Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 2.11

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.11.1

पितामहसभां तात कथ्यमानां निबोध मे ।
शक्यते या न निर्देष्टुमेवंरूपेति भारत ॥ २.११.१ ॥

孩子啊,听我讲述祖父的集会;它无法以如此形式指明,婆罗多的后裔啊。

2.11.2

पुरा देवयुगे राजन्नादित्यो भगवान्दिवः ।
आगच्छन्मानुषं लोकं दिदृक्षुर्विगतक्लमः ॥ २.११.२ ॥

国王啊,往昔天神时代,尊贵的太阳神阿底耶从天上降临,渴望观看人间世界,已摆脱疲倦。

2.11.3

चरन्मानुषरूपेण सभां दृष्ट्वा स्वयम्भुवः ।
स तामकथयन्मह्यं दृष्ट्वा तत्त्वेन पाण्डव ॥ २.११.३ ॥

他以人形游历,见到了自生者的集会;他真实地看见后,向我描述了它,般度之子啊。

2.11.4

अप्रमेयां सभां दिव्यां मानसीं भरतर्षभ ।
अनिर्देश्यां प्रभावेण सर्वभूतमनोरमाम् ॥ २.११.४ ॥

那集会,婆罗多中的雄牛啊,无量、神圣、由心意而生;以其威光不可言说,令一切众生之心欢喜。

2.11.5

श्रुत्वा गुणानहं तस्याः सभायाः पाण्डवर्षभ ।
दर्शनेप्सुस्तथा राजन्नादित्यमिदमब्रुवम्। ॥ २.११.५ ॥

我听闻了那集会的种种美德,般度之子中的雄牛啊,渴望一见,国王啊,于是我对阿底耶说了这番话。

2.11.6

भगवन्द्रष्टुमिच्छामि पितामहसभां शुभाम् ।
येन वा तपसा शक्या कर्मणा वाऽपि गोपते ॥ २.११.६ ॥

尊贵的主啊,我愿见祖父那吉祥的集会;大地之主啊,请告诉我,通过何种苦行或何种行为才能得见。

2.11.7

औषधैर्या तथा युक्तैरुत्तमा पापनाशिनी ।
तन्ममाचक्ष्व भगवन्पश्येयं तां सभां यथा ॥ २.११.७ ॥

尊者啊,请以能够消除罪恶的上等药物告诉我,使我能够看见那座大殿。

2.11.8

स तन्मम वचः श्रुत्वा सहस्रांशुर्दिवाकरः ।
प्रोवाच भारतश्रेष्ठ व्रतं वर्षसहस्रकम् ॥ २.११.८ ॥

那位千光的太阳、昼之创造者听了我的话,便说出了一个千年的誓愿,婆罗多中的至尊啊。

2.11.9

ब्रह्मव्रतमुपास्स्व त्वं प्रयतेनान्तरात्मना ।
ततोऽहं हिमवत्पृष्ठे समारब्दो महाव्रतम् ॥ २.११.९ ॥

你以专注调伏的内心修持梵行之誓。之后,我在喜马拉雅山的山脊上开始了大誓。

2.11.10

ततः स भगवान्सूर्यो मामुपादाय वीर्यवान् ।
आगच्छत्तां सभां ब्राह्मीं विपाप्मा विगतक्लमः ॥ २.११.१० ॥

那时,那位尊贵而有力的太阳带着我,无罪而不知疲倦,来到了那座梵天之殿。

2.11.11

एवंरूपेति सा शक्या न निर्देष्टुं नराधिप ।
क्षणेन हि बिभर्त्यन्यदनिर्देश्यं वपुस्तथा ॥ २.११.११ ॥

人主啊,无法用这样的形态来描述它;刹那之间,它又呈现出另一种无法言说的形态。

2.11.12

न वेद परिमाणं वा संस्थानं चापि भारत ।
न च रूपं मया तादृक् दृष्टपूर्वं कदाचन ॥ २.११.१२ ॥

婆罗多啊,我不知道它的尺度与结构,而且我以前从未见过这样的形态。

2.11.13

सुसुखा सा सदा राजन्न शीता न च घर्मदा ।
न क्षुत्पिपासे न ग्लानिं प्राप्यतां प्राप्तुवन्त्युत ॥ २.११.१३ ॥

