Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 2.103

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.103.1

वनं गतेषु पार्थेषु निर्जितेषु दुरोदरे ।
धृतराष्ट्रं महाराज तदा चिन्ता समाविशत् ॥ २.१०३.१ ॥

大王啊,普利塔之子们在骰子赌局中落败,进入森林之后,持国的心中便充满了忧虑。

2.103.2

तं चिन्तयानमासीनं धृतराष्ट्रं जनेश्वरम् ।
निः श्वसन्तमनेकाग्रमिति होवाच सञ्जयः ॥ २.१०३.२ ॥

对沉思、端坐、叹息、心神不定的人主持国,全善(桑贾耶)这样说道。

2.103.3

अवाप्य वसुसम्पूर्णां वसुधां वसुधाधिप ।
प्रव्राज्य पाण्डवान्राज्याद्राजन्किमनुशोचसि ॥ २.१०३.३ ॥

你已获得财富充盈的大地,又将般度五子逐出王国,大王啊,你为何还要悲叹?

2.103.4

अशोच्यत्वं कुतस्तेषां येषां वैरं भविष्यति ।
पाण्डवैर्युद्धशौण्डैर्हि बलवद्भिर्महारथैः ॥ २.१०३.४ ॥

与般度五子结下仇怨的人,怎能不值得悲悼?般度五子擅长战争,是强大的大车战士。

2.103.5

तवेदं सुकृतं राजन्महद्वैरमुपस्थितम् ।
विनाशो येन लोकस्य सानुबन्धो भविष्यति ॥ २.१०३.५ ॥

大王啊,从你所谓的善行中,产生了巨大的仇恨,由此将导致世界连同其后果一并毁灭。

2.103.6

वार्यमाणो हि भीष्मेण द्रोणेन विदुरेण च ।
पाण्डवानां प्रियां भार्यां द्रौपदीं धर्मचारिणीम्। ॥ २.१०३.६ ॥

尽管毗湿摩、德罗纳和维杜罗加以劝阻,你仍侮辱了般度五子心爱的妻子、奉行法道的德罗波蒂。

2.103.7

प्राहिणोदानयेहेति पुत्रो दुर्योधनस्तव ।
सूतपुत्रं सुमन्दात्मा निर्लज्जः प्रातिकामिनम् ॥ २.१०३.७ ॥

你的儿子难敌派了那个愚钝而无耻的使者波罗提伽民去见御者之子,说:“把她带来。”

2.103.8

यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम् ।
बुद्धिं तस्यापकर्षन्ति सोऽवाचीनानि पश्यति ॥ २.१०३.८ ॥

诸神使人遭遇败亡时,便夺去他的智慧,于是他只看见低劣而倒退之事。

2.103.9

बुद्धौ कलुषभूतायां विनाशे समुपस्थिते ।
अनयो नयसङ्काशो हृदयान्नापसर्पति ॥ २.१०३.९ ॥

智慧已被蒙蔽、毁灭临近之时,看似正道的不义便不会离开心头。

2.103.10

अनर्थाश्चार्थरूपेण अर्थाश्चानर्थरूपिणः ।
उत्तिष्ठन्ति विनाशाय नूनं तच्चास्य रोचते ॥ २.१०३.१० ॥

祸害以利益的面目出现,利益以祸害的面目出现,以致毁灭;他必定正喜欢这样的事。

2.103.11

न कालो दण्डमुद्यम्य शिरः कृन्तति कस्यचित् ।
कालस्य बलमेतार्वाद्वपरीतार्थदर्शनम् ॥ २.१०३.११ ॥

时间并不举起棍棒去砍任何人的头;这便是时间的力量,它使人看见颠倒的意义。

2.103.12

आसादितमिदं घोरं तुमुलं रोमहर्षणम् ।
पाञ्चालीमपकर्षद्भिः सभामध्ये तपस्विनीम् ॥ २.१०३.१२ ॥

在议事厅中间拖拽般遮的人,招致了这场可怕、喧嚣、令人毛骨悚然的事件。

2.103.13

अयोनिजां रूपवतीं कुले जातां विभावसोः ।
को नु तां सर्वधर्मज्ञां परिभूय यशस्विनीम् ॥ २.१०३.१३ ॥

谁敢羞辱那位非由胎生、容貌美丽、生于毗婆娑(火神)之族、通晓一切法的光荣女子?

