Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 17.1

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

17.1.1

नारायणं नमस्कृत्यि नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्
एवं वृष्ण्यन्धककुले श्रुत्वा मौसलमाहवम् ।
पाण्डवाः किमकुर्वन्त तथा कृष्णे दिवं गते ॥ १७.१.१ ॥

向那罗延和最优之人那罗、女神萨罗室伐蒂及毗耶娑致敬之后,应当诵念胜利之歌。听闻在婆利史尼与安陀迦族中发生的木杵之战后,克里希纳升天,般度五子又做了什么?

17.1.2

श्रुत्वैवं कौरवो राजा वृष्णीनां कदनं महत् ।
प्रस्थाने मतिमाधाय वाक्यमर्जुनमब्रवीत् ॥ १७.१.२ ॥

听闻婆利史尼族的这场大灾难后,俱卢王决意启程,对阿周那说了这番话。

17.1.3

कालः पचति भतानि सर्वाण्येव महामते ।
कालपाशमहं मन्ये त्वमपि द्रष्टुमर्हसि ॥ १७.१.३ ॥

啊,大智者,时间确实使一切众生成熟。我认为时间之索(至高无上),你也应当看见它。

17.1.4

इत्युक्तः स तु कौन्तेयः कालः काल इति ब्रुवन् ।
अन्वपद्यत तद्वाक्यं भ्रातुर्ज्येष्ठस्य धीमतः ॥ १७.१.४ ॥

俱紧提的儿子听了这番话,连声说“时间,时间”,便接受了他智慧的长兄所说的话。

17.1.5

अर्जुनस्य मतं ज्ञात्वा भीमसेनो यमौ तथा ।
अन्वपद्यन्त तद्वाक्यं यदुक्तं सव्यसाचिना ॥ १७.१.५ ॥

得知阿周那的意见后,毗摩那和双生子也都接受了萨维亚萨钦(阿周那)所说的话。

17.1.6

ततो युयुत्सुमानाय्य प्रव्रजन्धर्मकाम्यया ।
राज्यं परिददौ सर्वं वैश्यापुत्रे युधिष्ठिरः ॥ १७.१.६ ॥

于是,坚战召来渊琉苏,出于对法的渴望而出家,把整个王国交给了吠舍女所生之子。

17.1.7

अभिंषिच्य स्वराज्ये च राजानं च परिक्षितम् ।
दुःखार्तश्चाब्रवीद्राजा सुभद्रां पाण्डवाग्रजः ॥ १७.१.७ ॥

在自己的王国中为帕里克希特加冕之后,般度诸子之长、为悲痛所苦的国王对苏跋陀罗说道。

17.1.8

एष पुत्रस्य पुत्रस्ते कुरुराजो भविष्यति ।
यदूनां परिशेषश्च वज्रो राजा कृतश्च ह ॥ १७.१.८ ॥

这位是你儿子的儿子,将成为俱卢族之王;而耶杜族的残余者金刚也已被立为王。

17.1.9

परिक्षिद्धास्तिनपुरे शक्रप्रस्थे च यादवः ।
वज्रो राजा त्वया रक्ष्यो मा चाधर्मे मनः कृथाः ॥ १७.१.९ ॥

帕里克希特住在象城,耶杜族的金刚住在因陀罗城。国王金刚须由你保护;不可将心思放在不义之事上。

17.1.10

इत्युक्त्वा धर्मराजाः स वासुदेवस्य धीमतः ।
मातुलस्य च वृद्धस्य रामदीनां तथैव च ॥ १७.१.१० ॥

说完这些,法王也同样为智慧的婆苏提婆、年迈的舅父以及罗摩等人做了安排。

17.1.11

भ्रातृभिः सह धर्मात्मा कृत्वोदकमतन्द्रितः ।
श्राद्धान्यद्दिश्य सर्वेषां चकार विदिवत्तदा ॥ १७.१.११ ॥

正义的国王与兄弟们一起不知疲倦地奉献水供,然后为所有人举行了如法的祭祀仪式(śrāddha)。

17.1.12

द्वैपायनं नारदं च मार्कण्डेयं तपोधनम् ।
भारद्वाजं याज्ञवल्क्यं हरिमुद्दिश्य यत्नवान्।
अभोजयत्स्वादु भोज्यं कीर्तयित्वा च शार्ङ्गिणं ॥ १७.१.१२ ॥

