Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 18.6

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

18.6.1

भगवन्केन विधिना श्रोतव्यं भारतं बुधैः ।
फलं किं के च देवाश्च पूज्या वै पारणेष्विह ॥ १८.६.१ ॥

尊者啊,智者应当依何仪轨聆听《薄罗多》?其功德为何?在此结束之仪式中应供奉哪些神明?

18.6.2

देयं समाप्ते भगवन्किं च पर्वणिपर्वणि ।
वाचकः कीदृशश्चात्र एष्टव्यस्तद्ब्रवीहि मे ॥ १८.६.२ ॥

尊者啊,在圆满时及每一篇(parva)应布施什么?此处应寻求何种诵读者?请告诉我。

18.6.3

शृणु राजन्विधिमिमं फलं यच्चापि भारतात् ।
श्रुताद्भवति राजेन्द्र यत्त्वं मामनुपृच्छसि ॥ १८.६.३ ॥

大王,请听此仪轨,以及聆听《薄罗多》所得之果报,王中之王,正如你所问我的。

18.6.4

दिवि देवा महीपाल क्रीडार्थमवनिं गताः ।
कृत्वा कार्यमिदं चैव ततश्च दिवमागताः ॥ १८.६.४ ॥

大地的守护者啊,天上的诸神为了游戏降临大地;完成此事之后,他们又回到了天上。

18.6.5

हन्त यत्ते प्रवक्ष्यामि तच्छृणुष्व समाहितः ।
ऋषीणां देवतानां च सम्भवं वसुधातले ॥ १८.६.५ ॥

现在请专心听我为你所说:大地之上诸仙与诸神的起源。

18.6.6

अत्र रुद्रास्तथा साध्या विश्वेदेवाश्च शाश्वताः ।
आदित्याश्चाश्विनौ देवौ लोकपाला महर्षयः ॥ १८.६.६ ॥

此处亦生出了楼陀罗(Rudra)、萨达耶(Sādhya)、永恒的毗湿伐提婆(Viśvedeva)、阿底提耶(Āditya)、双阿湿辛神、世界守护者以及大仙人。

18.6.7

गुह्यकाश्च सगन्धर्वा नागा विद्याधरास्तथा ।
सिद्धा धर्मः स्वयंभूश्च मुनिः कात्यायनो वरः ॥ १८.६.७ ॥

诸守秘者、诸乾闼婆与诸龙、持明与悉陀,法神、自生者,以及殊胜的仙人迦底衍那。

18.6.8

गिरयः सागरा नद्यस्तथैवाप्सरसां गणाः ।
ग्रहाः संवत्सराश्चैव अयनान्यृतवस्तथा ॥ १८.६.८ ॥

诸山、诸海、诸河,以及天女众、行星、年、二至之行与四季。

18.6.9

स्थावरं जङ्गमं चैव जगत्सर्वं सुरासुरम् ।
भातरे भरतश्रेष्ठ एकस्थमिह दृश्यते ॥ १८.६.९ ॥

静与动,诸天与阿修罗一切世界,婆罗多中最上者啊,此中皆见同住于一。

18.6.10

तेषां श्रुत्वा प्रतिष्ठानं नामकर्मानुकीर्तनात् ।
कृत्वाऽपि पातकं घोरं सद्यो मुच्येत मानवः ॥ १८.६.१० ॥

闻其成立之事,称诵其名与所行,人虽犯下重罪,亦立即得解脱。

18.6.11

इतिहासमिमं श्रुत्वा यथावदनुपूर्वशः ।
संयतात्मा शुचिर्भूत्वा पारं गत्वा च भारते ॥ १८.६.११ ॥

依次如法闻此历史,摄心清净,抵达《婆罗多》的彼岸。

18.6.12

तेषां श्राद्धानि देयानि श्रुत्वा भारत भारतम् ।
ब्राह्मणेभ्यो यथाशक्त्या भक्त्या च भरतर्षभ ॥ १८.६.१२ ॥

应为彼等设施祭祀(施沙罗德)。婆罗多啊,闻此《婆罗多》后,婆罗多中之雄牛啊,当依自身能力、以虔敬布施于婆罗门。

18.6.13

महादानानि देयानि रत्नानि विविधानि च ।
गावः कांस्योपदोहाश्च कन्याश्चैव स्वलङ्कृताः ॥ १८.६.१३ ॥

