摩诃婆罗多 · 章 2.102
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.102.1
तमागतमथो राजा विदुरं दीर्घदर्शिनम् ।
साशङ्क इव प्रपच्छ धृतराष्टोऽम्बिकासुतः ॥ २.१०२.१ ॥
于是,阿mbikā之子国王持国(Dhṛtarāṣṭra)仿佛心怀忧惧,向前来的远见者毗杜罗发问。
2.102.2
कथं गच्छति कौन्तेयो धर्मपुत्रो युधिष्ठिरः ।
भीमसेनः सव्यसाची माद्रीपुत्री च पाण्डवौ ॥ २.१०२.२ ॥
贡蒂之子、法之子坚战(Yudhiṣṭhira)、毗摩(Bhīmasena)、左撇弓者(Savyasācin)以及摩德里之子两位般度子,如今是怎样前行的?
2.102.3
धौम्यश्चैव कथं क्षत्तर्द्रौपदी च यशस्विनी ।
श्रोतुमिच्छाम्यहं सर्वं तेषां शंस विचेष्टितम् ॥ २.१०२.३ ॥
毗杜罗啊,达乌摩耶与荣耀的德罗波蒂是怎样前行的?我想听听他们的全部行止,请讲述。
2.102.4
वस्त्रेण संवृत्य मुखं कुन्तीपुत्रो युधिष्ठिरः ।
बाहू विशालौ सम्पश्यन्भीमो गच्छति पाण्डवः ॥ २.१०२.४ ॥
贡蒂之子坚战以布遮面而行;般度子毗摩一边看着自己宽阔的双臂,一边前行。
2.102.5
सिकता वपन्सव्यसाची राजानमनुगच्छति ।
माद्रीपुत्रः सहदेवो मुखमालिप्य गच्छति ॥ २.१०२.५ ॥
左撇弓者(Savyasācin)一边撒着沙子,跟随在国王身后;摩德里之子Sahadeva涂抹着面容前行。
2.102.6
पांसूपलिप्तसर्वाङ्गो नकुलश्चित्तविह्वलः ।
दर्शनीयतमो लोके राजानमनुगच्छति ॥ २.१०२.६ ॥
那库拉全身沾满尘土,心神慌乱,是世上最俊美的人,正跟随在国王身后。
2.102.7
कृष्णा तु केशैः प्रच्छाद्य मुखमायतलोचना ।
दर्शनीया प्ररुदती राजानमनुगच्छति ॥ २.१०२.७ ॥
黑肤的德劳帕蒂用头发遮住脸庞,大眼睛,秀丽动人,哭泣着跟随国王。
2.102.8
धौम्यो रौद्राणि सामानि याम्यानि च विशाम्पते ।
गायन्गच्छति मार्गेषु कुशानादाय पाणिना ॥ २.१०२.८ ॥
人主啊,达乌摩耶一边唱着猛烈的与南方相关的娑摩颂歌,一边手持吉祥草在路上行走。
2.102.9
विविधानीह रूपाणि कृत्वा गच्छन्ति पाण्डवाः ।
तन्ममाचक्ष्व विदुर कस्मादेवं व्रजन्ति ते ॥ २.१०२.९ ॥
般度之子们化作种种形貌在此前行。维杜罗啊,请告诉我,他们为何这样走。
2.102.10
निकृतस्यापि ते पुत्रैर्हृते राज्ये धनेषु च ।
न धर्माच्चलते बुद्धिर्धर्मराजस्य धीमतः ॥ २.१०२.१० ॥
尽管你的儿子们侵害了他们,夺走了王国与财富,智慧的法王之心仍不偏离法。
2.102.11
योऽसौ राजा घृणी नित्यं धार्तराष्ट्रेषु भारत ।
निकृत्या भ्रंशितः क्रोधान्नोन्मीलयति लोचने ॥ २.१०२.११ ॥
