Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 2.17

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.17.1

जातस्य भारते वंशे तथा कुन्त्याः सुतस्य च ।
या वै युक्ता मतिः सेयमर्जुनेन प्रदर्शिता ॥ २.१७.१ ॥

这正是出生于婆罗多族、作为贡蒂之子的阿周那所展现的恰当智慧。

2.17.2

न स्म मृत्युं वयं विद्म रात्रौ वा यदि वा दिवा ।
न चापि कञ्चिदमरमयुद्धेनानुशुश्रुम ॥ २.१७.२ ॥

我们无论白天黑夜都不知道死亡何时降临,也从未听说有人不经战斗便成为不死之身。

2.17.3

एतावदेव पुरुषैः कार्यं हृदयतोषणम् ।
नयेन विधिदृष्टेन यदुपक्रमते परान् ॥ २.१७.३ ॥

人们应当做的只是这些:依照规定的策略攻击敌人,使心中欢喜。

2.17.4

सुनयस्यानपायस्य संयोगे परमः क्रमः ।
सङ्गत्या जायतेऽसाम्यं साम्यं च न भवेद्द्वयोः ॥ २.१७.४ ॥

在良好而不失误的策略相结合之中,才有最高的方式;通过结交会产生不平等,双方之间便不再平等。

2.17.5

अनयस्यानुपायस्य संयुगे परमः क्षयटः ।
संशयो जायते साम्याज्जयश्च न भवेद्द्वयोः ॥ २.१७.५ ॥

在没有良好策略和手段的战斗中,最终结果是毁灭;由于势均力敌而生疑,双方都无法获胜。

2.17.6

ते वयं नयमास्थाय शत्रुदेशसमीपगाः ।
कथमन्तं न गच्छेम वृक्षस्येव नदीरयाः
पररन्ध्रे पराक्रान्ताः स्वरन्ध्रावरणे स्थिताः ॥ २.१७.६ ॥

我们依靠策略靠近敌国,怎会不走向终结,就像河流的冲击摧毁树木一样?攻击敌人的弱点之后,我们应站稳,守护自己的弱点。

2.17.7

व्यूढानीकैरतिबलैर्न युद्व्येदरिभिः सह ।
इति बुद्धिमतां नीतिस्तन्ममापीह रोचते ॥ २.१७.७ ॥

不应与拥有列阵军队和极大力量的敌人交战;这是智者的策略,在此我也认为可行。

2.17.8

अनवद्या ह्यसम्बुद्धाः प्रविष्टाः शत्रुसद्म तत् ।
शत्रुदेशमुपाक्रम्य तं कामं प्राप्नुयामहे ॥ २.१७.८ ॥

我们无可指摘且不被识破地进入敌人的住所;接近敌国之后,便可达成那个愿望。

2.17.9

एको ह्येव श्रियं नित्यं बिभर्ति पुरुषर्षभः ।
अन्तरात्मेव भूतानां तत्क्षयं नैव लक्षये ॥ २.१७.९ ॥

唯有他一人,人中之牛,常持福运,如同众生的内在自我;我看不到它的衰亡。

2.17.10

अथवैनं निहत्याजौ शेषेणापि समाहताः ।
प्राप्नुयाम ततः स्वर्गं ज्ञातित्राणपरायणाः ॥ २.१७.१० ॥

或者,在战斗中杀死他,即使被其余的人打伤,致力于保护亲族,我们便能获得天界。

2.17.11

कृष्ण कोऽयं जरासन्धः किंवीर्यः किम्पराक्रमः ।
यस्त्वां स्पृष्ट्वाऽग्निसदृशं न दग्धः शलभो यथा ॥ २.१७.११ ॥

克里希纳,这个迦罗山陀是谁?他的威力如何、勇武如何,竟能触碰你这如火之人而不像飞蛾一样被焚烧?

2.17.12

शृणु राजञ्जरासन्धो यद्वीर्यो यत्पराक्रमः ।
यथा चोपेक्षितोऽस्माभिर्बहुशः कृतविप्रियः ॥ २.१७.१२ ॥

请听,大王,迦罗山陀的威力与勇武如何,以及他屡次作恶,我们却为何对他置之不理。

2.17.13

अक्षौहिणीनां तिसृणां पतिः समरदर्पितः ।
राजा बृहद्रथो नाम मगधाधिपतिर्बली ॥ २.१७.१३ ॥