应当施予大布施:各种珍宝、母牛、铜制挤奶器,以及装饰华美的少女。

18.6.14

सर्वकामगुणोपेता यानानि विविधानि च ।
कभवनानि विचित्राणि भूमिर्वासांसि काञ्चनम् ॥ १८.६.१४ ॥

具备一切可意功德的各种车乘、奇妙的房舍、土地、衣物与黄金。

18.6.15

वाहनानि च देयानि हया मत्ताश्च वारणाः ।
शयनं शिबिकाश्चैव स्यन्दनाश्च स्वलंकृताः ॥ १८.६.१५ ॥

也应施予车骑:良马、发情的象、卧榻、轿子以及装饰精美的战车。

18.6.16

यद्यद्गृहे वरं किञ्चिद्यद्यदस्ति महद्वसु ।
तत्तद्देयं द्विजातिभ्य आत्मा दाराश्च सूनवः ॥ १८.६.१६ ॥

家中凡有的上好之物、凡有的大宗财富,都应施予再生者——甚至包括自身、妻子与儿子。

18.6.17

श्रद्धया परया युक्तं क्रमशस्तस्य पारगः ।
शक्तितः सुमना हृष्टः सुश्रूषुरविकल्पकः ॥ १८.६.१७ ॥

具备最高信心,依次圆满其事者,随其力所能及,心怀欢喜,恭敬服侍,不生犹疑。

18.6.18

सत्यार्जवरतो दान्तः शुचिः शौचसमन्वितः ।
श्रद्धधानो जितक्रोधो यथा सिद्ध्यति तच्छृणु ॥ १८.६.१८ ॥

乐于真实与正直,自制,清净,具足洁净,有信心,已胜过愤怒——请听他如何成就。

18.6.19

शुचिः शीलान्विताचारः शुक्लवासा जितेन्द्रियः ।
संस्कृतः सर्वशास्त्रज्ञः श्रद्दधानोऽनसूयकः ॥ १८.६.१९ ॥

清净、品行端正、身穿白衣、克制诸根、受过教养、通晓一切经典、有信心且无嫉妒的人。

18.6.20

रूपवान्सुभगो दान्तः सत्यवादी जितेन्द्रियः ।
दानमानगृहीतश्च कार्यो भवति वाचकः ॥ १८.६.२० ॥

诵者应相貌端正、福泽具足、自制、说真话、克制诸根,并以布施与敬重受人尊崇。

18.6.21

अविलम्बमनायस्तमद्रुतं धीरमुर्जितम् ।
असंसक्ताक्षरपदं स्वरभावसमन्वितम् ॥ १८.६.२१ ॥

不迟缓、不疲倦、不急促,沉稳有力,字与词不相混淆,并具备恰当的声调韵味。

18.6.22

त्रिषष्टिवर्णसंयुक्तमष्टस्थानसमीरितम् ।
वाचयेद्वाचकः स्वस्थः स्वासीनः सुसमाहितः ॥ १८.६.२२ ॥

诵者应心境平和、安坐舒适、专注一心,诵读由六十三个音组成、从八个发音部位发出的文本。

18.6.23

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥ १८.६.२३ ॥

先向那罗延礼敬,又向人中最上的那罗致敬,并向女神萨罗室伐底致敬,然后应宣说「胜利」。

18.6.24

ईदृशाद्वाचकाद्राजञ्श्रुत्वा भारत भारतम् ।
नियमस्थः शुचिः श्रोता शृण्वन्स फलमश्नुते ॥ १८.६.२४ ॥

大王啊,婆罗多啊!从这样的诵者处听闻《婆罗多》,持守戒律、清净的听众在聆听之中便能获得那份福报。

18.6.25

पारणं प्रथमं प्राप्य द्विजान्कामैश्च तर्पयन् ।
आग्निष्टोमस्य यज्ञस्य फलं वै लभते नरः ॥ १८.६.२५ ॥

得到第一次破斋,以所欲之物使再生者(婆罗门)满足的人,获得阿耆尼util妥摩祭的果报。

18.6.26

अप्सरोगणसंकीर्णं विमानं लभते महत् ।
प्रहृष्टः स तु देवैश्च दिवं याति समाहितः ॥ १८.६.२६ ॥

他得到充满阿普萨拉斯群的巨大天车;欢喜而专一,他与诸神一同升往天界。

18.6.27

द्वितीयं पारणं प्राप्य सोतिरात्रफलं लभेत् ।
सर्वरत्नमयं दिव्यं विमानमधिरोहति ॥ १८.६.२७ ॥

