摩诃婆罗多 · 章 2.21
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.21.1
एष पार्थ महान्भाति पशुमान्नित्यमम्बुमान् ।
निरामयः सुवेश्माढ्यो निवेशो मागधः शुभः ॥ २.२१.१ ॥
啊,普利塔之子,这座伟大的摩揭陀聚落光辉灿烂,常有牲畜与清水,无病无灾,遍布华美的住宅,吉祥美好。
2.21.2
वैहारो विपुलः शैलो वाराहो वृषभस्तथा ।
तथा ऋषिगिरिस्तात शुभाश्चैत्यकपञ्चमाः ॥ २.२१.२ ॥
毗诃罗、广大的山、婆罗诃、牛山,还有仙人山,亲爱的,第五座是支提山;这些都是吉祥的。
2.21.3
एते पञ्चमहाशृङ्गाः पर्वताः शीतलद्रुमाः ।
रक्षन्तीवाभिसंहत्य संहताङ्गा गिरिव्रजम् ॥ २.२१.३ ॥
这些有五座大峰、树木清凉的山岭,仿佛聚集在一起,肢体紧密相连,守护着山城。
2.21.4
पुष्पवेष्टितशाखाग्रैर्गन्धवद्भिर्मनोहरैः ।
निगूढा इव लोध्राणां वनैः कामिजनप्रियैः ॥ २.२१.४ ॥
枝梢缠绕着花朵,芬芳而迷人,林木为情侣所钟爱,仿佛隐藏在罗陀树之间。
2.21.5
यत्र दीर्घतमा नाम ऋषिः परमन्त्रितः ।
शूद्रायां गौतमो यत्र महात्मा संशितव्रतः।
औशीनर्यामजनयत्काक्षीवाद्यान्सुतान्मुनिः ॥ २.२१.५ ॥
那里曾有精通咒语的仙人长暗;也正是在那里,持戒坚定的大德乔达摩与首陀罗女子,以及与奥希那罗女子,生下了以迦支婆多为首的诸子。
2.21.6
गौतमः प्रणयात्तस्माद्यथाऽसौ तत्र सद्मनि ।
भजते मागधं वंशं स नृपाणामनुग्रहः। ॥ २.२१.६ ॥
乔达摩出于慈爱,在那里的那座住所中照料摩揭陀王族;他是施恩于诸王者。
2.21.7
अङ्गवङ्गादयश्चैव राजानः सुमहाबलाः ।
गौतमक्षयमभ्येत्य रमन्ते स्म पुरार्जुन ॥ २.२१.७ ॥
安伽、盎伽等极为强大的诸王,曾来到瞿昙的居所游乐,阿周那啊。
2.21.8
वनराजीस्तु पश्येमाः पिप्लानां मनोरमाः ।
लोघ्राणां च शुभाः पार्थ गौतमौकः समीपजाः ॥ २.२१.८ ॥
请看这些迷人的林木行列:瞿昙居所附近生长的菩提树与美丽的罗陀树,普利塔之子啊。
2.21.9
अर्बुदः शक्रवापी च पन्नगौ शत्रुतापनौ ।
स्वस्तिकस्यालयश्चात्र मणिनागस्य चोत्तमः ॥ २.२१.९ ॥
这里有阿晡陀山与帝释天的池沼,两条令敌人痛苦的蛇,斯瓦斯蒂迦的居所,以及摩尼那伽的殊胜之地。
2.21.10
अपारिहार्या मेघानां मागधा मनुना कृताः ।
कौशिको मणिमांश्चैव चक्राते चाप्यनुग्रहम् ॥ २.२१.१० ॥
摩揭陀人不为云所侵扰,由摩奴所造;俱尸迦与摩尼曼也曾施恩于他们。
2.21.11
पाण्डरे विपुले चैव तथा वाराहकेऽपि च ।
चैत्यके चज गिरिश्रेष्ठे मादङ्गे च शिलोच्चये ॥ २.२१.११ ॥
还有潘达罗山、毗布罗山、婆罗诃迦山,以及山中最殊胜的支提迦山、摩丹伽山和石堆山。
2.21.12
एतेषु पर्वतेन्द्रेषु सर्वसिद्धसमालयाः ।
यतीनामाश्रमाश्चैव मुनीनां च महात्मनाम् ॥ २.२१.१२ ॥
在这些山岳之王上,有一切成就者的居所,苦行者的静修处,以及大德仙人的静修林。
2.21.13
वृषभस्य तमालस्य महावीर्यस्य वै तथा ।
गन्धर्वरक्षसां चैव नागानां च तथाऽऽलयाः ॥ २.२१.१३ ॥
