摩诃婆罗多 · 章 2.101
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.101.1
ततः सम्प्रस्थिते तत्र धर्मराजे तदा नृप ।
जनाः समन्ताद्द्रष्टुं तं समारुरुहुरातुराः ॥ २.१०१.१ ॥
国王啊,当法王从那里出发时,人们渴望见到他,从四面八方纷纷登上高处。
2.101.2
ततः प्रासादवर्याणि विमानशिखराणि च ।
गोपुराणि च सर्वाणि वृक्षानन्यांश्च सर्वशः ॥ २.१०१.२ ॥
接着,宏伟的宫殿、楼阁的顶端、所有城门、树木以及其他一切地方,到处都挤满了人。
2.101.3
अथाधिरुह्य सस्त्रीका उदासीना व्यलोकयन् ।
न हि रथ्यास्तदा शक्या गन्तुं ताश्च जनाकुलाः ॥ २.१०१.३ ॥
随后,他们与妻子一同登高,满怀忧伤地眺望,因为当时挤满人群的街道无法通行。
2.101.4
आरुह्य स्मानतास्तत्र दीनाः पश्यन्ति पाण्डवान् ।
पदातिं वर्जितच्छत्रं चेलभूषणवर्जितम् ॥ २.१०१.४ ॥
人们登上高处,低头而悲苦地看见般度五兄弟:徒步而行,无伞盖,无衣饰装束。
2.101.5
वल्कलाजिनसंवीतं पार्थं दृष्ट्वा जनास्तदा ।
ऊचुर्बहुविधा वाचो भृशोपहतचेतसः ॥ २.१०१.५ ॥
众人看见身穿树皮与鹿皮的般度之子(阿周那),心中深受刺痛,便纷纷说了种种话语。
2.101.6
यं यान्तमनुयाति स्म चतुरङ्गबलं महत् ।
तमेकं कृष्णया सार्धमनुगच्छन्ति पाण्डवाः ॥ २.१०१.६ ॥
曾经他出行时,庞大的四军随从相随;如今般度五子却只与黑公主一同跟随于他身后。
2.101.7
चत्वारो भ्रातरश्चैव धौम्यश्चैव पुरोहितः ।
भीमार्जुनौ वारयित्वा निकृत्या बद्धकार्मुकौ ॥ २.१०१.७ ॥
四兄弟与祭司达乌米亚也一同前行,他们拦住了毗摩与阿周那,弓被诡计捆绑着。
2.101.8
धर्म एवास्थितो येन त्यक्त्वा राज्यं महात्मना ।
या न शक्या पुरा द्रष्टुं भूतैराकाशगैरपि ॥ २.१०१.८ ॥
这位大德者放弃王国、唯依法而立,她从前连空中飞行的生灵也无法得见。
2.101.9
तामद्य कृष्णां पश्यन्ति राजमार्गगता जनाः ।
अङ्गरागोचितां कृष्णां रक्तचन्दनसेविनीम् ॥ २.१०१.९ ॥
今日行于御道上的人们,看见了那位配得上身体香膏、曾用红檀香的克利须那。
2.101.10
वर्षमुष्णं च शीतं च नेष्यत्याशु विवर्णताम् ।
अद्य नूनं पृथा देवी सत्यमाविश्य भाषते ॥ २.१०१.१० ॥
雨水、炎热与寒冷很快会使她面色苍白。今天,女神普利塔确实是进入了真实而在说话。
2.101.11
पुत्रान्स्नुषां च देवी तु द्रष्टुमद्याथ नार्हति ।
निर्गुणस्यापि पुत्रस्य कथं स्याहुः स्वदर्शनम् ॥ २.१०१.११ ॥
女神普利塔今日不配见她的儿子们和儿媳。即使对无德之子,她又怎能让他们得见自己?
