摩诃婆罗多 · 章 18.2
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
18.2.1
नेह पश्यामि विबुधा राधेयममितौजसम् ।
भ्रातरौ च महात्मानौ युधामन्यूत्तमौजसौ ॥ १८.२.१ ॥
诸天啊,我在这里看不到无量威力的罗陀之子(迦尔纳),也看不到两位大心的兄弟优陀摩尤和乌track摩耶斯(Uttamaujas)。
18.2.2
जुहुवुर्ये शरीराणि रणवह्नौ महारथाः ।
राजानो राजपुत्राश्च ये मदर्थे हता रणे ॥ १८.२.२ ॥
那些将自己的身体投入战斗之火作为祭品的大车将,那些为了我而在战场上被杀的国王和王子们。
18.2.3
क्व ते महारथाः सर्वे शार्दूलसमविक्रमाः ।
तैरप्ययं जितो लोकः कच्चित्पुरुषसत्तमैः ॥ १८.२.३ ॥
那些勇武如虎的大车将们都在哪里?也许这个世界已被那些人中之最者征服了吧?
18.2.4
यदि लोकानिमान्प्राप्तास्ते च सर्वे महारथाः ।
स्थितं वित्त हि मां देवाः सहितं तैर्महात्मभिः ॥ १८.२.४ ॥
如果那些大车将都已到达这些世界,那么诸天啊,请知道我也与那些大心的人在一起。
18.2.5
कच्चिन्न तैरवाप्तोऽयं नृपैर्लोकोऽक्षयः शुभः ।
न तैरहं विना वत्स्ये भ्रातृभिर्ज्ञातिभिस्तथा ॥ १८.२.५ ॥
那些国王难道没有获得这个不灭而吉祥的世界吗?没有他们,没有我的兄弟和亲族,我又如何能居住呢?
18.2.6
मातुर्हि वचनं श्रुत्वा तदा सलिलकर्मणि ।
कर्णस्य क्रियतां तोयमिति तप्यामि तेन वै ॥ १८.२.६ ॥
我听了母亲的话,那时在水祭仪式中说道:「应为迦尔纳供水」——因此我确实痛苦不安。
18.2.7
इदं च परितप्यामि पुनःपुनरहं सुराः ।
यन्मातुः सदृशौ पादौ तस्याहममितात्मनः ॥ १८.२.७ ॥
诸神啊,我一再为此痛苦:那位心灵无量者的双足,与我母亲的双足相似。
18.2.8
दृष्ट्वैव तं नानुगतः कर्णं परबलार्दनम् ।
न ह्यस्मान्कर्णसहिताञ्जयेच्छक्रोऽपि संयुगे ॥ १८.२.८ ॥
虽然我看见了灭敌军的迦尔纳,却没有跟随他;因为有迦尔纳同在,即便因陀罗也无法在战斗中战胜我们。
18.2.9
तमहं यत्रतत्रस्थं द्रष्टुमिच्छामि सूर्यजम् ।
अविज्ञातो मया योसौ घातितः सव्यसाचिना ॥ १८.२.९ ॥
我想见到那位太阳之子,无论他在何处;我未能认出他,他已被萨维亚萨钦所杀。
18.2.10
भीमं च भीमविक्रान्तं प्राणेभ्योऽपि प्रियं मम ।
अर्जुनं चेन्द्रसंकाशं यमौ चैव यमोपमौ ॥ १८.२.१० ॥
我想见到勇猛可畏的毗摩,他比我的生命还亲;还有如因陀罗般的阿周那,以及如阎摩般的孪生兄弟。
18.2.11
द्रष्टुमिच्छामि तां चाहं पाञ्चालीं धर्मचारिणीम् ।
न चेह स्थातुमिच्छामि सत्यमेवं ब्रवीमि वः ॥ १८.२.११ ॥
我也想见到遵行法义的般遮离;我不愿留在此地。我向你们如实说这些话。
18.2.12
किं मे भ्रातृविहीनस्य स्वर्गेण सुरसत्तमाः ।
यत्र ते मम स स्वर्गो नायं स्वर्गो मतो मम ॥ १८.२.१२ ॥
诸神中最优秀的啊,失去兄弟的我,要天界何用?他们在哪里,哪里就是我的天界;这里我不认为是天界。
18.2.13
यदि वै तत्र ते श्रद्धा गम्यतां तत्र माचिरम् ।