在威力强大的伐里沙跋与多摩罗山上,也有乾闼婆、罗刹与龙的居所。
2.21.14
कक्षीवतस्तपोवीर्यात्तपोदा इति विश्रुताः ।
पुण्यतीर्थाश्च ते सर्वे सिद्धानां चैव कीर्तिताः।
मणेश्च दर्शनादेव भद्रं शिवमवाप्नुयात् ॥ २.२१.१४ ॥
凭借迦刹婆凡的苦行之力,它们以“施苦行者”之名闻名。它们都是圣洁的渡口,并且据说属于成就者。仅仅见到此宝珠,便能获得吉祥与福祉。
2.21.15
एवं प्राप्य पुरं रम्यं दुराधर्पं समन्ततः ।
अर्थसिद्धिं त्वनुपमां जरासन्धोऽभिमन्यते ॥ २.२१.१५ ॥
如此抵达这座美丽、四面坚不可摧的城市后,甄入迦(罗云之子)认为自己的成就无与伦比。
2.21.16
वयमासादने तस्य दर्पमद्य हरेम हि ।
एवमुक्त्वा ततः सर्वे भ्रातरो विपुलौजसः ॥ २.२१.१६ ॥
我们今日便去与他对阵,挫败他的骄傲。说罢,那些威力广大的兄弟们便……
2.21.17
वार्ष्णेयः पाण्डवौ चैव प्रतस्थुर्मागधं पुरम् ।
हृष्टपुष्टजनोपेतं चातुर्वर्ण्यसमाकुलम् ॥ २.२१.१७ ॥
毗湿尼族的克里希那与两位般度之子启程前往摩揭陀城。该城居民欢乐富足,四种姓人口汇聚。
2.21.18
स्फीतोत्सवमनाधृष्यमासेदुश्च गिरिव्रजतम् ।
ततो द्वारमनासाद्य पुरस्य गिरिमुच्छ्रितम् ॥ २.२१.१८ ॥
他们抵达了充满节庆、坚不可摧的吉黎伐罗阇(王舍城)。随后,在尚未抵达城门前那座高耸的山岭之前——
2.21.19
बार्हद्रथैः पूज्यमानं तथा नगरवासिभिः ।
मागधानां तु रुचिरं चैत्यकान्तरमाद्रवन् ॥ २.२१.१९ ॥
在勃利哈德拉塔之子及城中居民的敬奉下,他们奔向摩揭陀人那可爱的祠庙围场。
2.21.20
यत्र मांसादमृषभमाससाद बृहद्रथः ।
तं हत्वा मासतालाभिस्तिस्रो भेरीकारयत् ॥ २.२१.२० ॥
勃利哈德拉塔在那里遇到一头食肉的公牛,杀死了它,并命人制作了三面如棕榈般大小的鼓。
2.21.21
स्वपुरे स्थापयामास तेन चानह्य चर्मणा ।
यत्र ताः प्राणदन्भेर्यो दिव्यपुष्पावचूर्णिताः ॥ २.२१.२१ ॥
他把它们安置在自己的城中,蒙上那张皮革;那些撒满天上花朵的鼓在那里轰鸣。
2.21.22
भङ्क्त्वा भेरीत्रयं तेऽपि चैत्यप्राकारमाद्रवन् ।
द्वारतोऽभिमुखाः सर्वे ययुर्नानायुधास्तधा ॥ २.२१.२२ ॥
他们打破了那三面鼓,也冲向祠庙的围墙;众人面向门口,手持各式兵器前进。
2.21.23
मागधानां सुरुचिरं चैत्यकं तं समाद्रवन् ।
शिरसीव समाघ्नन्तो जरासन्धं जिघांस्वः ॥ २.२१.२३ ॥
他们冲向摩揭陀人那座极其可爱的祠庙,像是要击打头顶一般猛击,想要杀死阇罗桑陀。
2.21.24
स्थिरं सुविपुलं शृङ्गं सुमहत्तत्पुरातनम् ।
अर्चितं गन्धमाल्यैश्च सततं सुप्रतिष्ठितम् ॥ २.२१.२४ ॥
那是一座坚固、极其宽广、极其高大而古老的山峰,始终以香料和花环供奉,稳固地矗立着。
2.21.25
विपुलैर्बाहुभिर्वीरस्तेऽभिहत्याभ्यपातयन् ।
ततस्ते मागधं हृष्टाः पुरं प्रविविशुस्तदा ॥ २.२१.२५ ॥
英雄们以有力的双臂击打他并将他摔倒。随后,他们欢欣地进入了摩揭陀王的城市。
2.21.26