2.101.12
किम्पुनर्यस्य लोकोऽयं जितो वृत्तेन केवलम् ।
आनृशंस्यमनुक्रोशो धृतिः शीलं दमः शमः ॥ २.१०१.१२ ॥
何况那以德行独自征服了此世界的人——以不残害、慈悲、坚韧、良德、克己与寂静。
2.101.13
पाण्डवं शोभयन्त्येते षड्गुणाः पुरुषोत्तमम् ।
तस्मादस्योपघातेन प्रजाः परमपीडिताः ॥ २.१०१.१३ ॥
这六种德性庄严着般度之子、人中至尊;因此他受到伤害,百姓极为痛苦。
2.101.14
औदकानीव सत्वानि ग्रीष्मे सलिलसङ्क्षयात् ।
पीडया पीडितं सर्वं जगदस्य जगत्पतेः ॥ २.१०१.१४ ॥
如同夏季水源干涸时水中生灵受苦,这世界之主的苦难使整个世界都受到煎熬。
2.101.15
मूलस्यैवोपघातेन वृक्षः पुष्पफलोपगः ।
मूलं ह्येष मनुष्याणां धर्मराजो महाद्युतिः ॥ २.१०१.१५ ॥
只要树根受到打击,结满花果的树便会倒下;而这位光辉赫赫的法王,正是人类的根本。
2.101.16
पुष्पं फलं च पत्रं च शाखास्तस्येतरे जनाः ।
ते भ्रातर इव क्षिप्रं सपुत्राः सहबान्धवाः ॥ २.१०१.१६ ॥
花、果、叶与枝条,便是其余的众人;他们如同兄弟,连同子嗣与亲族,很快就会毁灭。
2.101.17
गच्छन्तमनुगच्छामो येन गच्छति पाण्डवः ।
उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च ॥ २.१०१.१७ ॥
般度之子走到哪里,我们便跟随到哪里,舍弃园林、田地与房屋。
2.101.18
एकदुःखसुखाः पार्थमनुयाम सुधार्मिकम् ।
समुच्छ्रितपताकानि परिध्वस्ताजिराणि च ॥ २.१०१.१८ ॥
同甘共苦,我们将跟随这位最为正直的普利塔之子;旗帜高扬,庭院却已被踩踏殆尽。
2.101.19
उपात्तधनधान्यानि हृतसाराणि सर्वशः ।
रजसाऽप्यवकीर्णानि परित्यक्तानि दैवतैः ॥ २.१०१.१९ ॥
财富与谷物被夺走,精华尽失,尘土遍布,被诸神抛弃。
2.101.20
मूषकैः परिधावद्भिरुद्बलैरावृतानि च ।
अपेतोदकधूमानि हीनसंमार्जनानि च ॥ २.१०१.२० ॥
被奔跑的强壮老鼠占据,没有水与炊烟,也无人打扫。
2.101.21
प्रनष्टबलिकर्मेज्यामन्त्रहोमजपानि च ।
दुष्कालेनेव भग्नानि भिन्नभाजनवन्ति च ॥ २.१०१.२१ ॥
祭祀、仪礼、献祭、咒语、火供与持诵皆已废绝,仿佛被饥荒摧毁,器皿破碎。
2.101.22
अस्मत्त्यक्तानि वेश्मानि सौबलः प्रतिपद्यताम् ।
वनं नगरमेवास्तु येन गच्छन्ति पाण्डवाः ॥ २.१०१.२२ ॥
愿苏跋罗之子(沙恭尼)接管我们弃下的房屋;愿般度之子所去的森林成为城市。
2.101.23
अस्माभिश्च परित्यक्तं पुरं सम्पद्यतां वनम् ।
बिलानि दंष्ट्रिणः सर्वे वानि मृगपक्षिणः ॥ २.१०१.२३ ॥