三个阿刹亨尼军团的主宰,好战而自负,名为勃呵陀罗陀的国王,摩揭陀之主,强大。

2.17.14

रूपवान्वीर्यसम्पन्नः श्रीमानतुलविक्रमः ।
नित्यं दीक्षाङ्किततनुः शतक्रतुरिवापरः ॥ २.१७.१४ ॥

容貌俊美,武勇充沛,光辉煦耀,威力无双,身上常有祭祀受戒的标记,如同另一位百祭之主因陀罗。

2.17.15

तेजसा सूर्यसङ्काशः क्षमया पृथिवीसमः ।
यश्चान्तकसमः क्रोधे श्रिया वैश्रवणोपमः ॥ २.१७.१५ ॥

光辉如日,忍耐如地,愤怒如阎摩,富足如毗沙门。

2.17.16

स्वराज्यं कारयामास मगधेषु गिरिव्रजे ।
तस्याभिजनसंयुक्तैर्गणैर्भरतसत्तम।
व्याप्तेयं पृथिवी सर्वा सूर्यस्येव गभस्तिभिः ॥ २.१७.१६ ॥

他在摩揭陀的耆利耶城统治自己的王国。婆罗多族最优秀的人啊,由他宗族所结合的军队,整个大地如同阳光普照般遍布。

2.17.17

स काशिराजस्य सुते यमजे भरतर्षभः ।
उपयेमे महावीर्यो रूपद्रविणसंयुते।
तयोश्चकार समयं मिथः स पुरुषर्षभः ॥ २.१७.१७ ॥

那位婆罗多族的雄牛,大威力者,娶了迦尸王的双生女儿,她们兼具美貌与财富。那位人中雄牛与她们两人互相立下了约定。

2.17.18

नातिवर्तिष्य इत्येवं पत्नीभ्यां सन्निधौ तदा ।
स ताभ्यां शुशुभे राजा पत्नीभ्यां वसुधाधिपः ॥ २.१७.१८ ॥

“我不会违背”——那时他在两位妻子面前如此发誓。那位大地之主的国王,与这两位妻子一同光彩照人。

2.17.19

प्रियाम्भामनुरूपाभ्यां करेणुभ्यामिव द्विपः ।
तयोर्मध्यगतश्चापि रराज वसुधाधिपः ॥ २.१७.१९ ॥

在两位所爱且相称的妻子之间,犹如象在两头母象之间,这位大地之主光彩照人。

2.17.20

गङ्गायमुनयोर्मध्ये मूर्तिमानिव सागरः ।
विषयेषु निमग्रस्य तस्य यौवनमत्यगात् ॥ २.१७.२० ॥

在恒河与亚穆纳河之间,犹如化身的大海,他沉溺于感官之乐,青春就此流逝。

2.17.21

न च वंशकरः पुत्रस्तस्याजायत कश्चन ।
मङ्गलैर्बभिर्होमैः पुत्रकामाभिरिष्टिभिः ॥ २.१७.२१ ॥

他竟没有生出能延续家族的儿子,即使以吉祥仪式、…、供养及为求子而行的祭祀亦然。

2.17.22

नाससाद नृपश्रेष्ठः पुत्रं कुलविवर्धनम् ।
स भार्याभ्यां च सहितो निर्वेदमगमद्धृशम् ॥ २.१७.२२ ॥

这位最优秀的国王未能得到一个光大家族的儿子;他与两位妻子一同陷入了深深的绝望。

2.17.23

राज्यं चापि परित्यज्य तपोवनमथाश्रयत् ।
वार्यमाणः प्रकृतिभिर्नृपभक्त्या विशाम्पते ॥ २.१७.२३ ॥

他甚至舍弃了王国,投入苦行之林,尽管,人民之主啊,臣民出于对国王的忠诚而加以阻拦。

2.17.24

अथ काक्षीवतः पुत्रं गौतमस्य महात्मनः ।
शुश्राव तपसि श्रेष्ठमुदारं चण्डकौशिकम् ॥ २.१७.२४ ॥

于是他听说了伟大的瞿昙之子、迦克希瓦特之子旃陀考希迦——苦行第一、高尚的人。

2.17.25

यदृच्छयाऽऽगतं तं तु वृक्षमूलमुपाश्रितम् ।
पत्नीभ्यां सहितो राजा सर्वयत्नैरतोषयत् ॥ २.१७.२५ ॥

那位偶然来到并停留在树根下的仙人,被与两位王后同行的国王以一切努力所取悦。

2.17.26

बृहद्रथं च स ऋषिर्यथावच्चाभ्यनन्दत ।
उपविष्टः स तेनाथ अनुज्ञातो महात्मना ॥ २.१७.२६ ॥