婆罗多啊,那位对持国之子始终怀有慈悲的国王,虽因诡计而失去王位,却不因愤怒而睁开双眼。
2.102.12
नाहं जनं निर्दहेयं दृष्ट्वा घोरेण चक्षुषा ।
स पिधाय मुखं राजा तस्माद्गच्छति पाण्डवः ॥ २.१०२.१२ ॥
我不会以可怕的目光焚烧众人;因此那位般度王掩面而去。
2.102.13
यथा च भीमो व्रजति निगदतः शृणु ।
बाह्वोर्बले नास्ति समो ममेति भरतर्षभ ॥ २.१०२.१३ ॥
听着,婆罗多的雄牛啊,一边走,怖军一边说:“在臂力上,无人能与我相比。”
2.102.14
बाहू विशालौ कृत्वाऽसौ तेन भीमोपि गच्छति ।
बाहू विदर्शयन्राजन्बाहुद्रविणदर्पितः ॥ २.१०२.१४ ॥
国王啊,怖军也伸展着宽阔的双臂这样走着,以臂力之富而自豪,展示着他的双臂。
2.102.15
चिकीर्षन्कर्म शत्रुभ्यो बाहुद्रव्यानुरूपतः ।
प्रदिशञ्शरसम्पातान्कुन्तीपुत्रोऽर्जुनस्तदा ॥ २.१०२.१५ ॥
他想要对敌人行动,依其臂力之所能,展示箭雨,那时,贡蒂之子阿周那前行。
2.102.16
सिकता वपन्सव्यसाची राजानमनुगच्छति ।
असक्ताः सिकतास्तस्य यथा सम्प्रति भारत।
असक्तं शरवर्षाणि तथा मोक्ष्यति शत्रुषु ॥ २.१०२.१६ ॥
萨维雅萨奇撒着沙子跟随国王。婆罗多啊,正如他身上的沙子此刻不粘附,他也将不断向敌人射出箭雨。
2.102.17
न मे कश्चिद्विजानीयान्मुखमद्येति भारत ।
मुखमालिप्य तेनासौ सहदेवोऽपि गच्छति ॥ २.१०२.१७ ॥
“今天不应让任何人认出我的脸,婆罗多啊。”因此,涂抹了脸的偕天也走了。
2.102.18
नाहं मनांस्याददेयं मार्गे स्त्रीणामिति प्रभो ।
पांसूपलिप्तसर्वाङ्गो नकुलस्तेन गच्छति ॥ २.१०२.१८ ॥
“主啊,我不会在路上夺取女子的心。”因此,全身沾满尘土的那库拉也走了。
2.102.19
एकवस्त्रा प्ररुदती मुक्तकेशी रजस्वला ।
शोणितेनाक्तवसना द्रौपदी वाक्यमब्रवीत् ॥ २.१०२.१९ ॥
德罗波蒂身着一件衣服,痛哭不止,头发散乱,正值经期,衣服被血浸透,说出了这些话。
2.102.20
यत्कृतेऽहमिदं प्राप्ता तेषां वर्षे चतुर्दशे ।
हतपत्यो हतसुता हतबन्धुजनप्रियाः ॥ २.१०२.२० ॥
因为他们,我才沦落至此——十四年之中,他们的丈夫、儿子、亲族和爱人都已被杀。
2.102.21
बन्धुशोणितदिग्धाङ्ग्यो मुक्तकेश्यो रजस्वलाः ।
एवं कृतोदका भार्याः प्रवेक्ष्यन्ति गजाह्वयम् ॥ २.१०२.२१ ॥
身上沾满亲族鲜血,披散着头发,正值经期的妻子们,如此供奉水祭之后,将进入象城(Hāstinapura)。
2.102.22
कृत्वा तु नैर्ऋतान्दर्भान्धीरो धौम्यः पुरोहितः ।
सामानि गायन्याम्यानि पुरतो याति भारत ॥ २.१०२.२२ ॥
智慧的祭司Dhaumya准备好了冥界用的吉草(darbha),走在前面,唱着阎摩的娑摩颂歌,婆罗多啊。