愿我们弃下的城市变为森林;愿所有有牙爪的野兽栖息于洞穴,林中的鹿与鸟也在那里。
2.101.24
त्यजन्त्वस्मद्भयाद्भीता गजाः सिंहा वनान्यपि ।
अनाक्रान्तं प्रपद्यन्तः सेवमानं त्यजन्तु च ॥ २.१०१.२४ ॥
愿因我们之恐惧而惊惶的象与狮,连森林也离开;前往未被侵扰的森林,舍弃其曾经栖息之地。
2.101.25
तृणमांसफलादानां देशांस्त्यक्त्वा मृगद्विजाः ।
वयं पार्थैर्वने सम्यक्सह वत्स्याम निर्वृताः ॥ २.१०१.२५ ॥
鹿与鸟类以草、肉、果实为食,离开了它们的家园,我们将与般度之子们一同在森林中安然地好好生活。
2.101.26
इत्येवं विविधा वाचो नानाजनसमीरिताः ।
शुश्राव पार्थः श्रुत्वा च न विचक्रेऽस्य मानसम् ॥ २.१०१.२६ ॥
如此,普利塔之子听到了众人所说的种种言语;听后,他却没有把心思放在其上。
2.101.27
ततः प्रासादसंस्थास्तु समन्ताद्वै गृहे गृहे ।
ब्राह्मणक्षत्रियविशां शूद्राणां चैव योषितः ॥ २.१०१.२७ ॥
于是,站在宫殿平台上的、四面八方家家户户的婆罗门、刹帝利、吠舍和首陀罗的妇女们也(观望)。
2.101.28
गत्वा स्वगृहजालानि उत्पाट्यावरणानि च ।
ददृशुः पाण्डवान्दीनान्वल्कलाजिनवाससः ॥ २.१०१.२८ ॥
她们走到自家的窗格与帷幕前,将其扯开,于是看见了身着树皮衣与鹿皮的可怜的般度之子们。
2.101.29
कृष्णां त्वदृष्टपूर्वां तां व्रजन्तीं पद्भिरेव च ।
एकवस्त्रां रुदन्तीं तां मुक्तकेशीं रजस्वलाम् ॥ २.१०१.२९ ॥
他们看见了从前从未有人见过的克利须那(德劳帕蒂),她徒步而行,只穿一件衣服,哭泣着,头发散乱,正处于经期。
2.101.30
दृष्ट्वा तदा स्त्रियः सर्वा विवर्णवदना भृशम् ।
विलप्य बहुधा मोहाद्दुःखशोकेन पीडिताः।
हाहा धिग्धिग्धिगित्युक्त्वा नेत्रैरश्रूण्यवर्तयन् ॥ २.१०१.३० ॥
众女见此,个个面色苍白,被悲伤与忧愁深深折磨,因迷乱而以种种方式哀哭,口中说着“哎呀!可耻!可耻!可耻!”,泪水从眼中落下。
2.101.31
जनस्याथ वजः श्रुत्वा स राजा भ्रातृभिः सह ।
उद्दिश्य वनावासाय प्रतस्थे कृतनिश्चयः ॥ २.१०१.३१ ॥
国王听到民众的喧嚷,与兄弟们一同,决心已定,动身前往林中流放。
2.101.32
तस्मिन्सम्प्रस्थिते कृष्णा पृथां प्राप्य यशस्विनीम् ।
अपृच्छद्भृशदुःखार्ता याश्चान्यास्तत्र योषितः ॥ २.१०१.३२ ॥
他出发之后,深受悲痛折磨的黑公主走近荣耀的普利塔,向她询问,那里的其他妇女也是如此。
2.101.33
ततो निनादः सुमहान्पाण्डवान्तः पुरेऽभवत् ॥ २.१०१.३३ ॥
于是,般度之子的内宫中响起了巨大的哀号。
2.101.34
कुन्ती च भृशशन्तप्ता द्रौपदीं प्रेक्ष्य गच्छतीम् ।
