Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 17.2

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

17.2.1

ततस्ते नियतात्मान उदीचीं दिशमास्थिताः ।
ददृशुर्योगयुक्ताश्च हिमवन्तं महागिरिम् ॥ १७.२.१ ॥

于是他们克制自身,朝北方前行,专注于瑜伽,看见了大山喜马拉雅(Himavant)。

17.2.2

तं चाप्यतिक्रमन्तस्ते ददृशुर्वालुकार्णवम् ।
अवैक्षन्त महाशैलं मेरुं शिखरिणां वरम् ॥ १७.२.२ ॥

越过它时,他们看见了沙海,又看见了大山弥卢(Meru),那是诸峰之中最殊胜的。

17.2.3

तेषां तु गच्छतां शीघ्रं सर्वेषां योगधार्मिणाम् ।
याज्ञसेनी भ्रष्टयोगा निपपात महीतले ॥ १७.२.३ ॥

然而,在那些疾行的修习瑜伽与法的人们之中,耶祇塞尼(德罗波蒂)失去了瑜伽,倒卧于大地之上。

17.2.4

तां तु प्रपतितां दृष्ट्वा भीमसेनो महाबलः ।
उवाच धर्मराजानं याज्ञसेनीमवेक्ष्य ह ॥ १७.२.४ ॥

大力的婆罗多之子怖军(Bhīmasena)见她倒下,望着耶祇塞尼,对法王说道。

17.2.5

नाधर्मश्चरितः कश्चिद्राजपुत्र्या परंतप ।
कारणं किंनु तद्ब्रूहि यत्कृष्णा पतिता भुवि ॥ १७.२.५ ॥

啊,克敌者!这位王女并未行任何不义,那么原因何在?请告诉我,为何黑天女(Kṛṣṇā)倒在了地上。

17.2.6

पक्षपातो महानस्या विशेषेण धनंजये ।
तस्यैतत्फलमद्यैषा भुङ्क्ते पुरुषसत्तम ॥ १७.२.६ ॥

她对财胜(Dhanaṃjaya,阿周那)特别有着很大的偏爱。啊,人中最杰出者!她如今所受的,正是那偏爱的果报。

17.2.7

एवमुक्त्वाऽनवेक्ष्यैनां ययौ भरतसत्तमः ।
समाधाय मनो धीमान्धर्मात्मा पुरुषर्षभः ॥ १७.२.७ ॥

说完这话,他没有回头看她一眼,婆罗多族中最优秀的、智慧的、心怀正法的人中之牛,收敛心神,继续前行。

17.2.8

सहदेवस्ततो विद्वान्निपपात महीतले ।
तं चापि पतितं दृष्ट्वा भीमो राजानमब्रवीत् ॥ १७.२.८ ॥

那时,博学的萨诃提婆倒在地上。毗摩看到他也倒下了,便对国王说。

17.2.9

योऽयमस्मासु सर्वेषु शुश्रूषुरनहंकृतः ।
सोयं माद्रवतीपुत्रः कस्मान्निपतितो भुवि ॥ १७.२.९ ॥

我们之中最恭敬侍奉、毫无傲慢的这位玛德丽之子,为何倒在了地上?

17.2.10

आत्मनः सदृशं प्राज्ञं नैषोऽमन्यत कञ्चन ।
तेन दोषेण पतितो विद्वानेष नृपात्मजः ॥ १७.२.१० ॥

他从不认为有谁的智慧与自己相等。正因这一过错,这位博学的王子倒下了。

17.2.11

इत्युक्त्वा तं समुत्सृज्य सहदेवं ययौ तदा ।
भ्रातृभिः सह कौन्तेयः शुना चैव युधिष्ठिरः ॥ १७.२.११ ॥

说完这些,抛下萨诃提婆,贡蒂之子坚战便与兄弟们以及一条狗继续前行。

17.2.12

कृष्णं निपतितां दृष्ट्वा सहदेवं च पाण्डवम् ।
आर्तो बन्धुप्रियः शूरो नकुलो निपपात ह ॥ १७.२.१२ ॥

看见克里希纳(德罗波蒂)和般度之子萨诃提婆倒下,珍爱亲族的英勇的那拉古拉悲痛万分,也倒了下去。

17.2.13

तस्मिन्निपतिते वीरे नकुले चारुदर्शने ।
पुनरेव तदा भीमो राजानमिदमब्रवीत् ॥ १७.२.१३ ॥