प्रिये हि तव वर्तामो देवराजस्य शासनात् ॥ १८.२.१३ ॥
若你的心愿在那里,就不要迟延,立刻前往。依天王之命,我们与你所爱之人留在此处。
18.2.14
इत्युक्त्वा तं ततो देवा देवदूतमुपादिशन् ।
युधिष्ठिरस्य सुहृदो दर्शयेतदि परंतप ॥ १८.२.१४ ॥
诸神说完这话,便吩咐那位天使:啊,焚敌者,把这些展示给坚战的朋友们看。
18.2.15
ततः कुन्तीसुतो राजा देवदूतश्च जग्मतुः ।
सहितौ राजशार्दूल यत्र ते पुरुषर्षभाः ॥ १८.२.१५ ॥
于是,昆提之子国王与天使一同前往,啊,王中之虎,前往那些人中之杰所在之处。
18.2.16
अग्रतो देवदूतश्च ययौ राजा च पृष्ठतः ।
पन्थानमशुभं दुर्गं सेवितं पापकर्मभिः ॥ १८.२.१६ ॥
天使在前,国王在后。那条路不吉祥、艰险,是罪人常行之路。
18.2.17
तमसा संवृतं घोरं केशशैवलशाद्वलम् ।
युक्तं पापकृतां गन्धैर्मासशोणितकर्दमम् ॥ १८.२.१७ ॥
那里被可怖的黑暗笼罩,满是毛发、苔藓与杂草,充斥着罪人的恶臭,是肉与血的泥沼。
18.2.18
दंशोत्पातकभल्लूकमक्षिकामशकावृतम् ।
इतश्चेतश्च कुणपैः समन्तात्परिवारितम् ॥ १८.२.१८ ॥
那里布满牛虻、苍蝇、蚊子与熊,四处到处被尸体环绕。
18.2.19
अस्थिकेशसमाकीर्णं कृमिकीटसमाकुलम् ।
ज्वलनेन प्रदीप्तेन समन्तात्परिवेष्टितम् ॥ १८.२.१९ ॥
遍布骸骨与毛发,满是蛆虫与昆虫,四周被熊熊烈火所包围。
18.2.20
अयोमुखैश्च काकाद्यैर्गृध्रैश्च समभिद्रुतम् ।
सूचीमुखैस्तथा प्रेतैर्विन्ध्यशैलोपमैर्वृतम् ॥ १८.२.२० ॥
被铁喙的乌鸦之类与秃鹫袭击,周围是针一样面孔、如同温底耶山般巨大的饿鬼所包围。
18.2.21
मेदोरुधिरयुक्तैश्च च्छिन्नबाहूरुपाणिभिः ।
निकृत्तोदरपदैश्च तत्रतत्र प्रवेशितैः ॥ १८.२.२१ ॥
沾满脂肪与鲜血,手臂、大腿与手掌被斩断,腹部与双脚被剖开,到处被插着的(尸身)。
18.2.22
स तत्कुणपदुर्गन्धमशिवं रोमहर्षणम् ।
जगाम राजा धर्मान्मा मध्ये बहु विचिन्तयन् ॥ १८.२.२२ ॥
那位心怀正法的国王,穿行于这个充满尸臭、不吉而令人毛骨悚然之地的中央,心中思索良多。
18.2.23
ददर्शोष्णोदकैः पूर्णां नदीं चापि सुदुर्गमाम् ।
असिपत्रवनं चैव निशितं क्षुरसंवृतम् ॥ १८.२.२३ ॥
他看见一条满是热水、极难渡过的河流,还有一片剑叶之林,锋利且环绕着剃刀。
18.2.24
करम्भवालुकास्तप्ता आयसीश्चि शिलाः पृथक् ।
लोहकुंभीश्च तैलस्य क्वाथ्यमानाः समन्ततः ॥ १८.२.२४ ॥
如炒过的谷物般滚烫的沙子,分别烧红的铁石,以及四周正在沸腾油脂的铁锅。
18.2.25
कूटशाल्मलिकं तापि दुःस्पर्शं तीक्ष्णकण्टकम् ।
ददर्शान्याश्च कौन्तेयो यातनाः पापकर्मिणाम् ॥ १८.२.२५ ॥
他又看见一棵伪造的莎尔玛利树,灼热难触,长满尖刺;贡蒂之子还看见了作恶者所受的其他折磨。
18.2.26
स तं दुर्गन्धमालक्ष्य देवदूतमुवाच ह ।
कियदध्वानमस्माभिर्गन्तव्यमिममीदृशम् ॥ १८.२.२६ ॥
他察觉到那股恶臭,便对天使使者说:"像这样的道路,我们还要走多远?"