शोकविह्वलया वाचा कृच्छ्राद्वचनमब्रवीत् ॥ २.१०१.३४ ॥
极度痛苦的贡蒂看见黑公主离去,以因悲痛而颤抖的声音,艰难地说出了这些话。
2.101.35
वत्से शोको न ते कार्यः प्राप्येदं व्यसनं महत् ।
स्त्रीधर्माणामभिज्ञाऽसि शीलाचारवती तथा ॥ २.१०१.३५ ॥
孩子,虽然遭遇了这场大难,你不该悲伤。你深知女子的本分,也具有良好的品行与德行。
2.101.36
न त्वां शन्देष्टुमर्हामि भर्तॄन्प्रति शुचिस्मिते ।
साध्वी गुणसमापन्ना भूषितं ते कुलद्वयम् ॥ २.१०१.३६ ॥
纯洁微笑的人啊,我不配对你关于你丈夫的事严加训诫。你贤良而具备美德;因你,两个家族都得到了光彩。
2.101.37
सभाग्याः कुरवश्चेमे ये न दग्धास्त्वयाऽनघे ।
अरिष्टं व्रज पन्थानं मदनुध्यानबृंहिता ॥ २.१०१.३७ ॥
无罪的女子啊,那些未被你烧毁的俱卢人是有福的。你要依凭对我的不断思念,走上安全的道路。
2.101.38
भाविन्यर्थे हि सत्स्त्रीणां वैकृतं नोपजायते ।
गुरुधर्माभिगुप्ता च श्रेयः क्षिप्रमवप्स्यसि ॥ २.१०१.३८ ॥
高贵的女子啊,贤淑女子的事务中不会产生过失。受到尊长之法的守护,你将很快获得福祉。
2.101.39
सहदेवश्च मे पुत्रः सदाऽवेक्ष्यो वने वसन् ।
यथेदं व्यसनं प्राप्य नायं सीदेन्महामतिः ॥ २.१०१.३९ ॥
还有我的儿子萨哈德瓦,住在森林中,应时常照看,使这位大智者遭遇此灾难时不致受苦。
2.101.40
तथेन्युक्त्वा तु सा देवी स्रवन्नेत्रजलाविला ।
शोणिताक्तैकवसना मुक्तकेशी विनिर्ययौ ॥ २.१०१.४० ॥
她说道:"就这样吧。"这位女神泪流满面,双眼模糊,身穿一件染满血迹的衣裳,披散着头发,走了出去。
2.101.41
तां क्रोशन्तीं पृथा दुःखादनुवव्राज गच्छतीम् ।
अथापश्यन्सुतान्सर्वान्हृताभरणवाससः ॥ २.१०१.४१ ॥
普利塔悲痛地跟在哭泣前行的她身后。随后她看见了她所有的儿子,他们的饰物和衣服都已被夺去。
2.101.42
रुरुचर्मावृततनून्ह्रिया किञ्चिदवाह्मुखान् ।
परैः परीतान्संहृष्टैः सुहृद्भिश्चानुशोचितान् ॥ २.१०१.४२ ॥
他们身披鹿皮,因羞愧而面容微垂,被欢喜的敌人包围,连朋友也为之悲叹。
2.101.43
तदवस्थान्सुतान्सर्वानुपसृत्यातिवत्सला ।
स्वजमानाऽवदच्छेकात्तत्तद्विलपती बहु ॥ २.१०१.४३ ॥
这位极其慈爱的母亲走向处于那种境地的所有儿子,拥抱他们,因悲痛而多方哀哭,说道:
2.101.44
कथं सद्धर्मचारित्रान्वृत्तस्थितिविभूषितान् ।
अक्षुद्रान्दृढभक्तांश्च दैवतेज्यापरान्सदा ॥ २.१०१.४४ ॥
你们一向奉行真正的法,以稳定的善行为庄严,高尚,坚定虔诚,并且始终专心于敬奉诸神,怎会落到这般境地?
