Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 2.16

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

2.16.1

सम्राड्गुणमभीप्सन्वै युष्मान्स्वार्थपरायणः ।
कथं प्रहिणुयां कृष्ण सोऽहं केवलसाहसात् ॥ २.१६.१ ॥

クリシュナよ、王者の徳を望み、自らの利益に執着して、どうしてあなた方を遣わせようか。それは単なる無謀である。

2.16.2

भीमार्जुनावुभौ नेत्रे मनो मन्ये जनार्दनम् ।
मनश्चक्षुर्विहीनस्य कीदृशं जीवितं भवेत् ॥ २.१६.२ ॥

ビーマとアルジュナは私の両眼であり、ジャナールダナを私の心と思っている。心と眼を失った者の命はどのようなものだろうか。

2.16.3

जरासन्धबलं प्राप्य दुष्पारं भीमविक्रमम् ।
यमोपि न विजेताऽऽजौ तत्र वः किं विचेष्टितम् ॥ २.१६.३ ॥

ジャラーサンダの難攻不落で恐るべき武勇の力に出会えば、ヤマ神でさえ戦で彼に勝てはしない。そこであなた方の企ては何を成しうるだろうか。

2.16.4

अस्मिंस्त्वर्थान्तरे युक्तमनर्थः प्रतिपद्यते ।
तस्मान्न प्रतिपत्तिस्तु कार्या युक्ता मता मम ॥ २.१६.४ ॥

しかしこの別の件においては、適切に思えることがかえって災いを招く。ゆえに私の考えでは、その道を取るべきではない。それこそが適切である。

2.16.5

यथाऽहं विमृशाम्येकस्तत्तावच्छ्रूयतां मम ।
संन्यासं रोचये साधु कार्यस्यास्य जनार्दन।
प्रतिहन्ति मनो मेऽद्य राजसूयो दूराहरः ॥ २.१६.५ ॥

まず私が一人で考えることを聞いてほしい。ジャナールダナよ、この事に対しては、出離こそが良いと私は思う。今日、得難いラージャスーヤ祭が私の心を引き止めている。

2.16.6

पार्थः प्राप्य धनुः श्रेष्ठमक्षय्यौ च महेषुधी ।
रथं ध्वजं हयांश्चैव युधिष्ठिरमभाषत ॥ २.१६.६ ॥

パールタは優れた弓と、尽きることのない二つの大きな箙を得た。戦車、旗、馬をも得て、ユディシュティラに語った。

2.16.7

धनुः शस्त्रं शरा वीर्यं पक्षो भूमिर्यशो बलम् ।
प्राप्तमेतन्मय राजन्दुष्प्रापं यदभीप्सितम्। ॥ २.१६.७ ॥

弓、武器、矢、勇気、味方、土地、名声、力——王よ、得難く、私が望んでいたもの、そのすべてを私は手に入れた。

2.16.8

कुले जन्म प्रशंसन्ति वैद्याः साधु सुनिष्ठिताः ।
बलेन सदृशं नास्ति वीर्यं तु मम रोचते। ॥ २.१६.८ ॥

学識ある人々は良き家柄の生まれを称賛するが、力に並ぶものはない。私に好ましく思えるのは勇気である。

2.16.9

कृतवीर्यकुले जातो निर्वीर्यः किं करिष्यति ।
निर्वीर्ये तु कुले जातो वीर्यवांस्तु विशिष्यते ॥ २.१६.९ ॥

クリタヴィーリヤの家系に生まれても、勇気のない者に何ができようか。しかし勇気なき家系に生まれても、勇者こそが傑出する。

2.16.10

क्षत्रियः सर्वशो राजन्यस्य वृत्तिर्द्विषज्जये ।
सर्वैगुणैर्विहीनोऽपि वीर्यवान्हि तरेन्द्रिपून् ॥ २.१६.१० ॥

クシャトリヤの務めは、まさに王者の戦士としてのもの、すなわち敵を征服することである。すべての美徳を欠いていても、勇者であれば確かに敵を打ち破る。

2.16.11

सर्वैरपि गुणैर्युक्तो निर्वीर्यः किं करिष्यति ।
जयस्य हेतुः सिद्धिर्हि कर्म दैवं च संश्रितम् ॥ २.१६.११ ॥

すべての美徳を備えていても、勇気のない者に何ができようか。勝利の因は成就であり、成就はまさに行為と運命に依っている。

2.16.12

संयुक्तो हि बलैः कश्चित्प्रमादान्नोपयुज्यते ॥ २.१६.१२ ॥

力を備えていても、怠慢のためにそれを用いない者もいる。

2.16.13

तेन द्वारेण शत्रुभ्यः क्षीयते सबलो रिपुः ॥ २.१६.१३ ॥

その門を通じて、軍勢を伴う敵は敵によって衰えさせられる。

2.16.14

दैन्यं यथा बलवति तथा मोहो बलान्विते ।
तावुभौ नाशकौ हेतू राज्ञा त्याज्यौ जयार्थिना ॥ २.१६.१४ ॥

強者の卑屈と、力ある者の迷妄――この二つは滅びの原因であり、勝利を求める王はこれを捨てるべきである。

2.16.15

जरासन्धिविनाशं च राज्ञां च परिरक्षणम् ।
यदि कुर्याम् यज्ञार्थं किं ततः परमं भवेत् ॥ २.१६.१५ ॥

もし祭祀のためにジャラーサンダを滅ぼし、諸王を守るならば、それより高いものが何かあろうか。

2.16.16

अनारम्भे हि नियतो भवेदगुणनिश्चयः ।
गुणान्निः संशयाद्राजन्नैर्गुण्यं मन्यसे कथम् ॥ २.१६.१६ ॥

行為を始めなければ、無徳の判定は必ず定まる。徳から疑いなく――王よ、なぜ汝は無徳と考えるのか。

2.16.17

काषायं सुलभं पश्चान्मुनीनां शममिच्छताम् ।
साम्राज्यं तु भवेच्छक्यं वयं योत्स्यामहे परान् ॥ २.१६.१७ ॥

寂静を求める聖者にとって、後からでも黄衣は容易に得られる。しかし帝国は成し遂げられるだろう。我らは敵と戦おう。