एतस्मिन्नेव काले तु ब्राह्मणा वेदपारगाः ।
दृष्ट्वा तु दुर्निमित्तानि जरासन्धमदर्शयन् ॥ २.२१.२६ ॥
就在此时,精通吠陀的婆罗门看见了凶兆,并将其展示给了阇罗三陀。
2.21.27
पर्युग्न्यकुर्वंश्च नृपं द्विरदस्थं पुरोहिताः ।
ततस्तच्छान्तये राजा जरासन्धः प्रतापवान्।
दीक्षितो नियमस्थोऽसावुपवासपरोऽभवत् ॥ २.२१.२७ ॥
祭司们为坐在象背上的国王举行了波利尤格尼祭仪。随后,为了平息那凶兆,威猛的国王阇罗三陀受了灌顶,持守戒律,专心于斋戒。
2.21.28
स्नातकव्रतिनस्ते तु बाहुशस्त्रा निरायुधाः ।
युयुत्सवः प्रविविशुर्जरासन्धेन भारत ॥ २.२१.२८ ॥
他们持守沐浴者之戒,以双臂为武器而不携兵器,渴望战斗,与阇罗三陀一同进入,啊,婆罗多的后裔。
2.21.29
भक्ष्यमाल्यापणानां च ददृशुः श्रियमुत्तमाम् ।
स्फीतां सर्वगुणोपेतां सर्वकामसमृद्धिनाम् ॥ २.२१.२९ ॥
他们看见食品与花鬘店铺的至高光彩,丰饶而具备一切美德,满足一切所愿。
2.21.30
तां तु दृष्ट्वा समृद्धिं ते वीथ्यां तस्यां नरोत्तमाः ।
राजमार्गेण गच्छन्तः कृष्णभीमधनञ्जयाः।
बलाद्गृहीत्वा माल्यानि मालाकारान्महाबलाः ॥ २.२१.३० ॥
他们看见那条街上的繁盛,这些人中之最——克利须那、怖军与财施,沿着王道行走,威力强大,从花鬘匠那里强行夺取了花鬘。
2.21.31
कर्पूरशृङ्गं कोष्ठं च सफलं चान्तरापणे ।
वैश्याद्बलाद्गृहीत्वा ते विहृत्य च महारथाः ॥ २.२१.३१ ॥
在内市场中,有如樟脑山峰般的堆积、仓库与果品,那些大车战士从商人处强行夺取,并四处游荡之后……
2.21.32
विरागवसनाः सर्वे स्रग्विणो मृष्टकुण्डलाः ।
निवेशनमथाजग्मुर्जरासन्धस्य धीमतः ॥ २.२१.३२ ॥
他们都穿着鲜艳的衣裳,戴着花环和光亮的耳环,于是来到了智者查拉桑陀的住所。
2.21.33
गोवासमिव वीक्षन्तः सिंहा हैमवता यथा ।
शालस्तम्भनिभास्तेषां चन्दनागुरुरूषिताः ॥ २.२१.३३ ॥
环顾如同牛栏,如喜马拉雅的狮子,他们的手臂如同娑罗树干,涂抹着檀香与沉香……
2.21.34
अशोभन्त महाराज बाहवो युद्धशालिनाम् ।
तान्दृष्ट्वा द्विरदप्रख्याञ्शालस्कन्दानिवोद्गतान् ॥ २.२१.३४ ॥
大王啊,好战者的手臂闪耀起来;看见他们如象一般,如挺立的娑罗树干……
2.21.35
व्यूढोरस्कान्मागधानां विस्मयः समपद्यत ।
अद्वारेणाभ्यवस्कन्द्य विविशुर्मागधालयम् ॥ २.२१.३५ ॥
看见宽阔胸膛的摩揭陀人,人们感到惊奇;他们并非从门入,而是跃过,进入了摩揭陀人的宫殿。
2.21.36
ते त्वतीत्य जनाकीर्णाः कक्षास्तिस्रो नरर्षभाः ।
अहङ्कारेण राजानमुपतस्थुर्गतव्यथाः ॥ २.२१.३६ ॥
穿过三座挤满人的庭院,那些人中雄牛无所畏惧、傲慢地来到国王面前。
2.21.37
भो शब्देनैव राजानमुचुस्ते तु महारथाः ।
तान्पाद्यमधुपर्कार्हान्गवार्हान्सत्कृतिं गतान्।
प्रत्युत्थाय जरासन्ध उपतस्थे यथाविधि ॥ २.२१.३७ ॥
大车勇士们只用一个“喔”字便与那位国王说话。他们被视为配得上洗足水、蜜合物和献牛之礼而受到尊敬,而查拉桑陀起身,依礼前去迎接。
