摩诃婆罗多 · 章 2.13
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.13.1
ऋषेस्तद्वचनं श्रुत्वा निशश्वास युधिष्ठिरः ।
चिन्तयन्राजसूयेष्टिं न लेभे शर्म भारत ॥ २.१३.१ ॥
闻此仙人之言,坚战深深叹息。思虑罗阇苏耶祭祀,他得不到安宁,婆罗多啊。
2.13.2
राजर्षीणां च तं श्रुत्वा महिमानं महात्मनाम् ।
यज्वनां कर्मभिः पुण्यैर्लोकप्राप्तिं समीक्ष्य च ॥ २.१३.२ ॥
闻王仙与大德祭祀者的威德,观察他们以功德之业获得诸界。
2.13.3
हरिश्चन्द्रं च राजर्षि रोजमानं विशेषतः ।
यज्वानं यज्ञमाहर्तुं राजसूयमियेष सः ॥ २.१३.३ ॥
尤其是光辉的祭祀者王仙哈利什昌德罗,他愿意举行罗阇苏耶祭祀。
2.13.4
युधिष्ठिरस्ततः सर्वानर्चयित्वा सभासदः ।
प्रत्यर्चितश्च तैः सर्वैर्यज्ञायैव मनो दधे ॥ २.१३.४ ॥
于是坚战礼敬了所有的会众,他们也都礼敬了他;此后他便将心思专注于祭祀。
2.13.5
स राजसूयं राजेन्द्र कुरूणामृषभस्तदा ।
आहर्तुं प्रवणं चक्रे मनः सञ्चिन्त्य चासकृत् ॥ २.१३.५ ॥
众王之主啊,那位俱卢族中的雄牛反复思量,于是把心意倾向于举行罗阇苏耶祭祀。
2.13.6
भूयश्चाद्भुतवीर्यौजा धर्ममेवानुचिन्तयन् ।
किं हितं सर्वलोकानां भवेदिति मनो दधे ॥ २.१३.६ ॥
那位威力与勇猛非凡的人,又专心思念法,心想:"什么能利益一切世界?"于是他将心安住于此。
2.13.7
अनुगृह्णन्प्रजाः सर्वाः सर्वधर्मभृतां वरः ।
अविशेषेण सर्वेषां हितं चक्रे युधिष्ठिरः ॥ २.१३.७ ॥
坚守一切法度者中的最优者坚战,恩惠于所有臣民,不加分别地为所有人谋福利。
2.13.8
सर्वेषां दीयतां देयं मुष्णन्कोपमदावुभौ ।
साधु धर्मेति धर्मेति नान्यच्छ्रूयेत भाषितम् ॥ २.१३.८ ॥
应当给予的,都给予每个人;去除愤怒与傲慢,人们所听到的只有“善哉,这就是法,这就是法”。
2.13.9
एवं गते ततस्तस्मिन्पितरीवाश्वसञ्जनाः ।
न तस्य विद्यते द्रेष्टा ततोऽस्याजातशत्रुता ॥ २.१३.९ ॥
事情如此发生之后,百姓如同得到父亲般安慰;没有人憎恨他,因此他被称为阿阇多舍咄卢,即无敌者。
2.13.10
परिग्रहान्नरेन्द्रस्य भीमस्य परिपालनात् ।
शत्रूणां क्षपणाच्चैव बीभत्सोः सव्यसाचिनः ॥ २.१३.१० ॥
由于这位人主的接纳,由于怖军的守护,由于敌人的覆灭,也由于善用双手的射手、可畏者阿周那的功业。
2.13.11
बलीनां सम्यगुत्थानान्नकुलस्य यशस्विनः ।
धीमतः सहदेवस्य धर्माणामनुशासनात् ॥ २.१३.११ ॥
由于声名显赫的无种善于动员强者,由于智慧的偕天善于教导诸法。
2.13.12
वैनत्यात्सर्वतश्चैव नकुलस्य स्वभावतः ।
अविग्रहा वीतभयाः स्वकर्मनिरताः सदा ॥ २.१३.१२ ॥
由于无种四方皆谦逊,且本性如此,百姓始终无争斗、无恐惧,安于各自的职分。
2.13.13
निकामवर्षाः स्फीताश्च आसञ्जनपदास्तथा ।