2.102.23
हतेषु भरतेष्वाजौ कुरूणां गुरवस्तदा ।
एवं सामानि गास्यन्तीत्युक्त्वा धौम्योपि गच्छति । ॥ २.१०२.२३ ॥
当婆罗多与俱卢在战场上被杀之时,长者们说“他们将如此唱诵娑摩颂歌”,于是Dhaumya也离去了。
2.102.24
प्रस्थाप्य पाण्डवाञ्शेषान्निः शेषस्ते भविष्यति ।
इति धौम्यो व्यवसितो रौद्रसामानि गायति ॥ २.१०२.२४ ॥
若送走其余的般度之子,你的家族将彻底灭绝——Dhaumya决意如此,唱起可怖的娑摩颂歌。
2.102.25
धृतराष्ट्र उवाच ॥ २.१०२.२५ ॥
持国王说道。
2.102.26
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा येऽन्ये वदन्त्यथ ।
तच्छृणुष्व महाराज वक्ष्यते च मया तव ॥ २.१०२.२६ ॥
大王,请听婆罗门、刹帝利、吠舍、首陀罗以及其他人所说的话,也请听我将要对你说的话。
2.102.27
हाहा गच्छन्ति नो नाथाः समवेक्षध्वमीदृशम् ।
अहो धिक्कुरुवृद्धानां बालानामिव चेष्टितम् ॥ २.१०२.२७ ॥
唉,我们的主人要离去了!请看这一切。哎,库鲁长辈的行为竟像孩童一般,真可耻!
2.102.28
राष्ट्रेभ्यः पाण्डुदायादाँल्लोभान्निर्वासयन्ति ये ।
अनाथाः स्म वयं सर्वे वियुक्ताः पाण्डुनन्दनैः ॥ २.१०२.२८ ॥
那些出于贪婪而将般度的继承人逐出国土的人,因他们,我们都失去了庇护,与般度之子分离了。
2.102.29
दुर्विनीतेषु लुब्धेषु का प्रीतिः कौरवेषु नः ।
इति पौराः सुदुः खार्ताः क्रोशन्ति स्म पुनः पुनः ॥ २.१०२.२९ ॥
我们对傲慢贪婪的俱卢族人还有什么情分?如此,深受悲痛折磨的市民一再哭喊。
2.102.30
एवमाकारलिङ्गैस्ते व्यवसायं मनोगतम् ।
कथयन्तश्च कौन्तेया वनं जग्मुर्मनस्विनः ॥ २.१०२.३० ॥
就这样,贡蒂的高贵诸子以外貌和迹象显露内心的决意,走向了森林。
2.102.31
एवं तेषु नराग्र्येषु निर्यत्सु गजसाह्वयात् ।
अनभ्रे विद्युतश्चासन्भूमिश्च समकम्पत ॥ २.१०२.३१ ॥
当那些人中俊杰离开象城时,无云而闪电出现,大地一同震动。
2.102.32
राहुरग्रसदादित्यमपर्वणि विशाम्पते ।
उल्का चाप्यपसव्येन पुरं कृत्वा व्यशीर्यत ॥ २.१०२.३२ ॥
人主啊,罗睺在非日食之时吞没了太阳;一颗流星向左飞过城市,然后碎裂了。
2.102.33
प्रत्याहरन्ति क्रव्यादा गृध्रगोमायुवायसाः ।
देवायतनचैत्येषु प्राकाराट्टालकेषु च ॥ २.१०२.३३ ॥
食肉的秃鹫、豺狼和乌鸦反复飞回神庙与圣坛,停在城墙与望楼之上。
2.102.34
एवमेते महोत्पाताः प्रादुरासन्दुरासदाः ।
भरतानामभावाय राजन्दुर्मन्त्रिते तव ॥ २.१०२.३४ ॥