那位仙人按礼仪欢迎了Bṛhadratha;然后在这位大德的允许下,他坐下了。

2.17.27

तमपृच्छत्तदा विप्रः किमागमनमित्यथ ।
विप्रैरनुगतस्यैव पत्नीभ्यां सहितस्य च ॥ २.१७.२७ ॥

那时,那位婆罗门问他:“你来的原因是什么?”——他被婆罗门们簇拥,与两位王后同在。

2.17.28

स उवाच मुनिं राजा भगवन्नास्ति मे सुतः ।
अपुत्रस्य तु राज्येन वृद्धत्वे किं प्रयोजनम् ॥ २.१७.२८ ॥

国王对仙人说:“尊者,我没有儿子。对于没有儿子的人,王国与衰老又有什么用处呢?”

2.17.29

सोऽहं तपश्चरिष्यामि पत्नीभ्यां सहितो वने ।
नाप्रजस्य मुने किर्तिः स्वधा चैवाक्षया भवेत्।
एवमुक्तः स राज्ञा तु मुनिः कारुण्यमागतः ॥ २.१७.२९ ॥

“因此我将与两位王后在森林中修苦行。哦,仙人,对于没有后代的人,名声与祖先的供奉也不会永恒。”国王这样说时,那位仙人生出了悲悯之情。

2.17.30

तमब्रवीत्सत्यधृतिः सत्यवागृषिसत्तमः ।
परितुष्टोऽस्मि राजेन्द्र वरं वरय सुव्रत ॥ २.१७.३० ॥

那位坚守真理、言语诚实的仙人中的最上者对他说:“王中之王,我已欢喜。持善誓者啊,请选一个恩惠吧。”

2.17.31

ततः सभार्यः प्रणतस्तमुवाच बृहद्रथः ।
पुत्रदर्शननैराश्याद्बाष्पसन्दिग्धया गिरा ॥ २.१७.३१ ॥

于是毗诃陀罗陀与妻子一同俯身行礼,因绝望于见到儿子,以泪水哽咽的声音对他说道。

2.17.32

भगवन् राज्यमुत्सृज्य प्रस्थितस्य तपोवनम् ।
किं वरेणाल्पभाग्यस्य किं राज्येनाप्रजस्य मे ॥ २.१७.३२ ॥

尊者啊,我已舍弃王国、前往苦行林,福分微薄又无子嗣,要恩惠何用?要王国何用?

2.17.33

एतच्छ्रुत्वा मुनिर्ध्यानमगमन्क्षुभितेन्द्रियः ।
तस्यैव चाम्रवृक्षस्य छायायां समुपाविशत ॥ २.१७.३३ ॥

圣人听闻此言,心神略乱,便入定冥思,并坐在那棵芒果树的树荫之下。

2.17.34

तस्योपविष्टस्य मुनेरुत्सङ्गे निपपात ह ।
अवानमशुकादष्टमेकमाम्रफलं किल ॥ २.१७.३४ ॥

坐着的圣人膝上落下一颗被鹦鹉啄过的芒果。

2.17.35

तत्प्रगृह्य मुनिश्रेष्ठो हृदयेनाभिमन्त्र्य च ।
राज्ञे ददावप्रतिमं पुत्रसम्प्राप्तिकारणम् ॥ २.१७.३५ ॥

最杰出的圣人取过那果实,以心中的咒语为之加持,然后交给国王——这是获得子嗣无与伦比的因缘。

2.17.36

उवाच च महाप्राज्ञस्तं राजानं महामुनिः ।
गच्छ राजन्कृतार्थोऽसि निवर्तस्व नराधिप ॥ २.१७.३६ ॥

那位大智慧的大圣人对国王说:去吧,国王,你的心愿已经达成;回去吧,人主。

2.17.37

एष ते तनयो राजन्मा तपेह तपोवने ।
प्रजाः पालय धर्मेण एव धर्मो महीक्षिताम् ॥ २.१७.३७ ॥

国王啊,这是你的儿子。不要在这苦行林中修苦行。依法保护臣民,因为这正是君王的法。

2.17.38

यजस्व विविधैर्यज्ञैरिन्द्रं तर्पय चेन्दुना ।
पुत्रं राज्ये प्रतिष्ठाप्य तत आश्रममाव्रज ॥ २.१७.३८ ॥