वार्धुषी यज्ञसत्वानि गोरक्षं कर्षणं वणिक् ॥ २.१३.१३ ॥
降雨随时而至,国土与百姓都繁荣兴盛;放贷、祭祀所需之物、牧牛、耕作与商贸也都兴旺发达。
2.13.14
विशेषात्सर्वमेवैतत्सञ्जज्ञे राजकर्मणा ।
अनुकर्षं च निष्कर्षं व्याधिपावकमूर्छनम् ॥ २.१३.१४ ॥
尤其这一切都因国王的所作所为而发生:征收赋税、搜刮税敛,以及疫病与火灾的蔓延。
2.13.15
सर्वमेव न तत्रासीद्धर्मनित्ये युधिष्ठिरे ।
दस्युभ्यो वञ्चकेभ्यश्च राज्ञः प्रति परस्परम् ॥ २.१३.१५ ॥
在恒守法道的坚战治下,并非一切都具备:盗贼与骗子并未绝迹,诸王之间彼此也并非毫无敌意。
2.13.16
राजवल्लभतश्चैव नाश्रूयत मृषाकृतम् ।
प्रियं कर्तुमुपस्थातुं बलिकर्म स्वकर्मजम् ॥ २.१३.१६ ॥
即便凭借国王的恩宠,也听不到任何虚假之事;为取悦与奉侍而行的供奉之事,皆出于各人自身的职分。
2.13.17
अभिहर्तुं नृपाः षट्सु पृथक्जात्यैश्च नैगमैः ।
ववृधे विषयस्तत्र धर्मनित्ये युधिष्ठिरे ॥ २.१३.१७ ॥
诸王以六种方式、通过各类种姓与商人前来进献贡赋;在恒守法道的坚战治下,那片国土日益兴盛。
2.13.18
कामतोऽप्युपयुञ्जानै राजसैर्लोभजैर्जनैः ।
सर्वव्यापी सर्वगुणी सर्वसाहः स सर्वराट् ॥ २.१३.१८ ॥
即便是那些随意享受、带有王者气象、由贪欲而生的人,他也是无所不在、具备一切德性、能忍受一切并能征服一切的,是统御万方的君主。
2.13.19
यस्मिन्नधिकृतः सम्राड् भ्राजमानो महायशाः ।
यत्र राजन्दश दिशः पितृतो मातृतस्तथा।
अनुरक्ताः प्रजा आसन्नागोपाला द्विजातयः ॥ २.१३.१९ ॥
在他被立为君主的统治之下,光辉而名声显赫的他,啊国王,在十方,无论父系还是母系,臣民都心存归附;婆罗门与再生者,甚至牧人,也都归附。
2.13.20
स मन्त्रिणः समानाय्य भ्रातृंश्च वदतां वरः ।
राजसूयं प्रति तदा पुनः पुनरपृच्छत ॥ २.१३.२० ॥
言辞最善的他,召集大臣与兄弟们,便反复询问关于王祭(罗阇苏耶)之事。
2.13.21
ते पृच्छ्यमानाः सहिता वचोऽर्थ्यं मन्त्रिणस्तदा ।
युधिष्ठिरं महाप्राज्ञं यियक्षुमिदमब्रुवन् ॥ २.१३.२१ ॥
于是大臣们被询问后,共同以有意义的话语,对欲行祭祀的大智慧者坚战说了这些话。
2.13.22
येनाभिषिक्तो नृपतिर्वारुणं गुणमृच्छति ।
तेन राजाऽपि तं कुत्स्नं सम्राड्गुणमभीप्सृति ॥ २.१३.२२ ॥
受灌顶的国王借此得到伐楼那的德性,国王也借此渴望那完整的转轮王之德。
2.13.23
तस्य सम्राड्गुणार्हस्य भवतः कुरुनन्दन ।
राजसूयस्य समयं मन्यन्ते सुहृदस्तव ॥ २.१३.२३ ॥
啊,俱卢族的喜悦者,对于配得上转轮王之德的你,你的友人们认为现在正是行王祭的合适时机。
2.13.24
तस्य यज्ञस्य समयः स्वाधीनः क्षत्रसम्पदा ।
साम्ना षडग्नयो यस्मिंश्चीयन्ते शंसितव्रतैः ॥ २.१३.२४ ॥
该祭祀的时机,凭刹帝利的财富可自行决定;在其中,持守受赞誉之誓愿者以娑摩歌诵聚集六火。