大王啊,那座殿堂永远极其舒适;它既不寒冷,也不带来炎热。那里没有饥渴,也没有疲倦;凡是可得之物,在那里都能得到。

2.11.14

नानारूपैरिव कृता मणिभिः सा सुभास्वरैः ।
स्तम्भैर्न च धृता सा तु शाश्वती न च सा क्षरा ॥ २.११.१४ ॥

那座殿堂仿佛由多种形状、极其光亮的宝石建成;它并非由柱子支撑。它是永恒的,而非会朽坏的。

2.11.15

दिव्यैर्नानाविधैर्भावैर्भासद्भिरमितप्रभैः ॥ २.११.१५ ॥

[殿堂] 以多种神圣的景象装饰,光辉闪耀,光芒无量。

2.11.16

अति चन्द्रं च सूर्यं च शिखिनं च स्वयम्प्रभा ।
दीप्यते नाकपृष्ठस्था भर्त्सयन्वीव भास्करम् ॥ २.११.१६ ॥

超越月亮、太阳与火焰,自身发光,矗立于天界之上闪耀,仿佛在斥责太阳本身。

2.11.17

तस्यां स भगवानास्ते विदधद्देवमायया ।
स्वयमेकोऽनिशं राजन्सर्वलोकपितामहः ॥ २.११.१७ ॥

在那里,那位世尊以神圣的幻力安排一切,独自一人、永不停息地居住;大王啊,他是一切世界的祖父。

2.11.18

उपतिष्ठन्ति चाप्येनं प्रजानां पतयः प्रभुम् ।
दक्षः प्रचेताः पुलहो मरीचिः कश्यपः प्रभुः ॥ २.११.१८ ॥

众生之主也侍奉他:达刹、普拉切塔斯、布罗诃、摩利支,以及主者迦叶波。

2.11.19

भृगुरत्रिर्वसिष्ठश्च गौतमोऽथ तथाङ्गिराः ।
पुलस्त्यश्च कतुश्चैव प्रह्लादः कर्दमस्तथा। ॥ २.११.१९ ॥

婆利古、阿特利、婆悉吒、乔达摩、安吉罗斯、补罗斯提耶、克拉图、钵罗诃罗陀与迦尔达摩亦然。

2.11.20

अथर्वाङ्गिरसश्चैव वालखिल्या सरीचिपाः ।
मनोऽन्तरिक्षं विद्याश्च वायुस्तेजो जलं मही ॥ २.११.२० ॥

阿闼婆与安吉罗斯、婆罗奇利耶、旃利吒巴,以及意、虚空、诸明、风、火、水与地。

2.11.21

शब्दस्पर्शौ तथा रूपं रसो गन्धश्च भारत ।
प्रकृतिश्च विकारश्च यच्चान्यत्कारणं भुवः ॥ २.११.२१ ॥

声、触、色、味、香,婆罗多之子啊;自性与其变异,以及世界的其他一切因。

2.11.22

अगस्त्यश्च महातेजा मार्कण्डेयश्च वीर्यवान् ।
जमदग्निर्भरद्वाजः संवर्तश्च्यवनस्तथा ॥ २.११.२२ ॥

大光明的阿伽斯提耶,有力的摩根德耶,遮摩达格尼、跋罗堕阇、僧伐多与遮耶婆那亦然。

2.11.23

दुर्वासाश्च महाभाग ऋष्णशृङ्गश्च धार्मिकः ।
सनत्कुमारो भगवान्योगाचार्यो महातपाः ॥ २.११.२३ ॥

福德广大的杜尔婆娑,正法的利什耶商伽,尊贵的萨那特库玛拉,瑜伽导师与大苦行者亦然。

2.11.24

असितो देवलश्चैव जैगीषव्यश्च तत्त्ववित् ।
ऋषभो जितशत्रुश्च महावीर्यस्तथा मणिः ॥ २.११.२४ ॥

阿悉多、提婆罗、知真理的乔伊吉沙婆耶、牛王(利舍跋)、大勇的胜敌,以及摩尼亦然。

2.11.25

आयुर्वेदस्तथाऽष्टाङ्गो देहवांस्तत्र भारत ।
चन्द्रमाः सह नक्षत्रैरादित्यश्च गभस्तिमान् ॥ २.११.२५ ॥

