摩诃婆罗多 · 章 2.2
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.2.1
उषित्वा खाण्डवप्रस्थे सुखवासं जनार्दनः ।
पार्थैः प्रीतिसमायुक्तैः पूजनार्होऽभिपूजितः ॥ २.२.१ ॥
在坎达瓦普拉斯塔过着舒适的生活,受到充满爱意的般度之子的敬重与礼遇,生主(黑天)……
2.2.2
गमनाय मतिं चक्रे पितुर्दर्शनलालसः ।
धर्मराजमथामन्त्र्य पृथां च पृथुलोचनः ॥ २.२.२ ॥
渴望见到父亲,他决定启程;向法王和普利塔告别之后,那位广目者(黑天)……
2.2.3
ववन्दे चरणौ मूर्ध्ना जगद्वन्द्यः पितृष्वसुः ।
स तया मूर्ध्न्युपाघ्रातः परिष्वक्तश्च केशवः ॥ २.२.३ ॥
受世界敬仰的羯舍婆(黑天)以头触其姑母双足致敬;她嗅其头顶并拥抱了他。
2.2.4
ददर्शानन्तरं कृष्णो भगिनीं स्वां महायशाः ।
तामुपेत्य हृषीकेशः प्रीत्या बाष्पसमन्वितः ॥ २.२.४ ॥
随后,大名的黑天见到了自己的姐妹;感官之主走近她,满怀爱意,泪水盈眶……
2.2.5
अर्थ्यं तथ्यं हितं वाक्यं लघु युक्तमनुत्तरम् ।
उवाच भगवान्भद्रां सुभद्रां भद्रभाषिणीम् ॥ २.२.५ ॥
世尊对善言的吉祥者苏跋陀罗说了有意义、真实、有益、简练、得体而无与伦比的话语。
2.2.6
तया स्वजनगामीनि श्रावितो वचनानि सः ।
सम्पूजितश्चाप्यसकृच्छिरसा चाभिवादितः ॥ २.२.६ ॥
她向他诉说了要带给亲族的话语;他屡次受到尊敬,并低头致敬。
2.2.7
तामनुज्ञाय वार्ष्णेयः प्रतिनन्द्य च भामिनीम् ।
ददर्शानन्तरं कृष्णां धौम्यं चापि जनार्दनः ॥ २.२.७ ॥
Janārdana,Vṛṣṇi 之后,向她告辞并回礼之后,接着又见到了克利希纳(德罗波蒂)和达乌摩。
2.2.8
ववन्दे च यथान्यायं धौम्यं पुरुषसत्तमः ।
द्रौपदीं सान्त्वयित्वा च सुभद्रां परिदाय च ॥ २.२.८ ॥
最优秀的人按礼仪向达乌摩致敬,安慰德罗波蒂,并拥抱了苏跋陀罗。
2.2.9
भ्रातृनभ्यगमद्विद्वान्पार्थेन सहितो बली ।
भ्रातृभिः पञ्चभिः कृष्णो वृतः शक्र इवामरैः ॥ २.२.९ ॥
智慧而强大的克利希纳与普利塔之子同行,前往诸兄弟处;被五位兄弟环绕,他如同被天神环绕的因陀罗。
2.2.10
यात्राकालस्य योग्यानि कर्माणि गरुडध्वजः ।
कर्तुकामः शुचिर्भूत्वा स्नातवान्समलङ्कृतः ॥ २.२.१० ॥
以迦鲁达为旗者,想要行使出行时应做的仪式,于是净身沐浴,并且盛装打扮。
2.2.11
अर्चयामास देवांश्च द्विजांश्च यदुपुङ्गवः ।
माल्यजाप्यनमस्कारैर्गन्धैरुच्चावचैरपि ॥ २.२.११ ॥
最优秀的雅度后裔以花环、诵咒、礼拜和种种香料,供养诸神与再生者。
2.2.12
स कृत्वा सर्वकार्याणि प्रतस्थे तस्थुपां वरः ।
उपेत्य स यदुश्रेष्ठो बाह्यकक्षाद्विनिर्गतः ॥ २.२.१२ ॥
完成了一切事务,站立者中最优秀的人便出发了;雅度最优秀的人走近,从外室走了出来。
2.2.13
स्वस्ति वाच्यार्हतो विप्रान्दधिपात्रफलाक्षतैः ।
वसु प्रदाय च ततः प्रदक्षिणमथाकरोत् ॥ २.२.१३ ॥
他向值得尊敬的婆罗门诵念吉祥祝福(svasti),以凝乳之器、果实和未破碎的米粒相赠,并给予财物,随后行右绕之礼。
2.2.14