2.13.25
दर्वीहोमानुपादाय सर्वान्यः प्राप्नुते क्रतून् ।
अभिषेकं च यज्ञान्ते सर्वजित्तेन चोच्यते ॥ २.१३.२५ ॥
凡行勺供、得成一切祭祀并于祭末受灌顶者,名为「一切胜者」(sarvajit)。
2.13.26
समर्थोऽसि महाबाहो सर्वे ते वशगा वयम् ।
अचिरात्त्वं महाराज राजसूयमवाप्स्यसि ॥ २.१३.२६ ॥
大力王啊,你有能力;我们都听从你的驱使。大王,你不久便将成就王祭(rājasūya)。
2.13.27
अविचार्य महाराज राजसूये मनः कुरु ।
इत्येवं सुहृदः सर्वे पृथक्च सह चाब्रुवन् ॥ २.१३.२७ ॥
大王,勿再迟疑,且将心意专注于王祭——众位友人或个别、或合力,皆如此进言。
2.13.28
स धर्म्यं पाण्डवस्तेषां वचः श्रुत्वा विशाम्पते ।
धृष्टमिष्टं वरिष्टं च जग्राह मनसाऽरिहा ॥ २.१३.२८ ॥
百姓之主啊,那位般度之子听闻他们合乎法的言语,这位敌人的克星以为其坚定、可喜且最为殊胜,遂于心中接受。
2.13.29
श्रुत्वा सुहृद्वचस्तच्च जानंश्चाप्यात्मनः क्षमम् ।
स प्रशस्तक्रियारम्भः परीक्षामुपचक्रमे ॥ २.१३.२९ ॥
闻友人之言,又自知其身所宜,便开始审度此一值得称赞之事。
2.13.30
चतुर्भिर्भीमसेनाद्यैर्भ्रातृभिः सहितो हितम् ।
एवमुक्तस्तथा पार्थो धर्म एव मनो दधे ॥ २.१३.३० ॥
普利塔之子与以怖军为首的四位兄弟同在,闻此劝言,遂接受这利益之言,将心意专一地安住于法。
2.13.31
स राजसूयं राजेन्द्रः कुरूणामृषभः क्रतुम् ।
जगाम मनसा सद्य आहरिष्यन्युधिष्ठिरः ॥ २.१३.३१ ॥
诸王之王、俱卢族中的雄牛坚战,当即在心中决定举行王祭(Rājasūya)。
2.13.32
भूयस्त्वद्भुतवीर्योपि धर्ममेवानुपालयन् ।
पुनः पुनर्मनो दध्रे राजसूयाय भारत ॥ २.१३.३२ ॥
虽有非凡的威力,却始终遵守法(dharma),婆罗多啊,他一再把心思放在王祭上。
2.13.33
स भ्रातृभिः पुनर्धीमानृत्विग्निश्च महात्मभिः ।
मन्त्रिभिश्चापि सहितो धर्मराजो युधिष्ठिरः ॥ २.१३.३३ ॥
智慧的法王坚战,再与兄弟们、大德的祭司们和大臣们(商议)。
2.13.34
धौम्यद्वैपायनाद्यैश्च मन्त्रयामास मन्त्रवित् ।
विराटद्रुपदाभ्यां च सात्यकेन च धीमता ॥ २.१३.३४ ॥
精通谋略的坚战与仙人(Dhaumya)、毗耶娑(Dvaipāyana)等人商议,并与毗罗吒、德鲁帕达及智者萨谛奇商议。
2.13.35
युधामन्यूत्तमौजोभ्यां सौभद्रेण च धीमता ।
द्रौपदेयैः परं शूरैर्मन्त्रयामास संवृतः ॥ २.१३.३५ ॥
坚战被德罗波蒂的诸子等最勇敢的英雄环绕,并与优陀摩尤、乌塔玛乌贾斯以及智者苏跋陀罗之子商议。
2.13.36
भवन्तो राजसूयस्य सम्राडर्हस्य सुक्रतोः ।
श्रद्दधानस्य वदत ममावाप्तिः कथं भवेत् ॥ २.१३.३६ ॥
诸位尊者,请告诉我,我这虔信之人,如何才能成就适合转轮王的善祭——王祭(Rājasūya)。
2.13.37