他以此供养献给毗耶娑、那罗陀、以苦行为财富的摩根德耶、婆罗堕阇、耶若婆佉以及哈里,殷勤地用美味的食物款待他们,并赞颂了持弓的克里希那。

17.1.13

ददौ रत्नानि वासांसि ग्रामानश्वान्रथांस्तथा ।
स्त्रियश्च द्विजमुख्येभ्यस्तदा शतसहस्रशः ॥ १७.१.१३ ॥

当时,他成百上千地将珠宝、衣物、村庄、马匹、战车以及女子赠予再生者中的最优秀者。

17.1.14

कृपमभ्यर्च्य च गुरुमथ पौरपुरस्कृतम् ।
आहूय भरतश्रेष्ठ संनिवेश्यासने तदा।
शिष्यं परिक्षितं तस्मै तदौ भरतसत्तमः ॥ १७.१.१४ ॥

他敬奉了被市民推举在前的克里帕,并召请他的老师,啊,婆罗多中最优秀的人,让他坐在座位上,然后婆罗多中最优秀的人便把弟子帕里克希特交给了他。

17.1.15

ततस्तु प्रकृतीः सर्वाः समानाय्य युधिष्ठिरः ।
सर्वमाचष्ट राजर्षिकीर्षितमथात्मनः ॥ १७.१.१५ ॥

然后,坚战召集所有臣民,宣布了王仙关于自身的全部打算。

17.1.16

ते श्रुत्वैव वचस्तस्य पौरजानपदा जनाः ।
भृशमुद्विग्रमनसो नाभ्यनन्दन्त तद्वचः ॥ १७.१.१६ ॥

城乡百姓一听到他的话,心中极为不安,便不赞同他的这番言辞。

17.1.17

नैवं कर्तव्यमिति ते तदोचुस्तं जनाधिपम् ।
न च राजा तथाऽकार्षीत्कालपर्यायधर्मिवित् ॥ १७.१.१७ ॥

他们当时对那位人主说:“不可这样做。”然而国王并未如此行事,因为他通晓时序更替之法。

17.1.18

ततोऽनुमान्य धर्मात्मा पौरजानपदं जनम् ।
गमनाय मतिं चक्रे कृष्णस्य गमनादपि ॥ १७.१.१८ ॥

于是,这位法魂安抚了城乡的百姓,决意随着克里希那的启程也一同出发。

17.1.19

वर्तमाने विवादे तु वास्तुविक्रयिणं प्रति ।
धनेच्छा युगपत्प्राप्ता क्षेत्रतस्वामिभूभृताम् ॥ १७.१.१९ ॥

在与卖地者的争端仍在进行之际,土地的主人与君王同时生出了求财之念。

17.1.20

प्राप्तं कलियुगं ज्ञात्वा सहदेवो हसन्निव ।
राज्ञस्तु कथयामास धर्मो नष्टस्तु सङ्करः ॥ १७.१.२० ॥

得知迦利时代已至,偕提婆如含笑之态对国王说:法已毁灭,种姓混杂已生。

17.1.21

श्रुत्वा तु दुर्मना राजा पर्याप्तं जीवनं मम ।
इति स्म राजा कौरव्यो धर्मपुत्रो युधिष्ठिरः।
उत्सृज्याभरणान्यङ्गाज्जगृहे वल्कलान्युत ॥ १७.१.२१ ॥

国王闻言心中忧伤,说:“我的生命已经足够了。”于是俱卢王、法之子坚战解去身上的饰物,穿上了树皮衣。

17.1.22

भीमार्जुनयमाश्चैव द्रौपदी च यशस्विनी ।
तथैव जगृहुः सर्वे वल्कलानि नराधिप ॥ १७.१.२२ ॥

怖军、阿周那、双生子以及荣耀的德罗波蒂同样都穿上了树皮衣,人主啊!

