摩诃婆罗多 · 章 16.9
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
16.9.1
प्रविश्य त्वर्जुनो राजन्नाश्रमं सत्यवादिनः ।
ददर्शासीनमेकान्तो मुनिं सत्यवतीसुतम् ॥ १६.९.१ ॥
国王啊,阿周那进入说真话者的修行处,看见独坐的萨蒂亚瓦蒂之子仙人。
16.9.2
स तमासाद्य धर्मज्ञमुपतस्थे महाव्रतम् ।
अर्जुनोस्मीति नामास्तै निवेद्याभ्यवदत्ततः ॥ १६.९.२ ॥
他走近通达法义的大持戒者,站立在前,报上名字说:“我是阿周那”,然后开口说话。
16.9.3
स्वागतं तेऽस्त्विति प्राह मुनिः सत्यवतीसुतः ।
आस्यतामिति होवाच प्रसन्नात्मा महामुनिः ॥ १६.९.३ ॥
萨蒂亚瓦蒂之子仙人说:“欢迎你。”心情平和的大仙人说:“请坐。”
16.9.4
तमप्रतीतमनसं निःश्वसन्तं पुनःपुनः ।
निर्विष्णमनसं दृष्ट्वा पार्थं व्यासोऽब्रवीदिदम् ॥ १६.९.४ ॥
毗耶娑看见普利塔之子心神不宁、一再叹息、意志消沉,便说了这些话。
16.9.5
नखकेशदशाकुंभवारिणा किं समुक्षितः ।
आवीरजानुगमनं ब्राह्मणो वा हतस्त्वया ॥ १६.९.५ ॥
你是否被指甲、头发和十器之瓶的水所洒?你是否到了英雄的膝前,还是杀了婆罗门?
16.9.6
युद्धे पराजितो वाऽसि दतश्रीरिव लक्ष्यसे ।
न त्वां प्रभिन्नं जानामि किमिदं भरतर्षभ।
श्रोतव्यं चेन्मया पार्थ क्षश्रिप्रमाख्यातुमर्हसि ॥ १६.९.६ ॥
你是在战斗中被打败了吗?你看起来失去了光彩。我并不知道你已经崩溃。婆罗多之杰啊,这是怎么回事?普利塔之子啊,若我应当听闻,请快快告诉我。
16.9.7
यः स मेघवपुः श्रीमान्बृहत्पङ्कजलोचनः ।
स कृष्णः सह रामेण त्यक्त्वा देहं दिवं गतः ॥ १६.९.७ ॥
那位身如云朵、光辉灿烂、眼如大莲花的黑天,与罗摩一同舍弃肉身,升往天界。
16.9.8
तदनुस्मृत्य संमोहं तदा शोकं महामते ।
प्रयामि सर्वदा मह्यं मुमूर्षा चोपजायते ॥ १६.९.८ ॥
每当想起此事,啊,大智者,我便陷入迷惘与悲痛,并且总生起求死之念。
16.9.9
तद्वाक्यस्पर्शनालोकसुखं चामृतसन्निभम् ।
संस्मृत्य देवदेवस्य प्रमुह्यित्यमृतात्मनः
भवितव्यं तथा तच्च दिष्टमेतन्महात्मनाम् ।
उपेक्षितं च कृष्णेन शक्तेनापि व्यपोहितुम् ॥ १६.९.९ ॥
他的言语、触碰与容貌带来的喜悦如同甘露;每当忆起神中之神、不死之灵,我便迷惑。该发生的已经发生;这正是大人物的命运,黑天虽有能力,却任其发生而不阻止。
16.9.10
मौसले वृष्णिवीराणां विनाशो ब्रह्मशापजः ।
बभूव वीरान्तकरः प्रभासे रोमहर्षणः ॥ १६.९.१० ॥
在木杵之事中,因婆罗门的诅咒而生的伐里尼英雄们的毁灭降临了;那使英雄终结、令人毛骨悚然的劫难发生在普拉巴萨。
16.9.11
एते शूरा महात्मानः सिंहदर्पा महाबलाः ।
भोजवृष्ण्यन्धका ब्रह्मन्नन्योन्यं तैर्हतं युधि ॥ १६.९.११ ॥
这些英雄,伟大的灵魂,骄傲如狮子,力量强大——婆阇、伐里尼与安陀迦,啊婆罗门,他们在战斗中彼此杀害。
16.9.12
गदापरिघशक्तीनां सहाः परिघबाहवः ।
त एरकाभिर्निहताः पश्य कालस्य पर्ययम् ॥ १६.९.१२ ॥
那些能挥舞铁棒、铁杵与长枪、臂如铁杵的人,却被芦苇杆所杀。看吧,时间的轮转!