得到第二次破斋,便获得阿提罗怛罗祭的果报;他登上全由宝石所成的天界神车。

18.6.28

दिव्यमाल्यांबरधरो दिव्यगन्धविभूषितः ।
दिव्याङ्गदधरो नित्यं देवलोके महीयते ॥ १८.६.२८ ॥

身着天界的花鬘与衣裳,以天界的香气庄严,常戴天界的臂钏,在天界受到尊崇。

18.6.29

तृतीयं पारणं प्राप्य द्वादशाहफलं लभेत् ।
वसत्यमरसंकाशो वर्षाण्ययुतशो दिवि ॥ १८.६.२९ ॥

得到第三次破斋,便获得十二日祭的果报;他如同不死者,在天界居住万万年。

18.6.30

चतुर्थे वाजपेयस्य पञ्चमे द्विगुणं फलम् ।
उदितादित्यसंकाशं ज्वलन्तमनलोपमम् ॥ १८.६.३० ॥

第四次破斋得到婆遮波耶祭的果报,第五次得到其两倍的果报;他光耀如升起的太阳,如燃烧的火焰。

18.6.31

विमानं विबुधैः सार्धमारुह्य दिवि गच्छति ।
वर्षायुतानि भने शक्रस्य दिवि मोदते ॥ १८.६.३१ ॥

他与诸神一同登上天车,升往天界;在因陀罗的天界中欢享数万年。

18.6.32

षष्ठे द्विगुणमस्तीति सप्तमे त्रिगुणं फलम् ।
कैलासशिखराकारं वैदूर्यमणिवेदिकम् ॥ १८.६.३२ ॥

第六次的功德加倍,第七次的功德加三倍。它形如吉罗娑山峰,祭坛以青金石宝珠装饰。

18.6.33

परिक्षिप्तं च बहुधा मणिविद्रुमभूषितम् ।
विमानं समधिष्ठाय कामगं साप्सरोगणम् ॥ १८.६.३३ ॥

他登上随意而行的天车,车身四周环绕,饰以宝珠与珊瑚,与众阿普萨拉斯女同在。

18.6.34

सर्वांल्लोकान्विचरते द्वितीय इव भास्करः ।
अष्टमे राजसूयस्य पारणे लभते फलम् ॥ १८.६.३४ ॥

他如同第二个太阳,遍游一切世界;在第八次王祭(罗阇苏耶)圆满之时,他获得果报。

18.6.35

चन्द्रोदयनिभं रम्यं विमानमधिरोहति ।
चन्द्ररश्मिप्रतीकाशैर्हयैर्युक्तं मनोजवैः ॥ १८.६.३५ ॥

他登上美丽的天车,宛如月升;车辕驾着如月光般的骏马,快如意念。

18.6.36

सेव्यमानो वरस्त्रीणां चन्द्रात्कान्ततरैर्मुखैः ।
मेखलानां निनादेन नूपुराणां च निःस्वनैः ॥ १८.६.३६ ॥

他被容颜胜过月亮的优美女子侍奉,腰带的声响与脚镯的叮当之声交织其中。

18.6.37

अङ्के परमनारीणां सुखसुप्तो विबुध्यते ।
नवमे क्रतुराजस्य वाजिमेधस्य भारत ॥ १८.६.३७ ॥

在至上天女的怀中安睡的他醒来——婆罗多啊,在马祭(诸祭之王)的第九日。

18.6.38

काञ्चनस्तंभनिर्यूहवैदूर्यकृतवेदिकम् ।
जांबूनदमयैर्दिव्यैर्गवाक्षैः सर्वतो वृतम् ॥ १८.६.३८ ॥

有金柱与雕饰的凸出部,有猫眼石的祭坛,四周环绕着由阎浮河金所制的神圣窗户。

18.6.39

सेवितं चाप्सरःसङ्घैर्गन्धर्वैर्दिविचारिभिः ।
विमानं समधिष्ठाय श्रिया परमया ज्वलन् ॥ १८.६.३९ ॥

受到诸阿普萨拉斯群与游行天空的乾达婆服侍,登上天车,以至上光辉闪耀。

18.6.40

दिव्यमाल्यांबरधरो दिव्यचन्दनरूषितः ।
मोदते दैवतैः सार्धं दिवि देव इवापरः ॥ १८.६.४० ॥

身披神圣的花环与衣裳,涂抹神圣的檀香,与诸神同享欢乐,如天上另一位神。

18.6.41

दशमं पारणं प्राप्य द्विजातीनभिवन्द्य च ।
किङ्किणीजालनिर्घोषं पताकाध्वजशोभितम् ॥ १८.६.४१ ॥

