रजुः ॥ १६.८.६० ॥

在所有武士注视之下,那些上好的女子被从四面拖拽而去;另有一些则出于自愿离去。

16.8.61

ततो गाण्डीवनिर्मुक्तैः शरैः पार्थो धनंजयः ।
जघान दस्यून्सोद्वेगो वृष्णिभृत्यैः सहस्रशः ॥ १६.८.६१ ॥

那时,普利塔之子达南阁耶以甘狄拔弓射出的箭,心怀忧愤,与韦利施尼的仆从一起杀死了成千上万的强盗。

16.8.62

क्षणेन तस्य ते राजन्क्षयं जग्मुरजिह्मगाः ।
अक्षया हि पुरा भूत्वा क्षीणाः क्षतजभोजनाः ॥ १६.८.६२ ॥

大王啊,那些直飞的箭在一刹那间便耗尽了;它们曾经取之不竭,却因以血为食而衰竭。

16.8.63

स शरक्षयमासाद्य दुःखशोकसमाहतः ।
धनुष्कोट्या तदा दस्यूनवधीत्पाकशासनिः ॥ १६.८.६३ ॥

箭已耗尽,被悲痛和忧伤所击中的因陀罗之子,便用弓的末端击杀了那些强盗。

16.8.64

प्रेक्षतस्त्वेव पार्थस्य वृष्ण्यन्धकवरस्त्रियः ।
जग्मुरादाय ते म्लेच्छाः समन्ताज्जनमेजय ॥ १६.८.६४ ॥

在普利塔之子眼前,janamejaya啊,那些蛮夷从四面八方抓走了韦利施尼与安陀迦族中最优秀的女子。

16.8.65

धनंजयस्तु दैवं तन्मनसाऽचिन्तयत्प्रभुः ।
दुःखसोकसमाविष्टो निःश्वासपरमोऽभवत् ॥ १६.८.६५ ॥

然而达南阁耶这位威猛者在心中思量着那命运;被悲痛与忧伤所笼罩的他,陷入了深深的叹息。

16.8.66

अस्त्राणां च प्रणाशेन बाहुवीर्यस्य च क्षयात् ।
धनुषश्चाविधेयत्वाच्छराणां संक्षयेण च ॥ १६.८.६६ ॥

因神兵的消失,因臂力的衰减,因弓不再听从驾驭,也因箭矢的耗尽——

16.8.67

बभूव विमनाः पार्थो दैवमित्युनुचिन्तयन् ।
न्यवर्तत ततो राजन्नेदमस्तीति चिन्तयन् ॥ १६.८.६७ ॥

阿周那心情沮丧,反复思量:“这是天命。”大王啊,于是他想着“剩下的就是这些”,便转身返回。

16.8.68

ततः शेषं समादाय कलत्रस्य महामतिः ।
हृतभूयिष्ठरत्नस्य कुरुक्षेत्रमवातरत् ॥ १६.८.६८ ॥

于是那位智慧的人,其大部分珍宝已被夺走,带着剩下的妇女,来到了俱卢之野。

16.8.69

युधिष्ठिरस्यानुमते वंशकर्तॄन्कुमारकान् ।
न्यवेशयत कौरव्यस्तत्रतत्र धनंजयः ॥ १६.८.६९ ॥

在坚战的同意下,俱卢族的财富征服者(Dhanaṃjaya)将延续世系的年轻王子安置在各处。

16.8.70

हार्दिक्यतनयं पार्थो नगरे मृत्तिकावते ।
अश्वपतिं खाण्डवारण्ये राज्ये तत्र न्येवशयत्।
भोजराजकलत्रं च हृतशेषं नरोत्तमः ॥ १६.८.७० ॥

阿周那将Hārdikya之子安置于Mṛttikāvatī城,将Aśvapati安置于Khāṇḍava林的王国;这位人中之最也将Bhoja王剩下的妻子安置在那里。

16.8.71

तथा वृद्धांश्च बालांश्च स्त्रियश्चादाय पाण्डवः ।
वीरैर्विहीनान्सर्वांस्ताञ्शक्रप्रस्थे न्यवेशयत् ॥ १६.८.७१ ॥

同样,般度之子带着老人、孩童和妇女,将那些失去英雄的人们全部安置在因陀罗补罗城。

16.8.72

यौयुधानिं सरस्वत्याः पुत्रं सात्यकिनः प्रियम् ।
न्यवेशयत धर्मात्मा वृद्धबालपुरस्कृतम् ॥ १६.८.७२ ॥

德行高尚者将Sātyaki之爱子、Sarasvatī之子Yauyudhāni安置于那里,并让老人和孩童居于前列。

16.8.73

इन्द्रप्रस्थे ददौ राज्यं व्रज्राय परवीरहा ।
वज्रेणाक्रूरदारास्तु वार्यमाणाः प्रवव्रजुः ॥ १६.८.७३ ॥

摧毁敌方英雄者将因陀罗补罗的王国交给了伐吉罗。尽管被阻拦,阿克鲁罗的妻子们仍随伐吉罗离去。

16.8.74

रुक्मिणी त्वथ गान्धारी शैब्दा हैमवतीत्यपि ।
देवी जींबवती चैव विविशुर्जातवेदसम् ॥ १६.८.७४ ॥

鲁克弥尼、甘陀利、舍婆耶、海玛瓦蒂,以及王后遮槃婆蒂,也都走入了火中。

16.8.75

सत्यभामा तथैवान्या देव्यः कृष्णस्य सम्मताः ।
वनं प्रविविशू राजंस्तापस्ये कृतनिश्चयाः ॥ १६.८.७५ ॥

萨提亚婆玛及其他受黑天尊重的王后,大王啊,立志修行苦行,走入了森林。

16.8.76

द्वारकावासिनो ये पुरुषाः पार्थमभ्ययुः ।
यथार्हं संविभज्यैनान्वज्रे पर्यददज्जयः ॥ १६.८.७६ ॥

前来见帕尔塔的杜瓦拉卡男子,被胜者(阿周那)按礼分配后交给了伐吉罗。

16.8.77

स तत्कृत्वा प्राप्तकालं बाष्णेणापिहितोऽर्जुनः ।
कृष्णद्वैपायनं व्यासं ददर्शासीनमाश्रमे ॥ १६.८.७७ ॥

他做完此事,到了约定的时刻,阿周那被泪水哽咽,看见毗耶娑·克里希那·二叠衍那坐在修道院中。