2.103.14

पर्यानयेत्सभामध्ये विना दुर्द्यूतदेविनम् ।
स्त्रीधर्मिणी वरारोहा शोणितेन परिप्लुता ॥ २.१०३.१४ ॥

除了玩恶劣骰戏的人,谁会把她拖到大厅中央?她恪守女子之道,腰肢美好,满身是血。

2.103.15

एकवस्त्राथ पाञ्चाली पाण्डवानभ्यवैक्षत ।
हृतस्वान्हृतराज्यांश्च हृतवस्त्रान्हृतश्रियः ॥ २.१०३.१५ ॥

此时身着一件衣裳的般遮罗公主望向般度五子——他们财富被夺,王国被夺,衣物被夺,光彩尽失。

2.103.16

विहीनान्सर्वकामेभ्यो दासभावमुपागतान् ।
धर्मपाशपरिक्षिप्तानशक्तानिव विक्रमे ॥ २.१०३.१६ ॥

失去一切欲望,沦为奴仆,被法的绳索捆缚,仿佛在勇力上已无能为力。

2.103.17

क्रुद्धां चानर्हतीं कृष्णां दुःखितां कुरुसंसदि ।
दुर्योधनश्च कर्णश्च कटुकान्यभ्यभाषताम् ॥ २.१०३.१७ ॥

在俱卢议会中,愤怒、不应受此待遇、悲伤的黑天女,遭到难敌与迦尔纳的恶语相加。

2.103.18

इति सर्वमिदं राजन्नाकुलं प्रतिभाति मे ।
तस्याः कृपणचक्षुर्भ्यां प्रदह्येतापि मेदिनी ॥ २.१०३.१८ ॥

大王啊,这一切在我看来都令人心乱。她那哀怜的眼睛,连大地都会被焚烧。

2.103.19

अपि शेषं भवेदद्य पुत्राणां मम सञ्जय ।
भरतानां स्त्रियः सर्वा गान्धार्या सह सङ्गताः ॥ २.१०३.१९ ॥

桑闪耶啊,今天我的儿子们还会剩下什么吗?婆罗多族的所有女子都与甘陀利聚集在一起。

2.103.20

प्राकोशन्भैरवं तत्र दृष्ट्वा कृष्णां सभागताम् ।
धर्मिष्टां धर्मपत्नीं च रूपयौवनशालिनीम् ॥ २.१०३.२० ॥

众女子看到被带入大会的克里希那——最为正直、正法之妻、容貌青春光彩照人——便惊恐地大声哭喊起来。

2.103.21

प्रजाभिःसह सङ्गम्य ह्यनुशोचन्ति नित्यशः ।
अग्निहोत्राणि सायाह्ने च चाहूयन्त सर्वशः ॥ २.१०३.२१ ॥

与民众相聚,她们日夜哀叹;傍晚,四处都在召唤举行火祭。

2.103.22

ब्राह्मणाः कुपिताश्चासन्द्रौपद्याः परिकर्षणे ।
आसीन्निष्ठानको घोरो निर्घातश्च महानभूत् ॥ २.१०३.२२ ॥

当德罗波蒂被拖拽时,婆罗门们愤怒了;一阵可怕的轰鸣响起,还发生了巨大的雷击。

2.103.23

दिव उल्काश्चापतन्त राहुश्चार्कमुपाग्रसत् ।
अपर्वणि महाघोरं प्रजानां जयन्भयम् ॥ २.१०३.२३ ॥

天上坠下流星,罗睺不合时令地吞食了太阳——极为可怕,使民众心生恐惧。

2.103.24

तथैव रथशालासु प्रादुरासीद्धुताशनः ।
ध्वजाश्चापि व्यशीर्यन्त भरतानामभूतये ॥ २.१०३.२४ ॥

同样,车库中出现了火,旗帜也折断坠落,以致婆罗多族走向毁灭。

2.103.25

दुर्योधनस्याग्निहोत्रे प्राक्रोशन्भैरवं शिवाः ।
तास्तदा प्रत्यभाषन्त रासभाः सर्वतो दिशः ॥ २.१०३.२५ ॥

在难敌的火祭中,豺狼发出可怕的嚎叫;于是四面八方的驴子也应和它们。

2.103.26

प्रातिष्ठत ततो भीष्मो द्रोणेन सह सञ्जय ।
कृपश्च सोमदत्तश्च बाह्लीकश्च महामनाः ॥ २.१०३.२६ ॥