抵达第十次破斋,向再生者致敬,(城市)回荡着小铃铛网的叮当声,装饰着旗幡与旌旗。

18.6.42

रत्नवेदिकसम्बाद्यं वैदूर्यमणितोरणम् ।
हेमजालपरिक्षिप्तं प्रवालवलभीमुखम् ॥ १८.६.४२ ॥

布满宝石祭坛,有猫眼石与宝石的门楼,环绕着金网格,门口饰以珊瑚。

18.6.43

गन्धर्वैर्गीतकुशलैरप्सरोभिश्च शोभितम् ।
विमानं सुकृतावासं सुखेनैवोपपद्यते ॥ १८.६.४३ ॥

那座由善歌的乾闼婆和天女装饰的天车宫殿,是善人的居所,人们可以轻易地抵达。

18.6.44

मुकुटेनाग्निवर्णेन जांबूनदविभूषिणा ।
दिव्यचन्दनदिग्धाङ्गो दिव्यमाल्यविभूषितः ॥ १८.६.४४ ॥

戴着火焰色的王冠,以赡部河金装饰,身体涂抹天界檀香,佩戴天界花环。

18.6.45

दिव्याँल्लोकान्विचरति दिव्यैर्भोगैः समन्वितः ।
विबुधानां प्रसादेन श्रिया परमया युतः ॥ १८.६.४५ ॥

享有天界的欢乐,遍游天界诸世界,因诸神的恩典而具足至上的光荣。

18.6.46

अथ वर्षगणानेवं स्वर्गलोके महीयते ।
ततो गन्धर्वसहितः सहस्राण्येकविंशतिम् ॥ १८.६.४६ ॥

如此,他在天界受人尊崇许多年;之后与乾闼婆一起,又度过两万一千(年)。

18.6.47

पुरंदरपुरे रम्ये शक्रेण सह मोदते ।
दिव्ययानविमानेषु लोकेषु विविधेषु च ॥ १८.६.४७ ॥

在因陀罗(补兰达罗)的美丽城中,他与帝释天同乐,在天车与天车宫殿中,也在各种世界中。

18.6.48

दिव्यनारीगणाकीर्णो निवसत्यमरो यथा ।
ततः सूर्यस्य भवने चन्द्रस्य भवने तथा ॥ १८.६.४८ ॥

他被众多天女簇拥,如不死者一般居住;之后住在太阳宫中,也同样住在月亮宫中。

18.6.49

शिवस्य भवने राजन्विष्णोर्याति सलोकताम् ।
एवमेतन्महाराज नात्र कार्या विचारणा। ॥ १८.६.४९ ॥

国王啊,他往生湿婆的居所或毗湿奴的世界。大王,此事确然如此,不应有所怀疑。

18.6.50

श्रद्दधानेन वै भाव्यमेवमाह गुरुर्मम ।
वाचकस्य तु दातव्यं मनसा यद्यदिच्छति ॥ १८.६.५० ॥

应当怀有信心,我的老师如此说。对诵读者,应当给予他心中所愿的一切。

18.6.51

हस्त्यश्वरथयानानि वाहनानि विशेषतः ।
कटके कुण्डले चैव ब्रह्मसूत्रं तथा परम् ॥ १८.६.५१ ॥

象、马、车辆及各种乘具,尤其是;手镯、耳环,以及上等的圣线。

18.6.52

वस्त्रं चैव विचित्रं च गन्धं चैव विशेषतः ।
देववत्पूजयेत्तं तु विष्णुलोकमवाप्नुयात् ॥ १८.६.५२ ॥

应施予精美多彩的衣物,尤其是香料,并如敬神一般礼拜他;如此便可往生毗湿奴的世界。

18.6.53

अतः परं प्रवक्ष्यामि यानि देयानि भारते ।
वाच्यमाने तु विप्रेभ्यो राजन्पर्वणिपर्वणि ॥ १८.६.५३ ॥

接下来我将宣说在婆罗多地应施予何物,大王,于每个节日诵此给婆罗门听之时。

18.6.54

जातिं देशं च सत्यं च माहात्म्यं भरतर्षभ ।
धर्मं वृत्तिं च विज्ञाय क्षत्रियाणां नराधिप ॥ १८.६.५४ ॥