17.1.23

विधिवत्कारयित्वेष्टिं नैष्ठिकीं भरतर्षभ ।
समुत्सृज्याप्सु सर्वेऽग्नीन्प्रतस्थुर्नरपुङ्गवाः ॥ १७.१.२३ ॥

婆罗多之雄啊!依礼举行了最后的祭祀后,众人杰将圣火投入水中,随即启程。

17.1.24

ततः प्ररुरुदुः सर्वाः स्त्रिंयो दृष्ट्वा नरोत्तमान् ।
प्रस्थितान्द्रौपदीषष्ठान्पुरा द्यूतजितान्यथा ॥ १७.१.२४ ॥

此时众妇女见最优秀的人们与德罗波蒂为第六人一同启程,便放声痛哭,正如往昔他们在骰局中落败而离去时一样。

17.1.25

हर्षोऽभवच्च सर्वेषां भ्रातॄणां गमनं प्रति ।
युधिष्ठिरमतं ज्ञात्वा वृष्णिक्षयमवेक्ष्य च। ॥ १७.१.२५ ॥

众兄弟得知坚战的决定,又见到了筏里施族的毁灭,对于出发都感到欢喜。

17.1.26

भ्रातरः पञ्च कृष्णा च षष्ठी श्वा चैव सप्तमः ।
आत्मना सप्तमो राजा निर्ययौ गजसाह्वयात्।
पौरैरनुगतो दूरं सर्वैरन्तःपुरैस्तथा ॥ १७.१.२६ ॥

五位兄弟,第六是黑公主(德罗波蒂),第七是一只狗;第七位即国王本人从象城出发。城民和全部后宫之人一直远远地跟随送行。

17.1.27

न चैनमशकत्कश्चिन्निवर्तस्वेति भाषितुम् ।
न्यवर्तन्त ततः सर्वे नरा नगरवासिनः ॥ १७.१.२७ ॥

没有人能对他说“请回去吧”。于是城中的人全都转身回去了。

17.1.28

कृपप्रभृतयश्चैव युयुत्सुं पर्यवारयन् ।
विवेश गङ्गां कौरव्य उलूपी भुजगात्मजा ॥ १७.१.२८ ॥

克利帕等人围住了悉陀。啊,俱卢子孙,蛇女乌卢比走入了恒河。

17.1.29

चित्राङ्गदा ययौ चापि मणलूरपुरं प्रति ।
शिष्टाः परिक्षितं त्वन्या मातरः पर्यवारयन् ॥ १७.१.२९ ॥

奇特兰伽达也前往摩尼卢罗城;其余的母亲和其他妇女则围绕着帕利克希特。

17.1.30

पाण्डवाश्च महात्मानो द्रौपदी च यशस्विनी ।
कृतोपवासाः कौरव्य प्रययुः प्राङ्मुखास्ततः ॥ १७.१.३० ॥

于是,大心的般度子孙与名声显赫的黑公主禁食之后,面向东方出发了,啊,俱卢子孙。

17.1.31

योगयुक्ता महात्मानस्त्यागधर्ममुपेयुषः ।
अभिजग्मुर्बहून्देसान्सरितः सागरांस्तथा ॥ १७.१.३१ ॥

那些在瑜伽中安住、奉行舍弃法的大心者,穿越了许多国土、河流与大海。

17.1.32

युधिष्ठिरो ययावग्रे भीमस्तु तदनन्तरम् ।
अर्जुनस्तस्य चान्वेव यमौ चापि यथाक्रमम ॥ १७.१.३२ ॥

坚战走在前面,随后是怖军;阿周那跟在他身后,双生子也依次跟随。

17.1.33

पृष्ठतस्तु वरारोहा श्यामा पद्मदलेक्षणा ।
द्रौपदी योषितांश्रेष्ठा ययौ भरतसत्तम। ॥ १७.१.३३ ॥

身后走着德劳帕蒂,腰肢纤美、肤色黝黑、眼如莲瓣,是众女之中最优秀的,啊,婆罗多族之最。

17.1.34

श्वा चैवानुयायावेकः प्रस्थितान्पाण्डवान्वनम् ।
क्रमेणि ते ययुर्वीरा लौहित्यं सलिलार्णवम् ॥ १७.१.३४ ॥

一只狗也跟随着那些前往森林的般度五子;英雄们依次抵达了劳希蒂亚河与水之大海。

17.1.35

गाण्डीवं तु धनुर्दिव्यं न मुमोच धनंजयः ।
रत्नलोभान्महाराज ते चाक्षय्ये महेषुधी ॥ १७.१.३५ ॥