18.2.27
क्व च ते भ्रातरो मह्यं तन्ममाख्यातुमर्हसि ।
देशोऽयं कश्च देवानामेतदिच्छामि वेदितुम् ॥ १८.२.२७ ॥
你的兄弟们在哪里?你应当告诉我。这又是诸天的哪一处?我想知道。
18.2.28
स संनिववृते श्रुत्वा धर्मराजस्य भाषितम् ।
देवदूतोऽब्रवीचैनमेतावद्गमनं तव ॥ १८.२.२८ ॥
他听了法王的话,便转身返回。天使使者对他说:"你的行程只到这里。"
18.2.29
निवर्तितव्यो हि मया तताऽस्म्युक्तो दिवौकसैः ।
यदि श्रान्तोसि राजेन्द्रि त्वमथागन्तुमर्हसि ॥ १८.२.२९ ॥
天上的居民告诉我,应当让你返回。诸王之主啊,你若疲倦,便应再来。
18.2.30
युधिष्ठिरस्तु निर्विण्णस्तेनि गन्धेन मूर्छितः ।
निवर्तने धृतमनाः पर्यावर्तत भारत ॥ १८.२.३० ॥
然而,坚战因那股恶臭而沮丧,昏厥过去。婆罗多啊,他心中决意返回,便转身而去。
18.2.31
सं संनिवृत्तो धर्मात्मा दुःखशोकसमाहतः ।
शुश्राव तत्र वदतां दीना वाचः समन्ततः ॥ १८.२.३१ ॥
悲痛与忧伤所折磨的正法之人转身,听到四处传来那些说话者哀怨的声音。
18.2.32
भोभो धर्मज राजर्षे पुण्याभिजन पाण्वन ।
अनुग्रहार्थमस्माकं तिष्ठ तावन्मुहूर्तकम् ॥ १८.२.३२ ॥
哦,法之子,王仙,出身清净家族的般度之子!请为了我们的恩惠,在此稍作停留。
18.2.33
आयाति त्वयि दुर्धर्षे वाति पुण्यः समीरणः ।
तव गन्धानुगस्तात येनास्मान्सुखमागमत् ॥ १८.२.३३ ॥
哦,不可战胜者,清风随你而来;亲爱的,它循着你的香气,欢愉地来到我们这里。
18.2.34
ते वयं पार्थ दीर्घस्य कालस्य पुरुषर्षभ ।
सुखमासादयिष्यामस्त्वां दृष्ट्वा राजसत्तम ॥ १८.२.३४ ॥
哦,普利塔之子,人中雄牛!经过长久的时间,哦,诸王中最好的,见到你,我们将获得幸福。
18.2.35
संतिष्ठस्व महाबाहो मुहूर्तमिह भारत ।
त्वयि तिष्ठति कौरव्य यातनाऽस्मान्न बाधते ॥ १८.२.३५ ॥
哦,大臂者,哦,婆罗多的后裔,请在此稍作停留。哦,俱卢之子,你停留时,苦痛不会折磨我们。
18.2.36
एवं बहुविधा वाचः कृपणा वेदनावताम् ।
तस्मिन्देशे स शुश्राव समन्ताद्वदतां नृप ॥ १८.२.३६ ॥
如此,哦,国王,在那个地方,他从四面八方听到了许多受苦之人哀怨的声音。
18.2.37
तेषां तु वचनं श्रुत्वा दयावान्दीनभाषिणाम् ।
अहो कृच्छ्रमिति प्राह तस्थौ स च युधिष्ठिरः ॥ १८.२.३७ ॥
坚战听到那些哀苦之人的话语,心生怜悯,说道:“啊,何等苦难!”便停在原地。
18.2.38
स ता गिरः पुरस्ताद्वै श्रुतपूर्वाः पुनःपुनः ।
ग्लानानां दुःखितानां च नाभ्यजानत पाण्डवः ॥ १८.२.३८ ॥
虽然他以前曾多次听过那些声音,般度之子却没有认出那些疲惫而痛苦的人。
18.2.39
अबुध्यमानस्ता वाचो धर्मपुत्रो युधिष्ठिरः ।
उवाच के भवन्तो वै किमर्थमिह तिष्ठथ ॥ १८.२.३९ ॥
坚战不明白那些声音,法之子说道:“你们是谁?为何站在这里?”
18.2.40
इत्युक्तास्ते ततः सर्वे समन्तादवभाषिरे ।
कर्णोऽहं भीमसेनोऽहमर्जुनोऽहमिति प्रभो ॥ १८.२.४० ॥
被如此询问后,他们从四面八方齐声说道:“主啊!我是迦尔纳,我是毗摩森那,我是阿周那!”