婆罗多啊,那里有具八支的阿育吠陀化身显现,还有与星宿同在的月亮,以及光芒四射的太阳。

2.11.26

वायवः क्रतवश्चैव सङ्कल्पः प्राण एव च ।
मूर्तिमन्तो महात्मानो महाव्रतपरायणाः ॥ २.११.२६ ॥

风神、祭祀、决意以及生命之气;身具形体的大德,专心于大誓。

2.11.27

एते चान्ये च बहवो ब्रह्माणं समुपस्थिताः ।
अर्थो धर्मश्च कामश्च हर्षो द्वेषस्तपो दमः ॥ २.११.२७ ॥

他们以及其他许多存在已来到梵天面前:财富、法、欲、喜、恶、苦行与自制。

2.11.28

आयान्ति तस्यां सहिता गन्धर्वाप्सरसां गणाः ।
विंशतिः सप्त चैवान्ये लोकपालाश्च सर्वशः ॥ २.११.२८ ॥

那集会中,乾闼婆与阿普莎罗斯的群体一同前来,二十七位以及其他世界护卫者,全部到来。

2.11.29

शुक्रो बृहस्पतिश्चैव बुधोऽङ्कारक एव च ।
शनैश्चरश्च राहुश्च ग्रहाः सर्वे तथैव च ॥ २.११.२९ ॥

金星(Śukra)与木星(Bṛhaspati),水星(Budha)与火星(Aṅgāraka),土星(Śanaiścara)与罗睺(Rāhu),以及一切行星亦然。

2.11.30

मन्त्रो रथन्तरं चैव हरिमान्वसुमानपि ।
आदित्याः साधिराजानो नामद्वन्द्वैरुदाहृताः ॥ २.११.३० ॥

咒语与Rathantara,还有Harimān与Vasumān,以及诸阿底提耶与其王者,以成对的名字述说。

2.11.31

मरुतो विश्वकर्मा च वसवश्चैव भारत ।
तथा पितृगणाः सर्वे सर्वाणि च हवींष्यथ ॥ २.११.३१ ॥

婆罗多啊,摩噜多、毗首羯摩、婆苏,以及所有祖灵群体和一切祭品,也都在那里。

2.11.32

ऋग्वेदः सामवेदश्च यजुर्वेदश्च पाण्डव ।
अथर्ववेदश्च तथा सर्वशास्त्राणि चैव ह ॥ २.११.३२ ॥

般度之子啊,《梨俱吠陀》《娑摩吠陀》《夜柔吠陀》《阿闼婆吠陀》,以及一切论典,也都在那里。

2.11.33

इतिहासोपवेदाश्च वेदाङ्गानि च सर्वशः ।
ग्रहा यज्ञाश्च सोमश्च देवताश्चापि सर्वशः ॥ २.११.३३ ॥

史诗与副吠陀、一切吠陀支分、诸星、祭祀、苏摩以及一切天神,也都在那里。

2.11.34

सावित्री दुर्गतरणी वाणी सप्तविधा तथा ।
मेधा धृतिः श्रुतिश्चैव प्रज्ञा बुद्धिर्यशः क्षमा ॥ २.११.३४ ॥

萨维特丽、救度苦难者、七重言语,以及智慧、坚定、闻学、慧、觉、名声与忍辱,也都在那里。

2.11.35

सामानि स्तुतिशस्त्राणि गाथाश्च विविधास्तथा ।
भाष्याणि तर्कयुक्तानि देहवन्ति विशाम्पते ॥ २.११.३५ ॥

民之主啊,娑摩歌、赞颂诗、种种偈颂,以及充满论理的注疏,都以具体形体存在于那里。

2.11.36

नाटका विविधाः काव्याः कथाख्यायिकारिकाः ।
तत्रतिष्ठन्ति ते पुण्या ये चान्ये गुरुपूजकाः ॥ २.११.३६ ॥

种种戏剧、诗篇、故事、叙传与偈颂都在那里;尊敬师长的有福之人,以及其他人,也都住在那里。

2.11.37

क्षणा लवा मुहूर्ताश्च दिवा रात्रिस्तथैव च ।
अर्धमासाश्च मासाश्च ऋतवः षट् च भारत ॥ २.११.३७ ॥