当那位容貌俊美的英雄那库拉倒下时,毗摩再次对国王说了这番话。

17.2.14

योऽयमक्षतधर्मात्मा भ्राता वचनकारकः ।
रूपेणाप्रतिमो लोके नकुलः पतितो भुवि ॥ १७.२.१४ ॥

这位灵魂纯正无瑕、遵从吩咐的兄弟,世上容貌无双的那库拉,已经倒在地上。

17.2.15

इत्युक्तो भीमसेनेन प्रत्युवाच युधिष्ठिरः ।
नकुलं प्रति धर्मात्मा सर्वबुद्धिमतांवरः ॥ १७.२.१५ ॥

毗摩赛那如此说后,众智者中最优秀的正法之魂坚战,就那库拉之事作答。

17.2.16

रूपेणि मत्समो नास्ति कश्चिदित्यस्य दर्शनम् ।
अधिकश्चाहमेवैक इत्यस्य मनसि स्थितम् ॥ १७.२.१६ ॥

他的看法是:容貌上无人与我相等;他心中坚持认为,只有我一人最为卓越。

17.2.17

नकुलः पतितस्तस्मादागच्छ त्वं वृकोदर ।
यस्य यद्विहितं वीर सोऽवश्यं तदुपाश्नुते ॥ १७.२.१७ ॥

那库拉已经倒下;所以,狼腹啊,你过来吧。英雄啊,凡为每人所定的,他必定承受。

17.2.18

तांस्तु प्रपतितान्दृष्ट्वा पाण्डवः श्वेतवाहनः ।
पपात शोकसंतप्तस्ततोनु परवीरहा ॥ १७.२.१८ ॥

见他们都已倒下,般度之子白马(阿周那),诛杀敌方英雄者,被悲伤煎熬,便也倒下了。

17.2.19

तस्मिंस्तु पुरुषव्याघ्रे पतिते शक्रतेजसि ।
म्रियमाणे दुराधर्षे भीमो राजानमब्रवीत् ॥ १७.२.१९ ॥

当那位如因陀罗般光辉的人中猛虎倒下、不可战胜者垂死之时,比摩对国王说道。

17.2.20

अनृतं न स्मराम्यस्य स्वैरेष्वपि महात्मनः ।
अथ कस्य विकारोऽयं येनायं पतितो भुवि ॥ १७.२.२० ॥

即便在随意的言谈中,我也不记得这位大德有过妄语。那么,这是谁的过失,致使他倒在地上?

17.2.21

एकोहं निर्दहेयं वै शत्रूनित्यर्जुनोऽब्रवीत् ।
न च तत्कृतवानेष शूरमानी ततोपतत् ॥ १७.२.२१ ॥

阿周那曾说:“我独自就能焚毁敌人。”可是他没有做到;这位自诩英雄者因此倒下了。

17.2.22

अवमेने धनुर्ग्राहानेष सर्वांश्च फल्गुनः ।
तथा चैतन्न तु तथा कर्तव्यं भूतिमिच्छता ॥ १७.२.२२ ॥

这位法尔古那(阿周那)轻视所有的射手;他也正是如此。但是想要昌盛的人不应当这样做。

17.2.23

इत्युक्त्वा प्रस्थितो राजा भीमोथ निपपात ह ।
पतितश्चाब्रवीद्भीमो धर्मराजं युधिष्ठिरम् ॥ १७.२.२३ ॥

说完这话,国王便启程;此时比摩倒下了。倒地之后,比摩对法王坚战说道。

17.2.24

भोभो राजन्नवेक्षस्व पतितोहं प्रियस्तव ।
किंनिमित्तं च पतनं ब्रूहि मे यदि वेत्थ ह ॥ १७.२.२४ ॥

"啊,国王,看哪:你所钟爱的我已经倒下。如果你知道,请告诉我倒下的原因。"

17.2.25

अतिभुक्तं च भवता प्राणेन च विकत्थसे ।
अनवेक्ष्य परं पार्थ तेनासि पतितः क्षितौ ॥ १७.२.२५ ॥

你过度享乐,凭着生命之气自夸,不顾他人,故此,俯卧于地的你,堕落了,啊,普利塔之子。

17.2.26

इत्युक्त्वा तं महाबाहुर्जगामानवलोकयन् ।
श्वाप्येकोनुययौ यस्ते बहुशः कीर्तितो मया ॥ १७.२.२६ ॥

说罢,大臂者不回顾她而去;而我曾多次向你提及的那只狗,也独自跟随他而行。