2.21.38
उवाच चैतान्राजाऽसौ स्वागतं वोस्त्विति प्रभुः ।
मौनमासीत्तदा पार्थभीमयोर्जनमेजय ॥ २.२१.३८ ॥
那位有权势的国王对他们说:“欢迎你们。”于是,逐者(Janamejaya)啊,阿周那和怖军保持沉默。
2.21.39
तेषां मध्ये महाबुद्धिः कृष्णो वचनमब्रवीत् ।
वक्तुं नायाति राजेन्द्र एतयोर्नियमस्थयोः ॥ २.२१.३९ ॥
在他们之中,大智慧的克里希那开口说话。王中之王啊,这二人因受誓约所束,不便开口。
2.21.40
अर्वाङ्निशीथात्परतस्त्वाया सार्धं वदिष्यतः ।
यज्ञागारे स्थापयित्वा राजा राजगृहं वदिष्यतः। ॥ २.२१.४० ॥
在午夜之前或之后,他们将与你交谈。国王将他们安置在祭祀厅,然后在王宫中交谈。
2.21.41
ततोऽर्धरात्रे सम्प्राप्ते यातो यत्र स्थिता द्विजाः ।
तस्य ह्येतद्व्रतं राजन्बभूव भुवि विश्रुतम् ॥ २.२१.४१ ॥
此后半夜来临,他前往再生者们所站之处。王啊,这是他的誓愿,在大地上闻名。
2.21.42
स्नातकान्ब्राह्मणान्प्राप्ताञ्श्रुत्वा स समितिञ्जयः ।
अप्यर्धरात्रे नृपतिः प्रत्युद्गच्छति भारत ॥ २.२१.४२ ॥
他听说修毕学业的婆罗门已经到来,那位战场上的胜利者,即使在午夜也出门迎接他们,婆罗多啊。
2.21.43
तांस्त्वपूर्वेण वेषेण दृष्ट्वा स नृपसत्तमः ।
उपतस्थे जरान्धो विस्मितश्चाभवत्तदा ॥ २.२१.४३ ॥
见他们装束非凡,那位最优秀的国王、因年老而失明的羯罗桑陀走近他们;此时他感到惊讶。
2.21.44
ते तु दृष्ट्वैव राजानं जरासन्धं नरर्षभाः ।
इदमूचुरमित्रघ्नाः सर्वे भरतसत्तम ॥ २.२१.४४ ॥
他们一见国王羯罗桑陀,那些人中雄牛、皆为杀敌者,便说出了这些话,婆罗多中最优秀的人啊。
2.21.45
स्वस्त्यस्तु कुशलं राजन्निति तत्र व्यवस्थिताः ।
तं नृपं नृपशार्दूल प्रेक्षमाणाः परस्परम् ॥ २.२१.४५ ॥
他们说:“愿国王平安吉祥”,站在那里的人,王中之虎啊,注视着那位国王,也彼此相望。
2.21.46
तानब्रवीञ्जरासन्धस्तथा पाण्डवयादवान् ।
आस्यतामिति राजेन्द्र ब्राह्मणच्छद्मसंवृतान् ॥ २.२१.४६ ॥
羯罗桑陀对那些隐藏在婆罗门伪装之下的般度与雅达瓦说:“请坐。”王中之主啊。
2.21.47
अथोपविविशुः सर्वे त्रयस्ते पुरुषर्षभाः ।
सम्प्रदीप्तास्त्रयो लक्ष्म्या महाध्वर इवाग्नयः ॥ २.२१.४७ ॥
于是这三位人中雄牛全都坐下,光辉灿烂,犹如大祭祀中的三团火焰。
2.21.48
तानुवाच जरासन्धः सत्यसन्धो नराधिपः ।
विगर्हमाणः कौरव्य वेषग्रहणवैकृतान्
न स्नातकव्रता विप्रा वहिर्माल्यानुलेपनाः ॥ २.२१.४८ ॥
于是言而有信的人主羯罗桑陀责备他们说:“婆罗多后裔啊,你们歪曲了装束之道,并非婆罗门;持守沐浴毕业誓愿的婆罗门,不会在外佩戴花环、涂抹香膏。”
2.21.49
भवन्तीति नृलोकेऽस्मिन्विदितं मम सर्वशः ।
के यूयं पुष्पवन्तश्च भुजैर्ज्याकृतलक्षणैः ॥ २.२१.४९ ॥
在这人间世界,这一切我都完全知晓。你们是谁?佩戴着花朵,手臂上却有弓弦留下的痕迹?