काञ्चनं रथमास्थाय तार्क्ष्यकेतनमाशुगम् ।
गदाचक्रासिशार्ङ्गाद्यैरायुधैरावृतं शुभम् ॥ २.२.१४ ॥
他登上了饰有迦楼罗旗的金色疾驰战车,此车庄严吉祥,满载兵器——铁杵、神轮、利剑、沙尔迦弓等。
2.2.15
सुतिथावथ नक्षत्रे मुहूर्ते च गुणान्विते ।
प्रययौ पुण्डरीकाक्षः शैब्यसुग्रीववाहनः ॥ २.२.१५ ॥
在吉祥的太阴日,在吉宿之下,在具足善相的时刻,莲花眼者启程了;他的马是沙伊布亚与苏格里瓦。
2.2.16
अन्वारुरोह चाप्येनं प्रेम्णा राजा युधिष्ठिरः ।
अपास्य चास्य यन्तारं दारुकं यन्तृसत्तमम् ॥ २.२.१६ ॥
般度之王坚战出于爱意,也跟随他登上战车,并让他的御者达噜迦——最优秀的御者——退下。
2.2.17
अभीषून्सम्प्रजग्राह स्वयं कुरुपतिस्तदा ।
उपारुह्यार्जुनश्चाऽपि चामरव्यजनं सितम् ॥ २.२.१७ ॥
于是库鲁之主亲自紧紧握住缰绳;阿周那也登上战车,挥动着白色的牦牛尾拂尘。
2.2.18
रुक्मदण्डं बृहद्बाहुर्विदुधाव प्रदक्षिणम् ।
तथैव भीमसेनोऽपि रथमारुह्य वीर्यवान् ॥ २.२.१८ ॥
那臂膀宽厚者手持金柄拂尘,绕行右旋;同样,勇武的毗摩森那也登上了战车。
2.2.19
छत्रं शतशलाकं च दिव्यमाल्योपशोभितम् ।
वैडूर्यमणिदण्डं च चामीकरविभूषितम्। ॥ २.२.१९ ॥
一把有百根伞骨的伞,装饰着天界花环,伞柄为吠琉璃宝石,并以黄金装饰。
2.2.20
दधार तरसा भीमः मुच्छत्रं शार्ङ्गधन्वने ।
भीमसेनार्जुनौ चापि यमावरिनिषूदनौ ॥ २.२.२० ॥
毗摩迅速为持沙尔迦弓者举起伞盖;毗摩森那、阿周那以及消灭敌人的双生子也同样如此。
2.2.21
पृष्ठतोऽनुययुः कृष्णमृत्विक्पौरजनैर्वृता ।
स तथा भ्रातृभिः सर्वैः केशवः परवीरहा ॥ २.२.२१ ॥
祭司与城中民众从后簇拥着黑天随行;如此,屠灭敌方英雄的羯舍婆与所有兄弟同行。
2.2.22
अन्वीयमानः शुशुभे शिष्यैरिव गुरुः प्रियैः ।
अभिमन्युं च सौभद्रं वृद्धैः परिवृतस्तथा ॥ २.२.२२ ॥
他如同被亲爱弟子跟随的导师一样光彩照人;苏跋陀罗之子阿毗曼纽也同样被长者环绕。
2.2.23
रथमारोप्य निर्यातो धौम्यो ब्राह्मणपुङ्गवः ।
इन्द्रप्रस्थमतिक्रम्य क्रोशमात्रं महाद्युतिः। ॥ २.२.२३ ॥
婆罗门中最上的、大光辉的达乌摩登上战车出发,走过因陀罗普拉斯塔一克罗沙的距离。
2.2.24
युधिष्ठरं पूजयित्वा भीमसेनं यमौ तथा ।
परिष्वक्तो भृशं तैस्तु यमाभ्यामभिवादितः ॥ २.२.२४ ॥
向坚战致敬之后,对毗摩森那及双生子也同样致敬;他被他们紧紧拥抱,并受到双生子恭敬的问候。
2.2.25
योजनार्धमथो गत्वा कृष्णः परपुरञ्जयः ।
युधिष्ठिरं समामन्त्र्य निवर्तस्वेति भारत ॥ २.२.२५ ॥
行走半由旬后,征服敌城的黑天与坚战充分交谈,说道:“婆罗多,回去吧。”
2.2.26
ततोऽभिवाद्य गोविन्दः पादौ जग्राह धर्मवित् ।
उत्थाप्य धर्मराजस्तु मूर्ध्न्युपाघ्राय केशवम् ॥ २.२.२६ ॥
于是精通法的戈文达恭敬致礼,抱住他的双足;法王扶起他,并俯首嗅闻了羯舍婆的头。
2.2.27
पाण्डवो यादवश्रेष्ठं कृष्णं कमललोचनम् ।
गम्यतामित्यनुज्ञाप्य धर्मराजो युधिष्ठिरः ॥ २.२.२७ ॥
般度之子、法王坚战允许莲花眼、诸雅度中最优秀的黑天离去,说道:“请行。”