16.9.13
हतं पञ्चशतं तेषां सहस्रं बाहुशालिनाम् ।
निधनं समनुप्राप्तं समासाद्येतरेतरम् ॥ १६.९.१३ ॥
五百与千名臂力强大的勇士被杀;他们彼此相遇厮杀,于是走向死亡。
16.9.14
पुनःपुनर्न मृष्यामि विनाशममितौजसाम् ।
चिन्तयानो यदूनां च कृष्णस्य च यशस्विनः ॥ १६.९.१४ ॥
想到夜度族与荣耀的黑天,我一再无法忍受这些力量无限者的毁灭。
16.9.15
शोषणं सागरस्येव मन्दरस्येव चालनम् ।
नभसः पतनं चैव शैत्यमग्नेस्तथैव च ॥ १६.९.१५ ॥
大海干涸、曼陀罗山摇动、天空坠落、火焰变冷——仿佛这一切正在发生。
16.9.16
अश्रद्धेयमहं मन्ये विनाशं शार्ङ्गधन्वनः ।
न चेह स्थातुमिच्छामि लोके कृष्णविनाकृतः ॥ १६.९.१६ ॥
我认为执沙伽弓的(黑天)的毁灭难以置信;没有黑天,我不愿留在这世上。
16.9.17
इतः कष्टतरं चान्यच्छृणु तद्वै तपोधन ।
मनो मे दीर्यते येन चिन्तयानस्य वै मुहुः ॥ १६.९.१७ ॥
啊,苦行的宝藏,请听另一件比这更痛苦的事;我思念它时,心便一再碎裂。
16.9.18
पश्यतो वृष्णिदाराश्च मम ब्रह्मन्सहस्रशः ।
आभीरैरभिभूयाजौ हृताः पञ्चनदालयैः ॥ १६.९.१८ ॥
婆罗门啊,在我眼前,五河地区的阿比罗人在战斗中击败了我,掳走了成千上万的伐里氏妇女。
16.9.19
धनुरादाय तत्राहं नाशकं तस्य पूरणे ।
यथापुरा च मे वीर्यं भुजयोर्न तथाऽभवत् ॥ १६.९.१९ ॥
我虽然拿起了弓,却无法在那里将它拉上弦。我双臂的力量已不像从前那样了。
16.9.20
अस्त्राणि मे प्रनष्टानि विविधानि महामुने ।
शराश्च क्षयमापन्नाः क्षणेनैव समन्ततः ॥ १६.९.२० ॥
大仙啊,我的各种兵器都已失去,箭矢也在一瞬间从四面八方耗尽了。
16.9.21
पुरुषस्चाप्रमेयात्मा शङ्खचक्रगदाधरः ।
चतुर्भुजः पीतवासाः श्यामः पद्मदलेक्षणः ॥ १६.९.२१ ॥
那位不可限量之自我的人,手持螺号、轮盘与铁杵,四臂,身着黄衣,肤色深黑,双眼如莲花瓣。
16.9.22
यश्च याति पुरस्तान्मे रथस्य सुमहाद्युतिः ।
प्रदहन्रिपुसैन्यानि न पश्याम्यहमद्य तम् ॥ १६.९.२२ ॥
那位光辉极盛、走在我战车之前、焚烧敌军的人,今天我已看不见他了。
16.9.23
येन पूर्वं प्रदग्धानि शत्रुसैन्यानि तेजसा ।
शरैर्गाण्डीवनिर्मुक्तैरहं पश्चादशातयम् ॥ १६.९.२३ ॥
敌军先前因他的光辉而被焚毁,之后我以从甘狄瓦弓射出的箭将他们射倒。
16.9.24
तमपश्यन्विषीदामि घूर्णामीव च सत्तम ।
परिनिर्विण्णचेताश्च शान्तिं नोपलभेऽपि च ॥ १६.९.२४ ॥
善人中最优秀者啊,见不到他,我便沮丧倒下,如同旋转般眩晕;心志彻底低落,我连平静也寻不到。
16.9.25
देवकीनन्दनं देवं वासुदेवमजं प्रभुम् ।
विना जनार्दनं वीरं नाहं जीवितुमुत्सहे ॥ १६.९.२५ ॥
没有英雄生主、天神婆苏提婆之子、不生之主遮那檀那,我不愿独自活下去。
16.9.26
श्रुत्वैव हि गतं विष्णुं ममापि मुमुहुर्दिशः ।
प्रनष्टज्ञातिवीर्यस्य शून्यस्य परिधावतः ॥ १६.९.२६ ॥
一听说毗湿奴已离去,我的四方也都迷惑了。失去亲族与力量的我,空虚地四处奔走。
16.9.27
उपदेष्टुं मम श्रेयो भवानर्हति सत्तम ॥ १६.९.२७ ॥
善人中最优秀者啊,您有资格教导我何为善。
16.9.28
देवांशा देवभूतेन सम्भूतास्ते गतास्सह ।
धर्मव्यवस्थारक्षार्थं देवेन समुपेक्षिताः ॥ १६.९.२८ ॥
为护持法度而由神化身降生的诸天神之分身,已与他一同离去;神舍弃了他们。
16.9.29
ब्रह्मशापविनिर्दग्धा वृष्ण्यन्धकसमहारथाः ।
विनष्टाः कुरुशार्दूल न ताञ्शोचितुमर्हसि ॥ १६.९.२९ ॥
被婆罗门的诅咒焚尽,毗利什尼与安陀迦的大战车武士已经灭亡。库鲁中的猛虎啊,你不应为他们悲伤。
16.9.31
त्रैलोक्यमपि गोविन्दः कृत्स्नं स्थावरजङ्गमम् ।
प्रसहेदन्यथा कर्तुं कुतः शापं महात्मनाम् ॥ १६.९.३१ ॥
哥文达甚至能改变整个三界、动与不动的一切,那么又怎能不能改变大德者的诅咒呢?