婆罗多族之雄牛啊,人主啊,既知种姓、国土、真实与尊贵,也知刹帝利的法则与生计之后。

18.6.55

स्वस्ति वाच्य द्विजानादौ ततः कार्ये प्रवर्तिते ।
समाप्ते पर्वणि ततः स्वशक्त्या पूजयेद्द्विजान् ॥ १८.६.५५ ॥

先让再生者诵念吉祥祝福;随后,当仪式开始、节庆结束时,应依自己的能力尊敬婆罗门。

18.6.56

आदौ तु वाचकं चैव वस्त्रगन्धसमन्वितम् ।
विधिवद्बोजयेद्राजन्मधुपायसमुत्तमम् ॥ १८.६.५६ ॥

首先,也应给诵者衣物与香料;随后,国王啊,应依规范以最好的蜜与乳粥供养婆罗门用餐。

18.6.57

ततो मूलफलप्रायं पायसं मधुसर्पिषा ।
आस्तीके भोजयेद्राजन्दद्याच्चैव गुडौदनम् ॥ १८.६.५७ ॥

随后,国王啊,应以多为根茎与果实、配以蜜与酥油的乳粥供养阿斯蒂迦,并应给予加了红糖的饭。

18.6.58

अपूपैश्चैव पूपैश्च मोदकैश्च समन्वितम् ।
सभापर्वणि राजेन्द्र हविष्यं भोजयेद्द्विजान् ॥ १८.६.५८ ॥

王中之雄啊,在议事厅的节庆中,应以饼、糕与甜点相配的清净祭食供养再生者。

18.6.59

आरण्यके मूलफलैस्तर्पयेत्तु द्विजोत्तमान् ।
अरणीपर्व चासाद्य जलकुम्भान्प्रदापयेत् ॥ १८.६.५९ ॥

在林中仪式中,应以根与果实使最优秀的再生者满足;到达阿拉尼节时,应布施水罐。

18.6.60

तर्पणानि च मुख्यानि वन्यमूलफलानि च ।
सर्वकामगुणोपेतं विप्रेभ्योऽन्नं प्रदापयेत् ॥ १८.६.६० ॥

应将主要的满足之供、野生的根与果,以及具备一切所欲之德的食物,布施给婆罗门。

18.6.61

विराटपर्वणि तथा वासांसि विविधानि च ।
उद्योगे भरतश्रेष्ठ सर्वकामगुणान्वितम् ॥ १८.६.६१ ॥

同样,在毗罗吒篇中给予各种衣物;婆罗多之最啊,在努陀耶篇中,给予具备一切可欲之德的食物。

18.6.62

भोजनं भोजयेद्विप्रान्गन्धमाल्यैरलङ्कृतान् ।
भीष्मपर्वणि राजेन्द्र दत्त्वा यानमनुत्तमम् ॥ १८.६.६२ ॥

应以香料和花环庄严婆罗门,并供以食物;帝王之主啊,在毗湿摩篇中,还应施予上等车乘。

18.6.63

ततः सर्वगुणोपेतमन्नं दद्यात्सुसंस्कृतम् ।
द्रोणपर्वणि विप्रेभ्यो भोजनं परमार्चितम् ॥ १८.६.६३ ॥

然后应施予具备一切美德、烹调精良的食物;在德罗纳篇中,以最高的敬意向婆罗门供奉食物。

18.6.64

शराश्च देया राजेन्द्र चापान्यसिवरास्तथा ।
कर्णपर्वण्यपि तथा भोजनं सार्वकामिकम् ॥ १८.६.६४ ॥

帝王之主啊,还应施予箭矢、弓以及上好的剑;在迦尔纳篇中,同样应施予能满足一切愿望的食物。

18.6.65

विप्रेभ्यः संस्कृतं सम्यग्दद्यात्संयतमानसः ।
शल्यपर्वणि राजेन्द्र मोदकैः सगुडौदनैः ॥ १८.६.६५ ॥

心志调伏者应当恰当地向婆罗门施予烹调好的食物;帝王之主啊,在沙利耶篇中,应以甜团子与加红糖的米饭(施予)。

18.6.66

अपूपैस्तर्पणैश्चैव सर्वमन्नं प्रदापयेत् ।
गदापर्वण्यपि तथा मुद्गमिश्रं प्रदापयेत् ॥ १८.६.६६ ॥

所有食物应与饼食及奠酒一同施予;同样,在迦陀篇中,应施予掺有绿豆的食物。

18.6.67

स्त्रीपर्वणि तथा रत्नैस्तर्पयेत्तु द्विजोत्तमान् ।
घृतौदनं पुरस्ताच्च ऐषीके दापयेत्पुनः ॥ १८.६.६७ ॥