एवमुक्तास्तु ते तेन राज्ञा राजीवलोचन ।
इदमूचुर्वचः काले धर्मराजं युधिष्ठिरम् ॥ २.१३.३७ ॥
国王如此说后,莲花眼者啊,他们适时地对法王坚战说了这些话。
2.13.38
अर्हस्त्वमसि धर्मज्ञ राजसूयं महाक्रतुम् ।
अथैवमुक्ते नृपतावृत्विग्भिर्ऋषिभिस्तथा ॥ २.१३.३८ ॥
你堪当大王祭(拉贾苏耶)之祭,知法者啊。国王如此说后,祭司与仙人也如此说……
2.13.39
मन्त्रिणो भ्रातरश्चास्य तद्वचः प्रत्यपूजयन् ।
स तु राजा महाप्राज्ञः पुनरेवात्मनाऽऽत्मवान् ॥ २.१३.३९ ॥
大臣与兄弟们赞同了他的那些话。然而那位大智、自制的国王又一次自己……
2.13.40
भूयो विममृशे पार्थो लोकानां हितकाम्यया ।
सामर्थ्ययोगं सम्प्रेक्ष्य देशकालौ व्ययागमौ ॥ २.१३.४० ॥
出于对诸世界福祉的愿望,普利塔之子再次思量;审视了力量的配合、地点与时机、开支与收入之后……
2.13.41
विमृश्य सम्यक् च धिया कुर्वन्प्राज्ञो न सीदति ।
नहि यज्ञसमारम्भः केवलात्मविनिश्चयात् ॥ २.१३.४१ ॥
智者以智慧充分思量后行事,便不会动摇。祭祀的开始,不会仅仅出于自己的决心。
2.13.42
भवतीति समाज्ञाय यत्नतः कार्यमुद्वहन् ।
स निश्चयार्थं कार्यस्य कृष्णमेव जनार्दनम् ॥ २.१३.४२ ॥
深知此事必成,并以努力承担此事,他为决定此事,便求问克里希那,即生主(Janārdana)本人……
2.13.43
सर्वलोकात्परं मत्वा जगाम मनसा हरिम् ।
अप्रमेयं महाबाहुं कामाञ्जातमजं नृषु ॥ २.१३.४३ ॥
他认为此人高于一切世界,便在心中忆念哈里:那不可量度、臂力强大、因意愿而降生于人间的无生者。
2.13.44
पाण्डवस्तर्कयामास कर्मभिर्देवसंमतैः ।
नास्य किञ्चिदविज्ञातं नास्य किञ्चिदकर्मजम् ॥ २.१३.४४ ॥
般度之子从诸神所喜的功业中推断他:没有他不知道的事,他身上也没有不由行动而生的东西。
2.13.45
न स किञ्चिन्न विषहेदिति कृष्णममन्यत ।
स तु तां नैष्ठिकीं बुद्धिं कृत्वा पार्थो युधिष्ठिरः ॥ २.१३.४५ ॥
他认为克里希那'无法忍受任何事'。般度之子(Pṛthā之子)坚毅王子(Yudhiṣṭhira)便定下那坚定的决心。
2.13.46
गुरुवद्भूतगुरवे प्राहिणोद्दूतमञ्जसा ।
शीघ्रगेन रथेनाशु स दूतः प्राप्य यादवान् ॥ २.१३.४६ ॥
他如同对待长辈一般,立即派遣使者前往众生之师处;使者乘快车迅速抵达了耶达瓦人。
2.13.47
द्वारकावासिनं कृष्णं द्वारवत्यां समासदत् ।
स प्रभुं प्राञ्जलिर्भूत्वा व्यज्ञापयत माधवम् ॥ २.१३.४७ ॥
他来到居住在杜瓦拉瓦蒂(Dvārakā)的克里希那处;合掌而立,向主宰者摩陀婆(Mādhava)禀告。
2.13.48
धर्मराजो हृषीकेश धौम्यव्यासादिभिः सह ।
पाञ्चालमात्स्यसहितैर्भ्रातृभिश्चैव सर्वशः ॥ २.१३.४८ ॥
'哦,希利舍键(Hṛṣīkeśa)!法王(Dharma-rāja,即坚战)与达乌米亚、毗耶娑等人,与般遮罗人和鱼国人,以及诸兄弟,一切皆...'