举行各种祭祀,以苏摩取悦因陀罗。使你的儿子在王位上确立之后,然后再前往修行处。

2.17.39

अष्टौ वरान्प्रयच्छामि तव पुत्रस्य पार्थिव ।
ब्रह्मण्यत्वमजेयत्वं युद्धेषु च तथा मतिः ॥ २.१७.३९ ॥

国王啊,我赐予你的儿子八项恩典:敬重婆罗门,不可战胜,在战斗中的智慧,

2.17.40

प्रियातिथेयतां चैव दीनानामन्ववेक्षणम् ।
तथा बलं च सुभहल्लोके कीर्ति च शाश्वतीम् ॥ २.१७.४० ॥

好客,关怀困苦者,在世间的大力,以及永恒的名声,

2.17.41

अनुरागं प्रजानां चेत्येवमष्टौ वरान्नृप ।
गच्छ त्वं कृतकृत्योऽसि निवर्तस्व जनाधिप ॥ २.१७.४१ ॥

以及对臣民的爱护——国王啊,这便是八项恩典。去吧,你的使命已完成;回去吧,人主。

2.17.42

अनुज्ञातः स ऋषिणा पत्नीभ्यां सहितो नृपः ।
पौरैरनुगतश्चापि विवेश स्वपुरं ततः ॥ २.१७.४२ ॥

那位国王得到仙人的允许,与两位妃子同行,随着市民,随后进入了自己的城邑。

2.17.43

यथासमयमाज्ञाय तदा स नृपसत्तमः ।
द्वाभ्यामेकं फलं प्रादात्पत्नीभ्यां भरतर्षभ ॥ २.१७.४३ ॥

于是那位最优秀的国王,明白了恰当的时机,把一个果子给了两位妻子,婆罗多族的雄牛啊。

2.17.44

मुनेश्च बहुमानेन कालस्य च विपर्ययात् ।
ते तदाम्रं द्विधा कृत्वा भक्षयामासतुः शुभे। ॥ २.१७.४४ ॥

出于对仙人的极大敬重,又因时运的颠倒,她们把那颗芒果分成两半吃了,美人啊。

2.17.45

तयोः समभवद्गर्भः फलप्राशनसम्भवः ।
ते च दृष्ट्वा स नृपतिः परां मुदमवाप ह ॥ २.१७.४५ ॥

因食用那果实,两人都怀了孕;国王看到她们,获得了无上的喜悦。

2.17.46

अथ काले महाप्राज्ञ यथासमयमागते ।
जायेतामुभे राजञ्शरीरशकले तदा ॥ २.१७.४६ ॥

之后,大智者啊,时候到了,国王啊,那时两人都将以两段身体的形态出生。

2.17.47

एकाक्षिबाहुचरणे अर्धोदरमुखस्फिचे ।
दृष्ट्वा शरीरशकले प्रवेपतुरुभे भृशम् ॥ २.१७.४७ ॥

看到那些身体碎块——一只眼、一只臂、一条腿、半个腹、半张脸、半个臀——两人都剧烈地颤抖起来。

2.17.48

उद्विग्रे सह संमन्त्र्य ते भगित्यौ तदाऽबले ।
सजीवे प्राणिशकले तत्यजाते सुदुःखिते ॥ २.१७.४८ ॥

弱女啊,那时两姐妹惊惶地共同商议后,极度悲痛,抛弃了那些有生命的身体碎块。

2.17.49

तयोर्धात्र्यौ सुसंवीते कृत्वा ते गर्भसम्प्लवे ।
निर्गम्यान्तः पुरद्वारात्समुत्सृज्याभिजग्मतुः ॥ २.१७.४९ ॥

两位乳母把它们包裹好,在胎液涌出之际,从内宫门走出,将其抛下便离去了。

2.17.50

दुकूलाभ्यां सुसञ्छन्ने पाण्डराभ्यामुभे तदा ।
अज्ञाते कस्यचित्ते तु जहतुस्ते चतुष्पथे ॥ २.१७.५० ॥

用两块白色丝绸将二者裹好,无人察觉,他们把两者丢弃在十字路口。

2.17.51

ततो विविशतुर्धात्र्यौ पुनरन्तः पुरं तदा ।
कथयामासतुरुभे देवीभ्यां तु पृथक्पृथक् ॥ २.१७.५१ ॥

随后,两位乳母再次进入内宫,分别告诉了两位王后。

2.17.52

ते चतुष्पथनिक्षिप्ते जरा नामाथ राक्षसी ।
जग्राह मनुजव्याघ्र मांसशोणितभोजना ॥ २.१७.५२ ॥