2.101.45
व्यसनं वः समभ्यागात्कोऽयं विधिविपर्ययः ।
कस्यापध्यानजं चेदमागः पश्यामि वो धिया ॥ २.१०१.४५ ॥
灾难已经全面降临到你们身上。这是何等命运的逆转?我以智慧看出,这是出于谁的诅咒,或是你们哪一项过失所致。
2.101.46
स्यात्तु मद्भाग्यदोषोऽयं याऽहं युष्मानजीजनम् ।
दुःखायासभुजोऽत्यर्थं युक्तानप्युत्तमैर्गुणैः ॥ २.१०१.४६ ॥
这或许正是我自身命运的过失:我生下了你们,你们虽具备最高的品德,却要承受极大的痛苦与劳苦。
2.101.47
कथं वत्स्यथ दुर्गेषु वने ऋद्धिविनाकृताः ।
वीर्यसत्वबलोत्साहतेजोभिरकृशाः कृशाः ॥ २.१०१.४७ ॥
失去了富足,你们将如何在艰险的森林中居住?你们在勇武、志气、力量、精神和光彩上并不弱,如今却变得衰弱了。
2.101.48
यद्येवमहमज्ञास्यं वने वासं हि वो ध्रुवम् ।
शतशृङ्गान्मृते पाण्डौ नागमिष्यं गजाह्वयम् ॥ २.१०१.४८ ॥
若我知道你们必定要在森林中居住,那么在般度去世后,我就不会从百峰山前往象城(哈斯蒂纳普拉)了。
2.101.49
धन्यं वः पितरं मन्ये तपोमेधान्वितं तथा ।
यः पुत्राधिमसम्प्राप्य स्वर्गेच्छामकरोत्प्रियाम् ॥ २.१०१.४९ ॥
我认为你们的父亲是有福的,他具足苦行与智慧,未得子嗣,却渴望那可爱的天界。
2.101.50
धन्यां चातीन्द्रियज्ञानामिमां प्राप्तां परां गतिम् ।
मन्ये तु माद्रीं धर्मज्ञां कल्याणीं सर्वथैव तु ॥ २.१०१.५० ॥
我认为这位具有超感知智慧、已获得至上归宿的女子是有福的;同样,我也认为通晓法、处处吉祥的摩德丽是有福的。
2.101.51
रत्या मत्या च गत्या च ययाऽहमभिसन्धिता ।
जीवितप्रियतां मह्यं धिङ्मां सङ्क्लेशभागिनीम् ॥ २.१०१.५१ ॥
我被欢乐、心念与行为所束缚,因此对生命仍有眷恋。分担痛苦的我,应当受到谴责!
2.101.52
पुत्रका न विहास्ये वः कृच्छ्रलब्धान्प्रियान्सतः ।
साऽहं यास्यामि हि वनं हा कृष्णे किं जहासि माम्। ॥ २.१०१.५२ ॥
孩子们!我不会抛弃你们这些历尽艰辛才得来的心爱之人;我也将入林而去。哎呀,克利须那!你为何要离我而去?
2.101.53
अन्तवत्यसुधर्मेऽस्मिन्धात्रा किं नु प्रमादतः ।
ममान्तो नैव विहितस्तेनायुर्न जहाति माम् ॥ २.१०१.५३ ॥
在这短暂的、以气息维系的生命中,造物主是否因疏忽而没有为我定下终点?所以寿命不肯离我而去。
2.101.54
हा कृष्ण द्वारकावासिन्क्वासि सङ्कर्षणानुज ।
कस्मान्न त्रायसे दुःखान्मां चेमांश्च नरोत्तमान् ॥ २.१०१.५४ ॥
哎呀,克利须那!住在德瓦拉卡的人,桑卡舍那的幼弟,你在哪里?为何不救护我和这些人中的俊杰脱离痛苦?
2.101.55
अनादिनिधनं ये त्वामनुध्यायन्ति वै नराः ।
तांस्त्वं पासीत्ययं वादः स गतो व्यर्थतां कथम् ॥ २.१०१.५५ ॥
那句“凡冥想无始无终的你的人,你都护佑”的话,怎么竟成了空言?