同样,在女章仪式中,应以珍宝使最优秀的再生者满足;先供应酥煮饭,再于艾斯伊卡仪式中再次令人布施。

18.6.68

ततः सर्वगुणोपेतमन्नं दद्यात्सुसंस्कृतम् ।
शान्तिपर्वण्यपि तथा हविष्यं भोजयेद्द्विजान् ॥ १८.६.६८ ॥

然后应施予具足一切善德、烹调精良的食物;同样,在寂静章仪式中,应以清净的供品食物供养再生者。

18.6.69

आश्वमेधिकमासाद्य भोजनं सार्वकामिकम् ।
तथाऽऽश्रमनिवासे तु हविष्यं भोजयेद्द्विजान् ॥ १८.६.६९ ॥

到达马祭时,应施予能满足一切愿望的食物;同样,居住于修行林中时,应以清净的供品食物供养再生者。

18.6.70

मौसले सार्वगुणिकं गन्धमाल्यानुलेपनम् ।
महाप्रास्थानिके तद्वत्सर्वकामगुणान्वितम् ॥ १८.६.७० ॥

在木杵仪式中,应施予具足一切善德的香料、花鬘与涂香;同样,在大步行仪式中,应施予具足一切可欲之德的物品。

18.6.71

स्वर्गपर्वण्यपि तथा हविष्यं भोजयेद्द्विजान् ।
हरिवंशसमाप्तौ तु सहस्रं भोजयेद्द्विजान् ॥ १८.६.७१ ॥

在天界章仪式中,同样应以清净的供品食物供养再生者;在《诃利王族》完成时,应供养一千名再生者。

18.6.72

गामेकां निष्कसंयुक्तां ब्राह्मणाय निवेदयेत् ।
तदर्धेनापि दातव्या दरिद्रेणापि पार्थिव ॥ १८.६.७२ ॥

应将一头牛连同一枚金币献给婆罗门;即使贫穷之人,也应施予其一半,哦,国王。

18.6.73

प्रतिपर्वसमाप्तौ तु पुस्तकं वै विचक्षणः ।
सुवर्णेन च संयुक्तं वाचकाय निवेदयेत् ॥ १८.६.७३ ॥

每一篇章完成之时,智者应将经卷连同黄金献给诵读者。

18.6.74

हरिवंशे पर्वणि च पायसं तत्र भोजयेत् ।
पारणेपारणे राजन्यथावद्भरतर्षभ ॥ १८.६.७४ ॥

在《诃利世系》篇中,应在那里以牛奶饭供养,王啊,每次破斋时都应如法行之,婆罗多之牛。

18.6.75

समाप्य सर्वाः प्रयतः संहिताः शास्त्रकोविदः ।
शुभे देशे निवेश्याथ क्षौमवस्त्राभिसंवृताः ॥ १८.६.७५ ॥

完成所有文本之后,精通经典、自持的人将它们安置于吉祥之处,身着麻布衣裳,

18.6.76

शुक्लांबरधरः स्रग्वी सुचिर्भूत्वा स्वलङ्कृतः ।
अर्चयेत् यथान्यायं गन्धमाल्यैः पृथक्पृथक्। ॥ १८.६.७६ ॥

身穿白衣,佩戴花环,清净庄严,应依法以香料与花鬘逐一分别供养。

18.6.77

संहितापुस्तकान्राजन्प्रयतः सुसमाहितः ।
भक्ष्यैर्माल्यैस्च पेयैश्च कामैश्च विविधैः शुभैः ॥ १८.६.७७ ॥

王啊,诸本经卷应以克制与专注,用食物、花鬘、饮料以及各种吉祥可爱之物供养。

18.6.78

हिरण्यं च सुवर्णं च दक्षिणामथ दापयेत् ।
सर्वत्र त्रिपलं स्वर्णं दातव्यं प्रयतात्मना ॥ १८.६.७८ ॥

应以金(hiraṇya)与黄金(suvarṇa)作为布施(dakṣiṇā)给予;无论何处,克制之人应施舍三钱黄金。

18.6.79

तदर्धं पादशेषं वा वित्तशाठ्यविवर्जितम् ।
यद्यदेवात्मनोऽभीष्टं तत्तद्देयं द्विजातये ॥ १८.६.७९ ॥