然而阿周那没有放下神圣的甘狄拔弓。大王啊,因贪恋宝物,他也没有舍弃那两个取之不竭的大箭袋。

17.1.36

अग्निं ते ददृशुस्तत्र स्थितं शैलमिवाग्रतः ।
मार्गमावृत्य तिष्ठन्तं साक्षात्पुरुषविग्रहम् ॥ १७.१.३६ ॥

他们在那里看见阿耆尼站在面前,如同山峰一般,挡住了道路,以显现的人形在场。

17.1.37

ततो देवः स सप्तार्चिः पाण्डवानिदमब्रवीत् ।
भोभो पाण्डुसुता वीराः पावकं मां निबोधत ॥ १७.१.३७ ॥

于是七焰之神对般度之子们说:啊,般度的英雄之子们,请听我这火神之言。

17.1.38

युधिष्ठिर महाबाहो भीमसेन परंतप ।
अर्जुनाश्विसुतौ वीरौ निबोधत वचो मम ॥ १७.१.३८ ॥

啊,大臂的坚战,焚敌者怖军,阿周那,阿输二神的英雄之子们,请听我的话。

17.1.39

अहमग्निः कुरुश्रेष्ठा मया दग्धं च खाण्डवम् ।
अर्जुनस्य प्रभावेन तथा नारायणस्य च ॥ १७.१.३९ ॥

众库卢之最啊,我就是火神。借阿周那之力,也借那罗延之力,我焚烧了甘陀婆林。

17.1.40

अयं वः फल्गुनो भ्राता गाण्डीवं परमायुधम् ।
परित्यज्य वने यातु नानेनार्थोस्ति कश्चन ॥ १७.१.४० ॥

这位是你们的兄弟法尔古那(阿周那),而甘狄拔是至高的武器。让他放下它,前往森林吧;你们已不再需要它了。

17.1.41

चक्ररत्नं तु यत्कृष्णे स्थितमासीन्महात्मनि ।
गतं तच्च पुनर्हस्ते कालेनैष्यति तस्य ह ॥ १७.१.४१ ॥

曾停留在大我克里希那身上的轮宝已经离去;时候到了,它将重回他的手中。

17.1.42

वरुणादाहृतं पूर्वं मयैतत्पार्थकारणात् ।
गाण्डीवं धनुषां श्रेष्ठं वरुणायैव दीयताम् ॥ १७.१.४२ ॥

往昔为了般度之子,我从婆楼那处取来此物。请将弓中最胜的甘狄拔归还给婆楼那本人。

17.1.43

ततस्ते भ्रातरः सर्वे धनंजयमचोदयन् ।
स जले प्राक्षिपच्चैतत्तथाऽक्षय्ये महेषुधी ॥ १७.१.४३ ॥

于是诸兄弟都催促达难闍耶。他把此物以及两个取之不尽的大箭囊投入水中。

17.1.44

ततोऽग्निर्भरतश्रेष्ठ तत्रैवान्तरधीयत ।
ययुस्च पाण्डवा वीरास्ततस्ते दक्षिणामुखाः ॥ १७.१.४४ ॥

婆罗多中的最优者啊,火神就在那里消失了。英勇的般度五子面向南方出发了。

17.1.45

ततस्ते तूत्तरेणैव तीरेण लवणांभसः ।
जग्मुर्भरतशार्दूल दिशं दक्षिणपश्चिमाम् ॥ १७.१.४५ ॥

随后他们沿着咸海的北岸,婆罗多中的猛虎啊,向西南方向前行。

17.1.46

ततः पुनः समावृत्ताः पश्चिमां दिशमेव ते ।
ददृशुर्द्वारकां चापि सागरेण परिप्लुताम् ॥ १७.१.४६ ॥

随后他们再次转向西方,也看到了被大海淹没的德瓦拉卡。

17.1.47

उदीचीं पुनरावृत्त्य ययुर्भरतसत्तमाः ।
प्रादक्षिण्यं चिकीर्षन्तः पृथिव्या योगधर्मिणः ॥ १७.१.४७ ॥

他们再次转向北方,婆罗多中的最优者们继续前行,想要绕行大地,遵行瑜伽法。