2.21.50
बिभ्रतः क्षात्रमोजश्च ब्राह्मण्यं प्रतिजानथ ।
एवं विरागवसना बहिर्माल्यानुलेपनाः ॥ २.२१.५० ॥
你们身负刹帝利的勇力,却自称婆罗门的身份;穿着染色的衣服,佩戴着不合仪轨的花环,涂抹着香膏。
2.21.51
क्षत्रिया एव लोकेऽस्मिन्विदिता मम सर्वशः ।
सत्यं वदत के यूयं सत्यं राजसु शोभते ॥ २.२१.५१ ॥
在这世上,我完全知道你们是刹帝利。请说实话,你们是谁?在君王之中,唯有真实才显光彩。
2.21.52
चैत्यकस्य गिरेः शृङ्गं भित्त्वा किमिह सद्मनि ।
अद्वारेण प्रविष्टाः स्थ निर्भया राजकिल्विषात् ॥ २.२१.५२ ॥
你们打破了恰伊提亚山的山峰,为何来到这宫殿之中?不经大门而入,竟毫无畏惧于国王的罪责而站在此处?
2.21.53
वदध्वं वाचि वीर्यं च ब्राह्मणस्य विशेषतः ।
कर्म चैतद्विलिङ्गस्थं किं वोऽद्य प्रसमीक्षितम् ॥ २.२१.५३ ॥
请用言语说出婆罗门的威力,尤其是。你们佩戴着假的标记而行此事,今日行事时究竟是怎样考虑的?
2.21.54
एवं च मामुपास्थाय कस्माच्च विधिर्नाहणाम् ।
प्रणीतां नानुगृह्णीत कार्यं किं वाऽस्मदागमे ॥ २.२१.५४ ॥
你们这样来到我的面前,为何不接受为尊者所定的礼仪?或者,在我们到来之时,你们的职责是什么?
2.21.55
एवमुक्ते ततः कृष्णः प्रत्युवाच महामनाः ।
स्निग्धगमभीरया वाचा वाक्यं वाक्यविशारदः
कृष्ण उवाच। ॥ २.२१.५५ ॥
如此说完之后,心胸宽广、善于言辞的黑天以温和而深沉的声音回答。黑天说道:
2.21.56
स्नातकान्ब्राह्मणान्राजन्विद्ध्यस्मांस्त्वं नराधिप ।
स्नातकव्रतिनो राजन्ब्राह्मणाः क्षत्रिया विशः ॥ २.२१.५६ ॥
国王啊,人主,请你认定我们是已完成学业的婆罗门。国王啊,遵守学成誓言的婆罗门、刹帝利与吠舍。
2.21.57
विशेषनियमाश्चैषामविशेषाश्च सन्त्युत ।
विशेषवांश्च सततं क्षत्रियः श्रियमृच्छति ॥ २.२१.५७ ॥
他们既有特殊的戒律,也有共同的戒律。始终持守特殊戒律的刹帝利获得吉祥。
2.21.58
पुष्पवत्सु ध्रुवा श्रीश्च पुष्पवन्तस्ततो वयम् ।
क्षत्रियो बाहुवीर्यस्तु न तथा वाक्यवीर्यवान्
अम्प्रगल्भं वचस्तस्य तस्माद्बार्हद्रथेरितम् ॥ २.२१.५८ ॥
吉祥在有花者之中是稳固的,因此我们是有花者。刹帝利以臂力为强,而非以言辞之力为强。因此,出自巴尔哈德罗陀之子的那番话是不成熟的。
2.21.59
स्ववीर्यं क्षत्रियाणां तु बाह्वोर्धाता न्यवेशयत् ।
तद्दिदृक्षसि चेद्राजन्द्रष्टास्यद्य न संशयटः ॥ २.२१.५९ ॥
造物主将刹帝利自身的威力置于他们的臂膀之中。国王啊,如果你想要看见它,今天就会看见;这没有疑问。
2.21.60
अद्वारेण रिम्पोर्गेहं द्वारेण सुहृदो गृहान् ।
प्रविशन्ति नरा धीरा द्वाराण्येतानि धर्मतः ॥ २.२१.६० ॥
坚定的人进入仇敌之家不经由门,而进入朋友之家则经由门。这些门依正法而定。
2.21.61
कार्यवन्तो गृहानेत्य शत्रुतो नार्हणां वयम् ।
प्रतिगृह्णीम् तद्विद्वि एतन्नः शाश्वतं व्रतम् ॥ २.२१.६१ ॥
那些因事而来、进入家中的人;我们不接受敌人的款待。要知道这是我们永恒的誓愿。