人中之虎啊!那位名叫嚼罗(Jarā)、以血肉为食的罗刹女,抓起了放在十字路口的那二者。

2.17.53

कर्तुकामा सुखवहे शकले सा तु राक्षसी ।
संयोजयामास तदा विधानबलचोदिता ॥ २.१७.५३ ॥

罗刹女想要使其获得美满,受命运之力驱使,便将那两块碎片拼合在一起。

2.17.54

ते समानीतमात्रे तु शकले पुरुषर्षभ ।
एकमूर्तिधरो वीरः कुमारः समपद्यत ॥ २.१७.५४ ॥

人中之牛啊!二块碎片一经拼合,便有一位身具单一形体的英勇王子诞生了。

2.17.55

ततः सा राक्षसी राजन्विस्मयोत्फुल्ललोचना ।
न शशाक समुद्वोदुं वज्रसारमयं शिशुम् ॥ २.१७.५५ ॥

那時羅剎女,王啊,驚訝得睜大了眼睛,無法抱起那個由金剛精華製成的嬰孩。

2.17.56

बालस्ताम्रतलं मुष्टिं कृत्वा चास्ये निधाय सः ।
प्राक्रोशदतिसंरब्धः सतोय इव तोयदः ॥ २.१७.५६ ॥

那孩子將紅色的手掌握成拳頭放入口中,極為憤怒地大聲啼哭,如同盛滿水的雲。

2.17.57

तेन शब्देन सम्भ्रान्तः सहसाऽन्तः पुरे जनः ।
निर्जगाम नरव्याघ्र राज्ञा सह परन्तप ॥ २.१७.५७ ॥

聽到那聲音,後宮的人們突然驚慌,與國王一同走了出來,人中猛虎啊,敵人的焚燒者啊。

2.17.58

ते चाबले परिम्लाने पयः पूर्णपयोधरे ।
निराशे पुत्रलाभाय सहसैवाब्यगच्छताम् ॥ २.१७.५८ ॥

那兩位虛弱、憔悴、乳房盈滿乳汁的王后,因失去生子的希望,突然從那裡離去了。

2.17.59

ते च दृष्ट्वा तथाभूते राजानं चेष्टसंततिम् ।
तं च बालं सुबलिनं चिन्तयामास राक्षसी ॥ २.१७.५९ ॥

羅剎女看見國王處於那樣的情形以及他持續的努力,便思量那個極為強壯的孩子。

2.17.60

नार्हामि विषये राज्ञो वसन्ती पुत्रगृद्धिनः ।
बालं पुत्रमिमं हन्तुं धार्मिकस्य महात्मनः ॥ २.१७.६० ॥

我居住在這位渴望兒子的國王的領地上,殺害這位正法而偉大的國王的幼子,對我來說是不應該的。

2.17.61

सा तं बालमुपादाय मेघलेखेन भास्करम् ।
कृत्वा च मानुषं रूपमुवाच वसुधाधिपम् ॥ २.१७.६१ ॥

她抱起那个孩子,身如云线中的太阳般光辉,化为人形,对大地之主说道。

2.17.62

बृहद्रथ सुतस्तेऽयं मया दत्तः प्रगृह्यताम् ।
तव पत्नीद्वये जातो द्विजातिवरशासनात्।
धात्रीजनपरित्यक्तो मयाऽयं परिरक्षितः ॥ २.१७.६२ ॥

Bṛhadratha,这是你的儿子,我已交付给你,请接纳他。他是借着一位上等婆罗门的赐福之命,从你的两位妻子所生。他被乳母们遗弃,由我护持。

2.17.63

ततस्ते भरतश्रेष्ठ काशिराजसुते शुभे ।
तं बालमभिपद्याशु प्रस्रवैरभ्यषिञ्जताम् ॥ २.१७.६३ ॥

于是,婆罗多之最,迦尸王的两位吉祥女儿迅速走到那孩子身边,用乳汁为他洒浴。

2.17.64

ततः स राजा संहृष्टः सर्वं तदुपलभ्य च ।
अपृच्छद्धेमगर्भाभां राक्षसीं तामराक्षसीम् ॥ २.१७.६४ ॥

于是那国王欣喜,明白了一切,便询问那位金色的女子——她实际上并非罗刹女。

2.17.65

कात्वं कमलगर्भाभे मम पुत्रप्रदायिनी ।
कामं मा ब्रूहि कल्याणि देवता प्रतिभासि मे ॥ २.१७.६५ ॥

你是谁,光彩如莲心的女子,赐我子嗣的人?吉祥的女子,随你所愿说吧,你在我看来犹如女神。