刹那、罗婆、牟呼多,昼与夜亦然;半月与月,还有,婆罗多啊,六季。

2.11.38

संवत्सराः पञ्ययुगमहोरात्रश्चतुर्विधः ।
कालचक्रं च तद्दिव्यं नित्यमक्षयमव्ययम् ॥ २.११.३८ ॥

年、五时代的循环、大日与大夜——这有四种;那神圣的时轮是永恒的、不灭的、不变的。

2.11.39

धर्मचक्रं तथा चापि नित्यमास्ते युधिष्ठिर ।
अदितिर्दितिर्दनुश्चैव सुरसा विनता इरा ॥ २.११.३९ ॥

同样,युधिष्ठिर啊,法轮也永恒常住。阿底提、底提、檀奴、苏罗娑、毗纳多与伊罗。

2.11.40

कालिका सुरभी देवी सरमा चाथ गौतमी ॥ २.११.४० ॥

迦梨迦、天女苏罗毗、萨拉玛,然后是乔答弥。

2.11.41

प्रभा कद्रूश्च वै देव्यौ देवतानां च मातरः ।
रुद्राणी श्रीश्च लक्ष्मीश्च भद्रा षष्ठी तथाऽपरा ॥ २.११.४१ ॥

两位天女普罗跋与迦德卢,诸神之母;鲁陀罗尼、吉祥天、拉克什米、跋陀罗,以及第六位另一位。

2.11.42

पृथिवी गां गता देवी ह्रीः स्वाहा कीर्तिरेव च ।
सुरा देवी शची चैव तथा पुष्टिररुन्धती ॥ २.११.४२ ॥

大地,化作母牛而去者;天女惭(Hrī)、娑訶(Svāhā)与名称(Kīrti);天女苏罗、舍遮、以及补湿提与阿鲁陀弥。

2.11.43

संवृत्तिराशा नियतिः सृष्टिर्देवी रतिस्तथा ।
एताश्चान्याश्चवै देव्य उपतस्थुः प्रजापतिम् ॥ २.११.४३ ॥

僧伐提、希望、命运、造化女神与爱欲,以及其他女神,都侍立在主生者面前。

2.11.44

आदित्या वसवो रुद्रा मरुतश्चास्विनावपि ।
विश्वेदेवाश्च साध्याश्च पितरश्च मनोजवाः ॥ २.११.४४ ॥

诸阿底提亚、婆苏、楼陀罗、摩录多,二阿输心,一切天神、萨提亚神,以及迅如意念的祖灵。

2.11.45

पितृणां च गणान्विद्धि सप्तैव पुरुषर्षभ ।
मूर्तिमन्तो वै चत्वारस्त्रयश्चापि शरीरिणः ॥ २.११.४५ ॥

人中雄牛啊,应知祖灵之众有七:其中四者具有形体,三者亦有身躯。

2.11.46

वैराजश्च महाभागा अग्निष्वात्ताश्च भारत ।
गार्हपत्या नाकचराः पितरो लोकविश्रुताः ॥ २.११.४६ ॥

婆罗多之子啊,有韦罗阇、大福的阿耆尼什瓦特,以及家火祖灵,皆行于天界,名扬诸界。

2.11.47

सोमपा एकशृङ्गाश्च चतुर्वेदाः कलास्तथा ।
एते चतुर्षु वर्णेषु पूज्यन्ते पितरो नृप ॥ २.११.४७ ॥

饮苏摩者、独角者、通四吠陀者,以及迦罗祖灵,王啊,这些祖灵在四种姓中皆受供奉。

2.11.48

एतैराप्यायितैः पुर्वं सोमश्चाप्याय्यते पुनः ।
त एते पितरः सर्वे प्रजापतिमुपस्थिताः ॥ २.११.४८ ॥

先被他们滋养之后,苏摩也再次得到滋养;这些祖灵都来到了主生者面前。

2.11.49

उपासते च संहृष्टा ब्रह्माणममितौजसम् ।
राक्षसाश्च पिशाचाश्च दानवा गुह्यकास्तथा ॥ २.११.४९ ॥

罗刹、毕舍遮、檀那婆与药叉亦欢喜地侍奉无量威力的梵天。

2.11.50

नागाः सुपर्णाः पशवः पितामहमुपासते ।
स्थावरा जङ्गमाश्चैव महाभूतास्तथाऽपरे ॥ २.११.५० ॥