18.2.41
नकुलः सहदेवोऽहं धृष्टद्युम्नोऽहमित्युत ।
द्रौप्दी द्रौपदेयाश्चि इत्येवं ते विचुक्रुशुः ॥ १८.२.४१ ॥
他们喊道:“我是无种,我是偕天,我是猛光”;又喊道:“我是德罗波蒂,我们是德罗波蒂之子”。
18.2.42
ता वाचः स तदा श्रुत्वा तद्देशसदृशीर्नृप ।
ततो विममृशे राजा किंत्विदं दैवकारितम् ॥ १८.२.४२ ॥
大王啊,坚王听到与那地方相称的那些话语,便思量道:“这难道是天命所为吗?”
18.2.43
किन्तु तत्कलुषं कर्म कृतमेभिर्महात्मभिः ।
कर्णेन द्रौपदेयैर्वा पाञ्चाल्या वा सुमध्यया ॥ १८.२.४३ ॥
然而这罪恶之事是那些大士、迦尔纳、德罗波蒂之子,或潘遮罗的那位细腰女子所做。
18.2.44
य इमे पापगन्धेऽस्मिन्देशे सन्ति सुदारुणे ।
नाहं जानामि सर्वेषां दुष्कृतं पुण्यकर्मणाम् ॥ १८.२.४४ ॥
在这充满罪恶恶臭的极可怕之地,我不知道这些人中每一位的恶行与善行。
18.2.45
किं कृत्वा धृतराष्ट्रस्य पुत्रो राजा सुयोधनः ।
तथा श्रिया युतः पापैः सहसर्वैः पदानुगैः ॥ १८.२.४५ ॥
德兰史陀罗之子苏耶陀那王做了什么,才拥有如此富贵,连同他所有罪恶的随从?
18.2.46
महेन्द्रि इव लक्ष्मीवानास्ते परमपूजितः ।
कस्येदानीं विकारोऽयं य इमे नरकं गताः ॥ १८.२.४६ ॥
他如大因陀罗一般富贵而备受尊崇地居住着;那么这些堕入地狱之人的这种颠倒是谁造成的?
18.2.47
सर्वे धर्मविदः शूराः सत्यागमपरायणाः ।
क्षत्रधर्मरताः सन्तो यज्वानो भूरिदक्षिणाः ॥ १८.२.४७ ॥
他们都是通晓法的勇士,忠于真理与典籍,乐行刹帝利之法,是善人,行祭祀,布施丰厚。
18.2.48
किंनु सुप्तोस्मि जागर्मि चेतयामि न चेतये ।
अहो चित्तविकारोऽयं स्याद्वा मे चित्तविभ्रमः ॥ १८.२.४८ ॥
我是在睡还是醒着?我似乎有所觉知,却又似无觉知。啊!这是我心的扰乱,还是我思的迷惑?
18.2.49
एवं बहुविधं राजा विममर्श युधिष्ठिरः ।
दुःखशोकसमाविष्टश्चिन्ताव्याकुलितेन्द्रियः ॥ १८.२.४९ ॥
国王坚战如此多方思量,被痛苦与悲伤所笼罩,心神因忧虑而纷乱。
18.2.50
क्रोधमाहारयच्चैव तीव्रं धर्मसुतो नृपः ।
देवांश्च गर्हयामास धर्मं चैव युधिष्ठिरः ॥ १८.२.५० ॥
法之子国王坚战心生猛烈的愤怒,责备诸神,也责备法本身。
18.2.51
स तीव्रशोकसंतप्तो देवदूतमुवाच ह ।
गम्यतां तत्र येषां त्वं दूतस्तेषामुपान्तिकम् ॥ १८.२.५१ ॥
他被强烈的悲痛煎熬,对天神的使者说:"你是谁的使者,就去他们那里吧。"
18.2.52
न ह्यहं तत्र यास्यामि स्थितोस्मीति निवेद्यताम् ।
मत्संश्रयादिमे दूनाः सुखिनो भ्रातरो हि मे ॥ १८.२.५२ ॥
我不会去那里;请转告他们,我留在这里。因为有我的庇护,我这些如今痛苦的兄弟必将快乐。
18.2.53
इत्युक्तः स तदा दूतः पाण्डुपुत्रेण धीमता ।
जगामि तत्र यत्रास्ते देवराजः शतक्रतुःठ ॥ १८.२.५३ ॥
聪慧的般度之子如此说罢,那使者便前往天神之王帝释(因陀罗,百祭者)所居之处。
18.2.54
निवेदयामास च तद्धर्मराजचिकीर्षितम् ।
यथोक्तं धर्मपुत्रेण सर्वमेव जनाधिप ॥ १८.२.५४ ॥
他便将法王的心意全部禀告,正如法之子所言,人主啊。