其半或四分之一,在财物上不欺诈,凡自己所喜爱的,都应施予再生者(婆罗门)。

18.6.80

सर्वथा तोषयेद्भक्त्या वाचकं गुरुमात्मनः ।
देवताः कीर्तयेत्सर्वा नरनारायणौ तथा ॥ १८.६.८० ॥

应以虔诚在各方面使自己的导师、诵读者感到满意;并应称颂一切神明,以及那罗与那罗延。

18.6.81

ततो गन्धैश्च माल्यैश्च स्वलङ्कृत्य द्विजोत्तमान् ।
तर्पयेद्विविधैः कानैर्दानैश्चोच्चावचैस्तथा ॥ १८.६.८१ ॥

然后,用香料和花环把最优秀的再生者装饰好,以各种食物和高低不等的布施使他们满足。

18.6.82

अतिरात्रस्य यज्ञस्य फलं प्राप्नोति मानवः ।
प्राप्नुयाच्च क्रतुफलं तथा पर्वणिपर्वणि ॥ १८.६.८२ ॥

人获得阿提罗特拉祭祀的果报,同样,在每一个节日,也应获得祭祀的果报。

18.6.83

वाचको भरतश्रेष्ठ व्यक्ताक्षरपदस्वरः ।
भविष्यं श्रावयेद्विद्वाञ्भारतं भरतर्षभ ॥ १८.६.८३ ॥

婆罗多之最,诵读者应字音、词句、声调清晰,并且博学,大声诵出《婆罗多》连同未来部分,婆罗多之牛啊。

18.6.84

भुक्तवत्सु द्विजेन्द्रेषु यथावत्सम्प्रदापयेत् ।
वाचकं भरतश्रेष्ठ भोजयित्वा स्वलंकृतम् ॥ १८.६.८४ ॥

婆罗多之最,待诸位再生者之长用餐完毕后,应在为装饰整齐的诵读者备好饭食之后,依礼施予布施。

18.6.85

वाचके परितुष्टे तु शुभा प्रीतिरनुत्तमा ।
ब्राह्मणेषु तु तुष्टेषु प्रसन्नाः सर्वदेवताः ॥ १८.६.८५ ॥

诵者满足时,生起吉祥而无上的喜悦;婆罗门满足时,一切天神都欢喜。

18.6.86

ततो हि वरणं कार्यं द्विजानां भरतर्षभ ।
सर्वकामैर्यथान्यायं साधुभिश्च पृथग्विधैः ॥ १८.६.८६ ॥

然后,婆罗多中的雄牛啊,应依法以一切所愿之物及种种良品来迎请二生者。

18.6.87

इत्येषि विधिरुद्दिष्टो मया ते द्विपदांवर ।
श्रद्दधानेन वै भाव्यं यन्मां त्वं परिपृच्छसि ॥ १८.६.८७ ॥

双足者中最优秀的人啊,我已将此规则告诉你;你既然向我询问,就应当怀有信心。

18.6.88

भारश्रवणे राजन्पारणे च नृपोत्तम ।
सदा यत्नवता भाव्यं श्रेयस्तु परमिच्छता ॥ १८.६.८८ ॥

大王啊,王中最优秀者,在聆听《婆罗多》及其结束仪式时,若欲求至上福祉,应当常常精进努力。

18.6.89

भारतं शृणुयान्नित्यं भारतं परिकीर्तयेत् ।
भारतं भवने यस्य तस्य हस्तगतो जयः ॥ १८.६.८९ ॥

应当每日聆听《婆罗多》,应当赞诵《婆罗多》;家中有《婆罗多》的人,胜利就在其手中。

18.6.90

भारतं परमं पुण्यं भारते विविधाः कथाः ।
भारतं सेव्यते देवैर्भारतं परमं पदम् ॥ १८.६.९० ॥

《婆罗多》是至上的功德;《婆罗多》中有种种故事;诸神侍奉《婆罗多》;《婆罗多》是至上之境。

18.6.91

भारतं सर्वशास्त्राणामुत्तमं भरतर्षभ ।
भारतात्प्राप्यते मोक्षस्तत्त्वमेतद्ब्रवीमि तत् ॥ १८.६.९१ ॥

《摩诃婆罗多》是一切圣典中最殊胜的,婆罗多之牛啊。依《摩诃婆罗多》可得解脱;此真理我宣说。

18.6.92

महाभारतमाख्यानं क्षितिं गां च सरस्वतीम् ।
ब्राह्मणान्केशवं चैव कीर्तयन्नावसीदति ॥ १८.६.९२ ॥

