摩诃婆罗多 · 章 2.15
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.15.1
उक्तं त्वया बुद्धिमता यन्नान्यो वक्तुमर्हति ।
संशयानां हि निर्मोक्ता त्वन्नान्यो विद्यते भुवि ॥ २.१५.१ ॥
智者您所说的,别人无法说出。大地上除您之外,没有人能使人摆脱疑惑。
2.15.2
गृहे गृहे हि राजानः स्वस्य स्वस्य प्रियङ्कराः ।
न च साम्राज्यमाप्तास्ते सम्राट्शब्दो हि कृच्छ्रभाक्। ॥ २.१५.२ ॥
家家都有国王,各自做自己喜欢的事。但他们并未获得帝国;“皇帝”之称号是承受艰辛的。
2.15.3
कथं परानुभावज्ञः स्वं प्रशंसितुमर्हति ।
परेण समवेतस्तु यः प्रशस्यः स पूज्यते ॥ २.१५.३ ॥
了解他人力量的人,怎能自我称赞?与他人相合而值得称赞的人,才受到尊敬。
2.15.4
विशाला बहुला भूमिर्बहुरत्नसमाचिता ।
दूरं गत्वा विजानाति श्रेयो वृष्णिकुलोद्वह ॥ २.१५.४ ॥
这广阔而富饶、充满众多宝物的大地,人走得远了才能知道什么是善。啊,支撑伐希尼族的人。
2.15.5
शममेव परं मन्ये शमात्क्षेमं भवेन्मम ।
आरम्भे पारमेष्ठ्यं तु न प्राप्यमिति मे मतिः ॥ २.१५.५ ॥
我认为唯有平静才是至上的;我的安宁将来自平静。我的看法是,最高的统治权不能在开始时就获得。
2.15.6
एवमेते हि जानन्ति कुले जाता मनस्विनः ।
कश्चित्कदाचिदेतेषां भवेच्छ्रेष्ठो जनार्दन। ॥ २.१५.६ ॥
出身高贵家族、心胸豁达的人就是这样明白的。啊,甘陀那,他们之中或许有人有朝一日会成为最优秀的。
2.15.7
वयं यैव महाभाग जरासन्धभयात्तदा ।
शङ्किताः स्म महाभाग द्वौरात्म्यात्तस्य चानघ ॥ २.१५.७ ॥
大福者啊,当时我们因惧怕迦罗三十而心惊,无垢者啊,也因他的欺诈而心惊。
2.15.8
अहं हि तव दुर्धर्ष भुजवीर्याश्रयः प्रभो ।
नात्मानं बलिनं मन्ये त्वयि तस्माद्विशङ्किते ॥ २.१५.८ ॥
无敌者啊,主啊,我依靠的正是你双臂的力量;因此我不认为自己强大,甚至对你也心存疑虑。
2.15.9
त्वत्सकाशाच्च रामाच्च भीमसेनाच्च माधव ।
अर्जुनाद्वा महाबाहो हन्तुं शक्यो नवेति वै।
एवं जानन्हि वार्ष्णेय विमृशामि पुनः पुनः ॥ २.१५.९ ॥
他能否被你、罗摩、比玛塞纳或阿周那杀死,哦摩陀婆,哦大臂者,哦婆利施尼后裔,知道这一点,我反复思量。
2.15.10
त्वं मे प्रमाणभूतोऽसि सर्वकार्येषु केशव ।
तच्छ्रुत्वा चाब्रवीद्भीमो वाक्यं वाक्यविशारदः ॥ २.१५.१० ॥
哦羯舍婆,在一切事务中你都是我的权威。比玛听了这话,这位善于言辞的人说出了这番话。
2.15.11
अनारम्भपरो राजा वल्मीक इव सीदति ।
दुर्बलश्चानुपायेन बलिनं योऽधितिष्ठति ॥ २.१५.११ ॥
耽于无为的国王如蚁穴般衰败;弱者若无计谋地抵抗强者,也同样如此。
2.15.12
अतन्द्रितश्च प्रायेण दुर्बलो बलिनं रिपुम् ।
जयेत्सम्यक्प्रयोगेण नीत्याऽर्थानात्मनो हितान् ॥ २.१५.१२ ॥
通常不知疲倦、保持警觉的弱者,也能凭借恰当的运用与策略,实现对自身有益的目标,从而战胜强大的敌人。
2.15.13
कृष्णे नयो मयि बलं जयः पार्थे धनञ्जये ।
मागधं साधयिष्याम इष्टिं त्रय इवाग्नयः ॥ २.१५.१३ ॥
克里希那有策略,我有力量,般度之子德干阇耶有胜利;我们将成就摩揭陀之事,正如三火成就祭祀。
2.15.14