16.9.32
स्त्रियश्च ताः पुरा शप्ताः प्रभासे कुपितेन वै ।
अष्टावक्रेण मुनिना तदर्थं त्वद्बलक्षयम् ॥ १६.९.३२ ॥
往昔在普拉巴萨,愤怒的仙人八曲(Aṣṭāvakra)诅咒了那些女子,因此你的力量被摧毁了。
16.9.33
रथस्य पुरतो याति यः स चक्रगदाधरः ।
तव स्नेहात्पुराणर्षिर्वासुदेवश्चतुर्भुजः ॥ १६.९.३३ ॥
走在战车前方、手持轮与杵的,便是古老的仙人四臂婆苏提婆(Vāsudeva);出于对你的爱,他才如此。
16.9.34
कृत्वा भारावतरणं पृथिव्याः पृथुलोचनः ।
मोक्षयित्वा तनुं प्राप्तः कृष्णः स्वस्थानमुत्तमम् ॥ १६.९.३४ ॥
广目的黑天减轻了大地的负担,舍弃肉身后,回到了自己至高的住所。
16.9.35
त्वयाऽपीह महत्कर्म देवानां पुरुषर्षभ ।
कृतं भीमसहायेन यमाभ्यां च महाभुज ॥ १६.९.३५ ॥
人中之牛,大臂者!你也在此完成了诸神的伟大功业,有怖军相助,并与两位双生者(无种)同在。
16.9.36
कृतकृत्यांश्च वो मन्ये संसिद्धान्कुरुपुङ्गव ।
गमनं प्राप्तकालं व इदं श्रेयस्करं विभो ॥ १६.९.३६ ॥
库鲁之牛啊,我认为你们的职责已经完成,你们已臻圆满;你们离去的时候已到,啊大能者,这对你们是有益的。
16.9.37
बलं बुद्धिश्च तेजश्च प्रतिपत्तिश्च भारत ।
भवन्ति भवकालेषु विपद्यन्ते विपर्यये ॥ १६.९.३७ ॥
力量、智慧、光辉与决断,啊婆罗多,在兴盛之时产生,在逆转之时消亡。
16.9.38
कालमूलमिदं सर्वं जगद्बीजं धनंजय ।
काल एव समादत्ते पुनरेव यदृच्छया ॥ १६.९.३८ ॥
达难阇耶啊,这整个世界以时间为根,时间是世界的种子。时间自己依其自然之道,再度将一切收回。
16.9.39
स एव बलवान्भूत्वा पुनर्भवति दुर्बलः ।
स एवेशश्च भूत्वेह परैराज्ञाप्यते पुनः ॥ १६.९.३९ ॥
同一个人,变得强大之后,又会变得衰弱;同一个人,在此成为主宰之后,又会被他人所command。
16.9.40
कृतकृत्यानि चास्त्राणि गतान्यद्य यथागतम् ।
पुनरेष्यन्ति ते हस्तं यदा कालो भविष्यति ॥ १६.९.४० ॥
已完成使命的兵器,今日已返回它们来时之处;时机到来时,它们将再回到你的手中。
16.9.41
कालो गन्तुं गतिं मुख्यां भवतामपि भारत ।
एतच्छ्रेयो हि वो मन्ये परमं भरतर्षभ ॥ १६.९.४१ ॥
婆罗多啊,你们也到了走上至高之路的时候了。婆罗多族的雄牛啊,我认为这才是你们最高的福祉。
16.9.42
एतद्वचनमाज्ञाय व्यासस्यामिततेजसः ।
अनुज्ञातो ययौ पार्थो नगरं नागसाह्वयम् ॥ १६.९.४२ ॥
领悟了无限光辉的毗耶娑的这些话语,得到他的允许后,阿周那前往名为那伽萨呼亚的城市。
16.9.43
प्रविश्य च पुरीं वीरः समासाद्य युधिष्ठिरम् ।
आचष्ट तद्यथावृत्तं वृष्ण्यन्धककुलं प्रति ॥ १६.९.४३ ॥
这位英雄进入城中,来到坚战面前,把关于毗卢尼与安陀迦族所发生的一切,原原本本地讲述了一遍。