国王啊,因您的恶劣谋划,这些巨大而难以抵御的凶兆为了婆罗多族的覆灭而出现了。
2.102.35
एवं प्रवदतोरेव तयोस्तत्र विशाम्पते ।
धृतराष्ट्रस्य राज्ञश्च विदुरस्य च धीमतः ॥ २.१०२.३५ ॥
人主啊,就在那里,当这两人——国王持国与智者毗杜罗——正在交谈之时——
2.102.36
नारदश्च सभामध्ये कुरूणामग्रतः स्थितः ।
महर्षिभिः परिवृतो रौद्रं वाक्यमुवाच ह ॥ २.१०२.३६ ॥
那罗陀站在俱卢族面前的集会中央,被大仙众所围绕,说出了可怕的话语。
2.102.37
इतश्चतुर्दशे वर्षे विङ्क्ष्यन्तीह कौरवाः ।
दुर्योधनापराधेन भीमार्जुनबलेन च ॥ २.१०२.३७ ॥
从此后十四年,俱卢族将在此灭亡,因难敌之过,也因怖军与阿周那之力。
2.102.38
इत्युक्त्वा दिवमाक्रम्य क्षिप्रमन्तरधीयत ।
ब्राह्मीं श्रियं सुविपुलां बिभ्रद्देवर्षिसत्तमः ॥ २.१०२.३८ ॥
说罢,诸天仙中最尊者升入天空,迅速隐没,身负梵天所赐的广大光辉。
2.102.39
ततो दुर्योधनः कर्णः शकुनिश्चापि सौबलः ।
द्रोणं द्वीपममन्यन्त राज्यं चास्मै न्यवेदयन् ॥ २.१०२.३९ ॥
于是难敌、迦尔纳与苏跋罗之子沙恭尼,视德罗纳为岛屿(依托之所),并将王国交付于他。
2.102.40
अथाब्रवीत्ततो द्रोणो दुर्योधनममर्षणम् ।
दुःशासनं च कर्णं च सर्वानेव च भारतान् ॥ २.१०२.४० ॥
于是德罗纳对愤怒的难敌、难降、迦尔纳以及所有婆罗多人说道。
2.102.41
अवध्यान्पाण्डवान्प्राहुर्देवपुत्रान्द्विजातयः ।
अहं चै शरणं प्राप्तान्वर्तमानो यथाबलम् ॥ २.१०२.४१ ॥
再生者们说,般度之子是天神之子,不可杀害;我也因已投靠他们,将依自己的力量行事。
2.102.42
गन्ता सर्वात्मना भक्त्या धार्तराष्ट्रान्सराजकान् ।
नोत्सहेयं परित्यक्तुं दैवं हि बलवत्तरम् ॥ २.१०२.४२ ॥
我将全心以虔诚之心,与他们的诸王一同前往投奔持国之子;但我不敢舍弃他们,因为天命远比人力更强大。
2.102.43
धर्मतः पाण्डुपुत्रा वै वनं गच्छन्ति निर्जिताः ।
ते च द्वादश वर्षाणि वने वत्स्यन्ति पाण्डवः ॥ २.१०२.४३ ॥
按法,般度之子战败后将前往森林;般度五子将在林中居住十二年。
2.102.44
चरितब्रह्मचर्याश्च क्रोधामर्षवशानुगाः ।
वैरं निर्यातयिष्यन्ति महद्दुःखाय पाण्डवाः ॥ २.१०२.४४ ॥
守持梵行,受愤怒与怨恨支配,般度五子将报复仇怨,招致巨大的苦难。
2.102.45
मया च भ्रंशितो राजन्द्रुपदः सखिविग्रहे ।
पुत्रार्थमयजद्राजा वधाय मम भारत ॥ २.१०२.४५ ॥
君王啊,在与朋友的争执中,我使德鲁帕陷入屈辱;那位国王为求子嗣,为了我的毁灭而举行了祭祀,婆罗多的后裔啊。
2.102.46
याजोपयाजतपसा पुत्रं लेभे स पावकात् ।