2.101.56
इमे सद्धर्ममाहात्म्ययशोवीर्यानुवर्तिनः ।
नार्हन्ति व्यसनं भोक्तुं नन्वेषां क्रियतां दया ॥ २.१०१.५६ ॥
他们遵循真正的正法、威严、荣誉与勇力,本不应承受苦难。请对他们施以慈悲吧。
2.101.57
सेयं नीत्यर्थविज्ञेषु कथमापदुपागता ।
स्थितेषु कुलनाथेषु कथमापदुपागता ॥ २.१०१.५७ ॥
既有精通政事与事务的智者在,这灾祸怎会降临?既有家族的尊长在,这不幸怎会来到?
2.101.58
हा पाण्डो हा महाराज क्वासि किं समुपेक्षसे ।
पुत्रान्विवास्यतः साधूनरिभिर्द्यूतनिर्जितान् ॥ २.१०१.५८ ॥
哎呀,般度!哎呀,大王!你在哪里?为何对被仇敌在骰子戏中击败、正被放逐的善良儿子们置之不理?
2.101.59
सहदेव निवर्तस्व ननु त्वमसि मे प्रियः ।
शरीरादपि माद्रेय मां मा त्याक्षीः कुपुत्रवत् ॥ २.१०१.५९ ॥
偕提婆啊,回来吧!你对我而言比自己的身体还要亲爱,摩德莉之子啊!不要像不孝之子那样抛弃我。
2.101.60
व्रजन्तु ब्रातरस्तेऽमी यदि सत्याभिसन्धिनः ।
मत्परित्राणजं धर्ममिहैव त्वमवाप्नुहि ॥ २.१०१.६० ॥
若你这些兄弟真的信守誓言,就让他们去吧;你则留在这里,获得因守护我而生的正法。
2.101.61
एवं विपलतीं कुन्तीमभिवाद्य प्रणम्य च ।
पाण्डवा विगतानन्दा वनायैव प्रवव्रजुः ॥ २.१०१.६१ ॥
于是,向悲泣的贡蒂致礼并叩拜之后,失去欢乐的般度五子便动身前往森林。
2.101.62
विदुरश्चापि तामार्तां कुन्तीमाश्वास्य हेतुभिः ।
प्रावेशयद्गृहं क्षत्ता स्वयमार्ततरः शनैः ॥ २.१०१.६२ ॥
维杜罗也以道理安慰悲伤的贡蒂,缓缓地把她带进屋内,尽管他自己更加悲痛。
2.101.63
धार्तराष्ट्रस्त्रिस्ताश्च निखिलेनोपलभ्य तत् ।
गमनं परिकर्षं च कृष्णाया द्यूतमण्डले ॥ २.१०१.६३ ॥
持国王的诸子完全知悉了这一切——般度五子的离去,以及在赌局大厅里拖拽黑公主之事。
2.101.64
रुरुदुः सुस्वनं सर्वा विनिन्दन्त्यः कुरून्भृशम् ।
दध्युश्च सुचिरं कालं करासक्तमुखाम्बुजाः ॥ २.१०१.६४ ॥
她们都高声哭泣,极力责备俱卢族人;很久都坐着沉思,以手托着如莲花般的面容。
2.101.65
राजा च धृतराष्ट्रस्तु पुत्राणामनयं तदा ।
ध्यायन्नुद्विग्नहृदयो न शान्तिमधिजग्मिवान् ॥ २.१०१.६५ ॥
国王持国也在思量诸子的不义之行,心中烦乱,无法获得平静。
2.101.66
स चिन्तयन्ननेकाग्रः शोकव्याकुलचेतनः ।
क्षत्तुः सम्प्रेषयामास शीघ्रमागम्यतामिति ॥ २.१०१.६६ ॥
他心神不定,为悲伤所扰,遣人去告诉管家(维杜罗):“请他快来。”
2.101.67
ततो जगाम विदुरो धृतराष्ट्रनिवेशनम् ।
तं पर्यपृच्छत्संविग्नो धृतराष्ट्रो जनाधिपः ॥ २.१०१.६७ ॥
于是毗杜罗前往持国的住所。忧心忡忡的人主持国向他发问。