称颂《摩诃婆罗多》的故事、大地、母牛、萨拉斯瓦蒂河、婆罗门与罗毗(克莎婆)的人,永不陷于沉沦。

18.6.93

वेदे रामायणे पुण्ये भारते भरतर्षभ ।
आदौ चान्ते च मध्ये च हरिः सर्वत्र गीयते ॥ १८.६.९३ ॥

在吠陀、神圣的《罗摩衍那》和《摩诃婆罗多》中,婆罗多之牛啊,哈里无处不被颂扬:始、终与中间。

18.6.94

यत्र विष्णुकथा दिव्याः श्रुतयश्च सनातनाः ।
तच्छ्रोतव्यं मनुष्येण परं पदमिहेच्छता ॥ १८.६.९४ ॥

凡有毗湿奴的神圣故事与永恒的天启之处,欲求此处至上之境的人应当听闻那里的一切。

18.6.95

एतत्पवित्रं परममेतद्धर्मनिदर्शनम् ।
एतत्सर्वगुणोपेतं श्रोतव्यं भूतिमिच्छता ॥ १८.६.९५ ॥

此书至为清净,是法的明证,具足一切德善;欲求福德的人应当听闻。

18.6.96

कायिकं वाचिकं चैव मनसा समुपार्जितम् ।
तत्सर्वं नाशमायाति तमः सूर्योदये यथा ॥ १८.६.९६ ॥

凡以身、语、意所积之业,皆归于灭,如日出时黑暗消失。

18.6.97

अष्टादशपुराणानां श्रवणाद्यत्फलं भवेत् ।
तत्फलं समवाप्नोति वैष्णवो नात्र संशयः ॥ १८.६.९७ ॥

聆听十八部往世书所得的功德,毗湿奴的信徒完全获得,此中无疑。

18.6.98

स्त्रियश्च पुरुषाश्चैव वैष्णवं पदमाप्नुयुः ।
स्त्रीभिश्च पुत्रकामाभिः श्रोतव्यं वैष्णवं यशः ॥ १८.६.९८ ॥

女子与男子皆可得到毗湿奴之位。希望得子的妇女应当聆听毗湿奴的荣耀。

18.6.99

दक्षिणा चात्र देया वै निष्कपञ्चसुवर्णकम् ।
वाचकाय यथाशक्त्या यथोक्तं फलमिच्छता ॥ १८.६.९९ ॥

此处应依自身能力向诵读者布施,至多五尼什卡金。欲得所说之果者当如此行。

18.6.100

स्वर्णशृङ्गीं च कपिलां सवत्सां वस्त्रसंवृताम् ।
वाचकाय च दद्याद्धि आत्मनः श्रेय इच्छता ॥ १८.६.१०० ॥

求自身福祉者,应向诵读者布施一头角饰金色、带着小牛、以布覆盖的赤色(kapilā)母牛。

18.6.101

अलङ्कारं प्रदद्याच्च पाण्योर्वै भरतर्षभ ।
कर्णस्याभरणं दद्याद्धनं चैव विशेषतः ॥ १८.६.१०१ ॥

婆罗多之雄牛啊,应施予手上的饰物,耳上的饰物,尤其应施予财富。

18.6.102

भूमिदानं समादद्याद्वाचकाय नराधिप ।
भूमिदानसमं दानं न भूतं भविष्यति ॥ १८.६.१०२ ॥

人主啊,应向诵读者施予土地。与土地布施相等的布施,过去未有,将来也不会有。

18.6.103

शृणोति श्रावयेद्वाऽपि सततं चैव यो नरः ।
सर्वपापविनिर्मुक्तो वैष्णवं पदमाप्नुयात् ॥ १८.६.१०३ ॥

若人常常聆听或使人聆听,脱离一切罪恶,便得以到达毗湿奴之境。

18.6.104

पितॄनुद्धरते सर्वानेकादशसमुद्धवान् ।
आत्मानं ससुतं चैव स्त्रियं च भरतर्षभ ॥ १८.६.१०४ ॥

他能超度生于十一代中的所有祖先,也能超度自己、连同儿子和妻子,哦,婆罗多族的雄牛。

18.6.105

दशांशश्चैव होमोपि कर्तव्योत्र नराधिप ।
इदं मया तवाग्ने च प्रोक्तं सर्वं नरर्षभ ॥ १८.६.१०५ ॥

此处也应以十分之一作为供奉。哦,人主,这一切我已向你和阿耆尼宣说,哦,人中之牛。