桑闍耶啊,于是毗湿摩与德罗纳一同出发;还有克里帕、索摩达塔,以及心胸宽广的巴利迦。

2.103.27

ततोऽहमब्रुवं तत्र विदुरेण प्रचोदितः ।
वरं ददानि कृष्णायै काङ्क्षितं यद्यदिच्छति ॥ २.१०३.२७ ॥

于是,在毗杜罗的劝促下,我在那里说道:“我赐给黑公主一个恩惠——她所希望的、所渴求的,无论是什么。”

2.103.28

अवृणोत्तत्र पाञ्चाली पाण्डवाना …सताम् ।
सरथान्सधनुष्कांश्चाप्यनुज्ञासिषमप्यहम् ॥ २.१०३.२८ ॥

那里,般遮罗公主选择了般度五子……那些善良的人;我亲自连同他们的战车和弓一并放行了。

2.103.29

अथाब्रवीन्महाप्राज्ञो विदुरः सर्वधर्मवित् ।
एतदन्तास्तु भरता यद्व-कृष्णा सभां गता ॥ २.१०३.२९ ॥

于是,大智、通晓一切法的毗杜罗说道:“婆罗多的子孙们啊,黑公主来到大会堂,其结果正会落在此处。”

2.103.30

यैषा पाञ्चालराजस्य सुता सा श्रीरनुत्तमा ।
पाञ्चाली पाण्डवानेतान्दैवसृष्टोपसर्पति ॥ २.१०३.३० ॥

这位般遮罗王的女儿是无与伦比的荣光;般遮罗公主受命运所遣,走近这些般度五子。

2.103.31

तस्याः पार्थाः परिक्लेशं न क्षंस्यन्ते ह्यमर्षणाः ।
वृष्णयो वा महेष्वासाः पाञ्चाला वा महारथाः ॥ २.१०३.३१ ॥

不能忍受屈辱的普利塔之子不会容忍她所受的苦难;大弓箭手温尼族人或大战车手般遮罗人也不会忍受。

2.103.32

तेन सत्याभिसन्धेन वासुदेवेन रक्षिताः ।
आगमिष्यति बीभत्सुः पञ्चालैः परिवारितः ॥ २.१०३.३२ ॥

在言出必践的婆薮提婆(黑天)庇护下,毗菩特苏(阿周那)将被般遮罗人簇拥而来。

2.103.33

तेषां मध्ये महेष्वासो भीमसेनो महाबलः ।
आगमिष्यति धुन्वानो गदां दण्डमिवान्तकः ॥ २.१०३.३३ ॥

在他们之中将到来大弓箭手、大力的婆罗那婆斯那(毗摩),他挥舞着铁杵,如死神挥舞其杖。

2.103.34

ततो गाण्डीवनिर्घोषं श्रुत्वा पार्थस्य धीमतः ।
गदावेगं च भीमस्य नालं सोढुं नराधिपाः ॥ २.१०३.३४ ॥

那时,听到智者普利塔之子(阿周那)甘提婆弓的弦响,以及毗摩的铁杵之势,诸王将无法承受。

2.103.35

तत्र मे रोचते नित्यं पार्थैः साम न विग्रहः ।
कुरुभ्यो हि सदा मन्ये पाण्डवान्बलवत्तरान् ॥ २.१०३.३५ ॥

我始终认为与普利塔之子和睦(以怀柔相待)而不是开战才是正道;因为我一向认为般度之子比俱卢之子更为强大。

2.103.36

तथा हि बलवान्राजा जरासन्धो महाद्युतिः ।
बाहुप्रहरणेनैव भीमेन निहतो युधि। ॥ २.१०३.३६ ॥

同样,强大而光辉灿烂的国王乍拉森陀,在战斗中仅因毗摩的臂力一击而被杀死。

2.103.37

तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ ।
उभयोः पक्षयोर्युक्तं क्रियतामविशङ्कया ॥ २.१०३.३७ ॥

婆罗多族的雄牛啊,愿你与般度之子和睦相处。对双方都合宜的事,毫不犹豫地去做吧。

2.103.38

एवं कृते महाराज परं श्रेयस्त्वमाप्स्यसि ।
एवं गावल्गणे क्षत्ता धर्मार्थसहितं वचः ॥ २.१०३.३८ ॥

大王啊,若如此行,你将得到至高的福祉。迦瓦尔迦那之子啊,管家(维杜罗)说过这些与法和利相应的话。

2.103.39

उक्तवान्न गृहीतं वै मया पुत्रहितैषिणा ॥ २.१०३.३९ ॥

他曾说过,但我一心想着儿子们的利益,没有接受。