2.13.49
त्वद्दर्शनं महाबाहो काङ्क्षते स युधिष्ठिरः ॥ २.१३.४९ ॥
大臂者啊,那位坚战渴望见到你。
2.13.50
इन्द्रसेनवचः श्रुत्वा यादवप्रवरो बली ।
दर्शनाकाङ्क्षिणं पार्थं दर्शनाकाङ्क्षयाच्युतः ॥ २.१३.५० ॥
阿周那的同伴因陀罗舍那的话传来后,最强的耶达瓦人阿可由多,因渴望见到贡族的阿周那,便动身了。
2.13.51
आमन्त्र्य राजन्सुहृदो वसुदेवं च माधवः ।
इन्द्रसेनेन सहित इन्द्रप्रस्थमगात्तदा।
व्यतीत्य विविधान्देशांस्त्वरावान्क्षिप्रवाहनवः ॥ २.१३.५१ ॥
大王啊,与朋友及婆苏提婆告别后,摩陀婆便与因陀罗舍那一同前往因陀罗普拉斯塔。他经过各地,乘快速车驾急速前进。
2.13.52
इन्द्रप्रस्थगतं पार्थमभ्यगच्छज्जनार्दनः ।
स गृहे पितृवद्धात्रा धर्मराजेन पूजितः ॥ २.१३.५२ ॥
耶那达那来到住在因陀罗普拉斯塔的贡族(阿周那)身边。在家中,兄长法王如对待父亲一般尊敬他。
2.13.53
भीमेन च ततोऽपश्यत्स्वसारं प्रीतिमान्पितुः ।
प्रीतः प्रीतेन सुहृदा रेमे स सहितस्तदा ॥ २.१३.५३ ॥
随后,他与毗摩一同欣喜地见到了父亲的姐妹;他满心喜悦,与欢欣的挚友一起,当时便感到快乐。
2.13.54
अर्जुनेन यमाभ्यां च गुरुवत्पर्युपासितः ।
तं विश्रान्तं शुभे देशे क्षणिनं कल्पमच्युतम्।
धर्मराजः समागम्य ज्ञापयत्स्वप्रयोजनम् ॥ २.१३.५४ ॥
阿周那与阎摩的两个儿子像对待老师一样侍奉他。阿可由多在一处好地方稍作休息时,法王前来与他相见,告知了自己的事由。
2.13.55
प्रार्थितो राजसूयो मे न चासौ केवलेप्सया ।
प्राप्यते येन तत्ते हि विदितं कृष्ण सर्वशः ॥ २.१३.५५ ॥
我渴望举行王权祭(Rājasūya),但仅凭渴望并不能得到它。黑天啊,你完全知道它由何种途径获得。
2.13.56
यस्मिन्सर्वं सम्भवति यश्च सर्वत्र पूज्यते ।
यश्च सर्वेश्वरो राजा राजसूयं स विन्दति ॥ २.१३.५६ ॥
凡具备一切可能、受到处处尊崇、且为众主之王者,方能获得王权祭。
2.13.57
तं राजसूयं सुहृदः कार्यमाहुः समेत्य मे ।
तत्र मे निश्चिततमं तव कृष्ण गिरा भवेत् ॥ २.१३.५७ ॥
朋友们聚在一起,都说应当举行那王权祭。黑天啊,在此事上,你的话将是我最确定的决断。
2.13.58
केचिद्धि सौहृदा देवे न दोषं परिचक्षते ।
स्वार्थहेतोस्तथैवान्ये प्रियमेव वदन्त्युत ॥ २.१३.५८ ॥
有些友善之人不指出你这位天神的过失;同样,另一些人为了自己的利益,只说令人喜悦的话。
2.13.59
प्रियमेव परीप्सन्ते केचिदात्मनि यद्धितम् ।
एवम्प्रायाश्च दृश्यन्ते जनवादाः प्रयोजने ॥ २.१३.५९ ॥
有些人只为自己寻求令人喜悦和有利的东西;在这类事情上,常常可见这样的世俗议论。
2.13.60
त्वं तु हेतूनतीत्यैतान्कामक्रोधौ व्युदस्य च ।
परमं यत्क्षमं लोके यथावद्वक्तुमर्हसि ॥ २.१३.६० ॥
然而你应超越这些动机,抛弃欲望与愤怒,如实说出世间最为适宜的道理。