Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 18.4

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

18.4.1

ततो युधिष्ठिरो राजा देवैः सर्षिमरुद्गणैः ।
स्तूयमानो ययौ तत्र यत्र ते कुरुपुङ्गवाः ॥ १८.४.१ ॥

此时,国王坚战受到诸天、仙人及摩如多众的赞颂,前往那些俱卢族的英杰所在之处。

18.4.2

ददर्श तत्र गोविन्दं ब्राह्मेण वपुषाऽन्वितम् ।
तेनैव दृष्टपूर्वेण सादृश्येनैव सूचितम् ॥ १८.४.२ ॥

他在那里看见了具有梵天般神圣身相的哥文达,凭借先前所见的相似之处被认出。

18.4.3

दीप्यमानं स्ववपुषा दिव्यैरस्त्रैरुपस्थितम् ।
चक्रप्रभृतिभिर्घोरैर्दिव्यैः पुरुषविग्रहैः ॥ १८.४.३ ॥

他以自身的身体放光,周围有神圣的武器相伴,包括可怕的轮宝等,还有神圣的人形存在。

18.4.4

उपास्यमानं वीरेण फल्गुनेन सुवर्चसा ।
तथास्वरूपं कौन्तेयो ददर्श मधुसूदनम् ॥ १८.४.४ ॥

俱卢子嗣看见摩豆苏陀那——他具有如此形象,被英雄、光辉灿烂的阿周那所侍奉。

18.4.5

तावुभौ पुरुषव्याघ्रौ समुद्वीक्ष्य युधिष्ठिरम् ।
यथावत्प्रतिपेदाते पूजया देवपूजितौ ॥ १८.४.५ ॥

这两位人中之虎受到诸天的尊奉,他们注视着坚战,依礼以敬意迎接了他。

18.4.6

अपरस्मिन्नथोद्देशे कर्णं शस्त्रभृतां वरम् ।
द्वादशादित्यसहितं ददर्श कुरुनन्दनः ॥ १८.४.६ ॥

随后在另一处,俱卢族的喜悦者看见了持兵器者中最优秀的迦尔纳,与十二位阿底提耶在一起。

18.4.7

अथापरस्मिन्नुद्देशे मरुद्गणवृतं विभुम् ।
भीमसेनमथापश्यत्तेनैव वपुषाऽन्वितम् ॥ १८.४.७ ॥

接着,在另一处地方,他看见被众风神(摩录多)环绕的大力者毗摩娑那,仍以那同一身躯存在。

18.4.8

वायोर्मूर्तिमतः पार्श्वे दिव्यमूर्तिसमन्वितम् ।
श्रिया परमया युक्तं सिद्धिं परमिकां गतम् ॥ १८.४.८ ॥

他在具形的风神婆由身旁,具有神圣形体,拥有至高的光辉,已达到最高的成就。

18.4.9

अश्विनोस्तु तथा स्थाने दीप्यमानौ स्वतेजसा ।
नकुलं सहदेवं च ददर्श कुरुनन्दनः ॥ १८.४.९ ॥

在双阿什文的位置上,以自身光辉照耀的两人,即那难陀和萨诃提婆,被这位俱卢之子看见。

18.4.10

तथा ददर्श पाञ्चालीं कमलोत्पलमालिनीम् ।
वपुषा स्वर्गमाक्रम्य तिष्ठन्तीमर्कवर्चसम् ॥ १८.४.१० ॥

他同样看见了般遮罗的公主,身佩莲花与青莲花之鬘,以身躯充满天界,光辉如太阳,屹立在那里。

18.4.11

तत्रैनां सहसा राजा स्प्रष्टुमैच्छद्युधिष्ठिरः ।
ततोऽस्य भगवानिन्द्रः कथयामास देवराट् ॥ १८.४.११ ॥

在那里,国王坚战忽然想要触碰她。于是尊贵的诸神之王因陀罗对他说道:

18.4.12

श्रीरेषा द्रौपदीरूपा त्वदर्थे मानुषं गता ।
अयोनिजा लोककान्ता पुण्यगन्धा युधिष्ठिर ॥ १८.४.१२ ॥