त्वद्बुद्धिबलमाश्रित्य सर्वं प्राप्स्यति धर्मराट् ।
जयोऽस्माकं हि गोविन्द येषां नाथो भवान्सदा ॥ २.१५.१४ ॥
依靠你的智慧和力量,法王将获得一切;戈文达,我们的胜利是确定的,因为你始终是我们的主宰。
2.15.15
अर्थानारभते बालो नानुबन्धमवेक्षते ।
तस्मादरिं न मृष्यन्ति बालमर्थपरायणम् ॥ २.१५.१५ ॥
愚人开始谋求利益,却不考虑后果;因此,敌人不容忍一个专注于私利的愚人。
2.15.16
जित्वा जय्यान्यौवनाश्विः पालनाच्च भगीरथः ।
कार्तवीर्यस्तपोवीर्याद्बलात्तु भरतो विभुः ॥ २.१५.१६ ॥
誓瓦纳施瓦以征服,婆伽罗陀以护民,迦尔达维利耶以苦行之力,威严的婆罗多以武力,各自获得了帝国。
2.15.17
ऋद्ध्या मरुत्तस्तान्पञ्च सम्राजस्त्वनुशुश्रुम ।
सर्वान्वंश्याननुमृशन्नैते सन्ति युगे युगे ॥ २.१५.१७ ॥
摩卢多以富足(而著称);那五位君王及整个家族的后裔,我们都听说过。仔细思量,这样的人并非每个时代都有。
2.15.18
साम्राज्यमिच्छतस्ते तु सर्वाकारं युधिष्ठिर ।
निग्राह्यलक्षणं प्राप्तिर्धर्मार्थनयलक्षणैः ॥ २.१५.१८ ॥
坚战啊,你渴望帝国的统治,就必须在各方面:认识应当被制服者的标志,并依法、利、政策的标志去获取。
2.15.19
बार्हद्रथो जरासन्धस्तद्विद्धि भरतर्षभ ।
न चैनं प्रत्यत्युद्ध्यन्त कुलान्येकशतं नृपाः ॥ २.१५.१९ ॥
婆罗多族的雄牛啊,你要知道,布利哈德罗陀之子迦罗山陀便是如此。即便百族的诸王也不敢与他交战。
2.15.20
तस्मादिह बलादेव साम्राज्यं कुरुते हि सः ॥ २.१५.२० ॥
因此,他在此仅凭武力确立霸权。
2.15.21
रत्नभाजो हि राजानो जरासन्धमुपासते ।
न च तुष्यति तेनापि बाल्यादनयमास्थितः ॥ २.१५.२१ ॥
进贡宝物的诸王侍奉迦罗山陀,然而他即使对他们也不满足,因为他自幼便行不义。
2.15.22
मूर्धाभिषिक्तं नृपतिं प्रधानपुरुषो बलात् ।
आदत्ते न च नो दृष्टोऽभागः पुरुषतः क्वचित् ॥ २.१५.२२ ॥
首领甚至会用武力从加冕的国王那里夺取。我们从未见过有人这样被剥夺而毫无份额。
2.15.23
एवं सर्वान्वशे चक्रे जरासन्धः शतावरान् ।
तं दुर्बलतरो राजा कथं पार्थ उपैष्यति ॥ २.१५.२३ ॥
如此,迦罗山陀已将百余位诸王尽数降服。那么,般遮子(阿周那)又怎能去见那位更为弱小的国王呢?
2.15.24
तण्डुलप्रस्थके राजा कपर्दिनमुपासते ।
प्रोक्षितानां प्रमृष्टानां राज्ञां पशुपतेर्गृहे।
पशूनामिव प्रमृष्टानां राज्ञां पशुपतेर्गृहे। ॥ २.१५.२४ ॥
诸王在一斗米处供奉迦波丁(湿婆)。在主兽神(湿婆)的居所中,住着被洒净、被洗净的诸王,就像为祭祀而洒水洗净的牲畜一样。
2.15.25
क्षत्रियः शस्त्रमरणो यदा भवति सत्कृतः ।
ततः स्म मागधं सङ्ख्ये प्रतिबाधेम यद्वयम् ॥ २.१५.२५ ॥
当死于兵器的刹帝利受到尊崇时,我们便可以在战斗中阻挡摩揭陀王(沙罗萨陀)。
2.15.26
षडशीतिः समानीताः शेषा राजंश्चतुर्दश ।
जरासन्धेन राजानस्ततः क्रूरं प्रवर्त्स्यते ॥ २.१५.२६ ॥
大王啊,沙罗萨陀已召集八十六位国王,其余十四位也将被召集;那时将会发生残酷之事。
2.15.27
प्राप्नुयात्स यशो दीप्तं तत्र यो विघ्नमाचरेत् ।
जयेद्यश्च जरासन्धं स सम्राण्णियतं भवेत् ॥ २.१५.२७ ॥
在那里设置障碍的人将获得光辉的名声;击败沙罗萨陀的人必定成为君临天下的统治者。