धृष्टद्युम्नं द्रौपदीं च वेदीमध्यात्सुमध्यमाम् ॥ २.१०२.४६ ॥
借着耶阇与优波耶阇的苦行,他从火中得到一子——德里什塔德尤姆纳,又从祭坛中央得到腰身纤细的德罗波蒂。
2.102.47
धृष्टद्युम्नस्तु पार्थानां स्यालः सम्बन्धतो मतः ।
पाण्डवानां प्रियरतस्तस्मान्मां भयमाविशत् ॥ २.१०२.४७ ॥
德里什塔德尤姆纳因婚姻关系被视为般度之子的内兄;他专心于般度五子的利益,因此恐惧进入了我心中。
2.102.48
ज्वालावर्णो देवदत्तो धनुष्मान्कवची शरी ।
मर्त्यधर्मतया तस्मादद्य मे साध्वसो महान् ॥ २.१०२.४८ ॥
身如火焰之色,手持天授之螺,持弓披甲、执箭——因凡人之性,今日我心中大为惊惧。
2.102.49
गतो हि पक्षतां तेषां पार्षतः परवीरहा ।
रथातिरथसङ्ख्यायां योऽग्रणीरर्जुनो युवा ॥ २.१०२.४९ ॥
敌方英雄的杀手般若多 (Pārṣata, 即德力湿吒衍那) 已经站到了他们一边,而在车战士与大车战士之中居于首位的年轻的阿周那也是如此。
2.102.50
सृष्टप्राणो भृशतरं तेन चेत्सङ्गमो मम ।
किमन्यद्दुःखमधिकं परमं भुवि कौरवाः ॥ २.१०२.५० ॥
若我与他交锋,我的生命将极其痛苦。诸位俱卢族人啊,世上还有什么比这更大的至高痛苦呢?
2.102.51
धृष्टद्युम्नो द्रोणमृत्युरिति विप्रथितं वचः ।
मद्वधायाश्रितोऽप्येष लोके चाप्यतिविश्रुतः ॥ २.१०२.५१ ॥
“德力湿吒衍那是德罗纳之死”这句话广为流传。他正是为了杀我而前来投奔,而且他在世间也极负盛名。
2.102.52
सोऽयं नूनमनुप्राप्तस्त्वत्कृते कालपर्ययः ।
त्वरितं कुरुत श्रेयो नैतदेतावता कृतम् ॥ २.१०२.५२ ॥
那个时运的转折无疑已经来临,它是因你而起。快去做对你有益的事吧;仅此还不足以成事。
2.102.53
मुहूर्तं सुखमेवैतत्तालच्छायेव हैमनी ।
जयध्वं च महायज्ञैर्भोगानश्नीत दत्त च ॥ २.१०२.५३ ॥
这份快乐只是片刻,如同寒冬里棕榈树的影子。以大祭祀取胜,享受欢乐,也要布施。
2.102.54
इतश्चतुर्दशे वर्षे महत्प्राप्स्यथ वैशसम् ।
दुर्योधन निशम्यैतत्प्रतिपद्य यथेच्छसि ॥ २.१०२.५४ ॥
从今起的第十四年,你将遭遇大难。难敌啊,听了这些,你便随心而行吧。
2.102.55
शमं वा पाण्डुपुत्रेण प्रयुङ्क्ष्व यदि मन्यसे। ॥ २.१०२.५५ ॥
若你如此认为,便与般度之子讲和吧。
2.102.56
सम्यगाह गुरुः क्षत्तरुपावर्तय पाण्डवान् ।
यदि ते न निवर्तन्ते सत्कृता यान्तु पाण्डवाः। ॥ २.१०२.५६ ॥
导师说得正确:啊,刹多,把般度五子召回来。若他们不回来,就让受到礼敬的般度五子离去吧。
2.102.57
सशस्त्ररथपादाता भोगवन्तश्च पुत्रकाः ॥ २.१०२.५७ ॥
携带武器、战车与步兵,连同富足的诸子一起。