这正是吉祥天女(室利),为你的缘故,以德罗波蒂的形象来到人间。坚战啊,她非胎生,为三界所爱,散发着功德的芬芳。

18.4.13

रत्यर्थं भवतां ह्येषा निर्मिता शूलपाणिना ।
द्रुपदस्य कुले जाता भवद्भिश्चोपजीविता ॥ १८.४.१३ ॥

她是持三叉戟者(湿婆)专为你们的欢乐而造的;她生于德鲁帕达的家族,被你们所享用。

18.4.14

एते पञ्च महाभागा गन्धर्वाः पावकप्रभाः ।
द्रौपद्यास्तनया राजन्युष्माकममितौजसः ॥ १८.४.१४ ॥

国王啊,这五位大福之人,如火般光辉的乾闼婆,是德罗帕蒂的儿子,是你们无比威力的子嗣。

18.4.15

पश्य गन्धर्वराजानं धृतराष्ट्रं मनीषिणम् ।
एनं च त्वं विजानीहि भ्रातरं पूर्वजं पितुः ॥ १८.४.१५ ॥

看那位智慧的乾闼婆之王德里塔拉施特拉,你要知道他是你父亲的长兄。

18.4.16

अयं ते पूर्वजो भ्राता कौन्तेयः पावकद्युतिः ।
सूर्यपुत्रो रथिश्रेष्ठो राधेय इति विश्रुतः।
आदित्यसहितो भाति पश्यैनं पुरुषर्षभम् ॥ १८.४.१६ ॥

这是你的长兄,昆蒂之子,光辉如火;太阳之子,车手中的最优者,以罗陀耶之名闻名。看那位与太阳一同闪耀的人中雄牛。

18.4.17

साध्यानामथ देवानां विश्वेषां मरुतामपि ।
गणेषु पश्य राजेन्द्र वृष्णन्धकमहारथान्।
सात्यकिप्रमुखान्वीरान्भोजांश्चैव महाबलान् ॥ १८.४.१७ ॥

王中之王啊,也看看萨提亚(Sādhya)、诸神、毗首(Viśva)和摩录多(Marut)的众中:闍尼族与安陀迦族的大车手,以萨提亚基为首的英雄,以及大力的婆闍人。

18.4.18

सोमेन सहितं पश्य सौभद्रमपराजितम् ।
अभिमन्युं महेष्वासं निशाकरसमद्युतिम् ॥ १८.४.१८ ॥

看那与月神苏摩同在的无敌的苏跋陀罗之子阿毗曼纽,大弓手,光辉如月。

18.4.19

एष पाण्डुर्महेष्वासः कुन्त्या माद्र्या च सङ्गतः ।
विमानेन सदाऽभ्येति पिता तव ममान्तिकम् ॥ १८.४.१९ ॥

这位大弓箭手般度与贡蒂、玛德丽相伴,总是乘着天车来到我身边——你的父亲。

18.4.20

वसुभिः सहितं पश्य भीष्मं शान्तनवं नृपम् ।
द्रोणं बृहस्पतेः पार्श्वे गुरुमेनं निशामय ॥ १८.४.२० ॥

看那与诸婆薮同在的檀努之子国王毗湿摩;再看在布利哈斯帕蒂身旁的这位老师德罗纳。

18.4.21

एते चान्ये महीपाला योधास्तव च पाण्डव ।
गन्धर्वसहिता यान्ति यक्षपुण्यजनैस्तथा ॥ १८.४.२१ ॥

这些人和其他国王,以及你的战士们,啊般度之子,正与乾达婆、夜叉和功德人同行。

18.4.22

गुह्यकानां गतिं चापि केचित्प्राप्ता नराधिपाः ।
त्यक्त्वा देहं जितः स्वर्गः पुण्यवाग्बुद्धिकर्मभिः ॥ १८.४.२२ ॥

有些国王也达到了古哈耶迦的境界。舍弃身体后,凭借言语、智慧与行为的功德,天界便被赢得。