龙、金翅鸟、走兽、静物与动物,以及其他大元素,都侍奉祖父。

2.11.51

पुरन्दरश्च देवेन्द्रो वरुणो धनदो यमः ।
महादेवः सहोमोऽत्र सदा गच्छति सर्वशः ॥ २.११.५१ ॥

补兰达罗、天帝、伐楼那、财神、阎摩,以及与乌玛同在的大天,常在此处四处往来。

2.11.52

महासेनश्च राजेन्द्र सदोपास्ते पितामहम् ।
देवो नारायणस्तस्यां तथा देवर्षयश्च ये ॥ २.११.५२ ॥

诸王之主啊,摩诃塞那也常侍奉祖父;那里还有天神那罗延,以及在那里的天仙们。

2.11.53

ऋषयो वालखिल्याश्च योनिजायोनिजास्तथा ।
यच्च किञ्चित्रिलोकेऽस्मिन्दृश्यते स्थाणु जङ्गमम्।
सर्वं तस्यां मया दृष्टमिति विद्धि नराधिप ॥ २.११.५३ ॥

诸仙、婆罗希利耶、胎生与非胎生者,以及三界中所见的一切静物与动物——你要知道,人主啊,我都在那里见过。

2.11.54

अष्टाशीतिसहस्राणि ऋषीणामूर्ध्वरेतसाम् ।
प्रजावतां च पञ्चाशदृषीणामपि पाण्डव ॥ २.११.५४ ॥

般度之子啊,那里有八万八千位逆精的仙人,也有五十位有子嗣的仙人。

2.11.55

ते स्म तत्र यथाकामं दृष्ट्वा सर्वे दिवौकसः ।
प्रणम्य शिरसा तस्मै सर्वे यान्ति यथागमम् ॥ २.११.५५ ॥

诸天神在那里随意观看他,都低头向他致敬,然后各自依来路返回。

2.11.56

अतिथीनागतान्देवान्दैत्यान्नागांस्तथा द्विजान् ।
यक्षान्मुपर्णान्कालेयान्गन्धर्वाप्सरसस्तथा ॥ २.११.५६ ॥

作为客人而来的天神、檀那婆、龙、婆罗门、夜叉、金翅鸟、迦雷耶人、乾闼婆与阿普萨拉斯也都在那里。

2.11.57

महाभागानमितधीर्ब्रह्मा लोकपितामहः ।
दयावान्सर्वभूतेषु यथार्हं प्रतिपद्यते ॥ २.११.५७ ॥

世界之祖梵天,智慧无量,对一切众生怀有慈悲,依其身份礼待那些大福之人。

2.11.58

प्रतिगृह्य तु विश्वात्मा स्वयं स्वयम्भूरमितद्युतिः ।
सान्त्वमानार्थसम्भोगैर्युनक्ति मनुजाधिप ॥ २.११.५८ ॥

人主啊,宇宙之魂、自生、光辉无量的梵天亲自接纳他们,以安慰、尊荣、财富和享乐与之相连。

2.11.59

तथा तैरुपयातैश्च प्रतियद्भिश्च भारत ।
आकुला सा सभातात भवति स्म सुखप्रदा ॥ २.११.५९ ॥

婆罗多啊,亲爱的,那个大厅因来者与去者而充满,给人带来喜悦。

2.11.60

सर्वतेजोमयी दिव्या ब्रह्मर्षिगणसेविता ।
ब्राहया श्रिया दीप्यमाना शुशुभे विगतक्लमा ॥ २.११.६० ॥

那座由一切光辉构成的神圣大厅,有梵仙群众侍奉,因梵天的威光而熠熠生辉,毫无疲倦地闪耀着。

2.11.61

सा सभा तादृशी दृष्टा मया लोकेषु दुर्लभा ।
सभेयं राजशार्दूल मनुष्येषु यथा तव ॥ २.११.६१ ॥

王中之虎啊,这样的大殿我在诸世界中从未见过;在人间,你的这座大殿堪称罕见。

2.11.62

एता मया दृष्टपूर्वाः सभा देवेषु भारत ।
सभेयं मानुषे लोके सर्वश्रेष्ठतमा तव ॥ २.११.६२ ॥

婆罗多啊,这些大殿我先前在诸神之中见过;但在人间世界,你的这座大殿是所有之中最为卓越的。