2.2.28
ततस्तैः संविदं कृत्वा यथावन्मधुसूदनः ।
निवर्त्य च तथा कृच्छ्रात्पाण्डवान्सपदानुगान् ॥ २.२.२८ ॥
随后,摩图苏丹与他们妥善达成协议,费了些力气,才让般度诸子与步行的随从折返。
2.2.29
स्वां पुरीं प्रययौ हृष्टो यथा शक्रोऽमरावतीम् ।
लोचनैरनुजग्मुस्ते तमादृष्टिपथात्तदा ॥ २.२.२९ ॥
他欢喜地前往自己的城市,如因陀罗前往阿摩罗婆提;他们用眼睛目送他,直至他消失在视线之外。
2.2.30
मनोभिरनुजग्मुस्ते कृष्णं प्रीतिसमन्वयात् ।
अतृप्तमनसामेव तेषां केशवदर्शने ॥ २.२.३० ॥
他们以心相随,黑天的情谊将他们紧紧相系;因为见到羯舍婆,他们的心仍未满足。
2.2.31
क्षिप्रमन्तर्दधे शौरिश्चक्षुषां प्रियदर्शनः ।
अकामा एव पार्थास्ते गोविन्दगमानसाः ॥ २.२.३१ ॥
令眼目喜悦的沙梨迅速隐没了。般度之子仿佛仍未满足,他们的心都系于戈文达。
2.2.32
पार्थमामन्त्र्य गोविन्दः परिष्वज्य सुपीडितम् ।
निवृत्योपययुस्तूर्णं स्वं पुरं पुरुषर्षभाः।
स्यन्दनेनाथ कृष्णोऽपि त्वरितं द्वारकामगात् ॥ २.२.३२ ॥
戈文达向般度之子告别,紧紧拥抱了他。人中的雄牛们转身,迅速返回自己的城市;黑天也乘车迅速前往德瓦拉卡。
2.2.33
सात्वतेन च वीरेण पृष्ठतो यायिना तदा ।
दारुकेण च सूतेन सहितो देवकीसुतः।
स गतो द्वारकां विष्णुर्गरुत्मानिव वेगवान् ॥ २.२.३३ ॥
那时,英雄萨特瓦塔在后跟随,车夫达鲁迦与他同行,提婆吉之子前往德瓦拉卡。毗湿奴迅速前行,如迦鲁达一般。
2.2.34
निवृत्य धर्मराजस्तु सह भ्रातृभिरच्युतः ।
सुहृत्परिवृतो राजा प्रविवेश पुरोत्तमम् ॥ २.२.३४ ॥
法王坚战与兄弟们一同返回,被友人环绕,走进那座最好的城市。
2.2.35
विसृज्य सुहृदः सर्वान्भ्रातॄन्पुत्रांश्च धर्मराट् ।
मुमोद पुरुषव्याघ्रो द्रौपद्या सहितो नृप ॥ २.२.३५ ॥
法王,这人中之虎,送别了所有的友人、兄弟和子嗣,与黑公主一同欢喜,哦,国王。
2.2.36
केशवोपि मुदा युक्तः प्रविवेश पुरोत्तमम् ।
पूज्यमानो यदुश्रेष्ठैरुग्रसेनमुखैस्तथा ॥ २.२.३६ ॥
克沙瓦也满怀喜悦地走进那座最好的城市,受到以乌格拉塞那为首的诸位优秀的雅度人的敬重。
2.2.37
आहुकं पितरं वृद्धं मातरं च यशस्विनीम् ।
अभिवाद्य बलं चैव स्थितः कमललोचनः ॥ २.२.३७ ॥
这位莲花眼者向年迈的父亲阿呼迦、尊贵的母亲和大力(Balarāma)致敬后,便站在那里。
2.2.38
प्रद्युम्नसाम्बनिशठांश्चरुदेष्णं गदं तथा ।
अनिरुद्धं च भानुं च परिष्वज्य जनार्दनः ॥ २.२.३८ ॥
Janārdana拥抱了普罗颇摩、桑巴、尼沙陀、遮嚕提舍那、伽陀、阿尼如陀和跋奴。
2.2.39
स वृद्धैरभ्यनुज्ञातो रुक्मिण्या भवनं ययौ ।
स तत्र भवने दिव्ये प्रमुमोद सुखी सुखम् ॥ २.२.३९ ॥
得到长者的许可后,他前往鲁克弥尼的宫殿;在那座神圣的殿堂中,他欢喜快乐。
2.2.40
एतस्मिन्नन्तरे राजन्मयो दैत्याधिपस्तदा ।
विधिवत्कल्पयामास सभां धर्मसुताय वै ॥ २.२.४० ॥
此时,大王啊,阿修罗之主摩耶依照仪轨为法之子建造了一座议事厅。