Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 2.22

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.22.1

न स्मरामि कदा वैरं कृतं युष्माभिरित्युत ।
चिन्तयंश्च न पश्यामि भवतां प्रति वैकृतम् ॥ २.२२.१ ॥

我不记得你们曾经对我有过怨仇,细想之下,我也看不出你们对我有什么不当之处。

2.22.2

वैकृते वा सति कथं मन्यध्वं मामनागसम् ।
अरिं वै ब्रूत हे विप्राः सतां समय एष हि ॥ २.२२.२ ॥

若有过错,你们为何视无辜的我为敌人?诸位婆罗门,请说出敌人是谁,这是善人的规矩。

2.22.3

अर्थधर्मोपघाताद्धि मनः समुपतप्यते ।
योऽनागसि प्रसजति क्षत्रियो हि न संशयटः ॥ २.२२.३ ॥

因财富与法的损害,心便深受煎熬。对无辜者出手的刹帝利,无疑(会堕落)。

2.22.4

अतोऽन्यथा चरँल्लोके धर्मज्ञः सन्महारथः ।
वृजिनां गतिमाप्नोति श्रेयसोऽप्युपहन्ति च ॥ २.२२.४ ॥

因此,在世间行事相反的人,即使通晓法且是大战车手,也会走向恶道,甚至毁掉善果。

2.22.5

त्रैलोक्ये क्षत्रधर्मो हि श्रेयान्वै साधुचारिणाम् ।
नान्यं धर्मं प्रशंसन्ति ये च धर्मविदो जनाः ॥ २.२२.५ ॥

在三界之中,刹帝利之法实为善行者的最高之道;通晓法的人不称赞其他的法。

2.22.6

तस्य मेऽद्य स्थितस्येह स्वधर्मे नियतात्मनः ।
अनागसं प्रजानां च प्रमादादिव जल्पथ ॥ २.२२.६ ॥

今日我坚守自身之法,心志自持,你们却仿佛出于疏忽,谈论我与无辜的臣民。

2.22.7

कुलकार्यं महाबाहो कश्चिदेकः कुलोद्वहः ।
वहते यस्तन्नियोगाद्वयमभ्युद्यतास्त्वयि ॥ २.२२.७ ॥

大臂者啊,家族中有一件事,由一位承担家族重任的人执行;依他的命令,我们已准备好面对你。

2.22.8

त्वया चोपहृता राजन्क्षत्रिया लोकवासिनः ।
तदागः क्रूरमुत्पाद्य मन्यसे किमनागसम् ॥ २.२२.८ ॥

国王啊,你劫走了世上居住的刹帝利;犯下残酷的罪过,你却认为谁是无辜的?

2.22.9

राजा राज्ञः कथं साधून्हिंस्यान्नृपतिसत्तम ।
तद्राज्ञः सन्निगृह्य त्वं रुद्रायोपजिहीर्षसि ॥ २.२२.९ ॥

诸王中的最上者啊,一位国王怎会伤害其他国王中的善人?因此你想把诸王拘禁起来,献给楼陀罗。

2.22.10

अस्मांस्तदेनोपगच्छेत्कृतं बार्हद्रथ त्वया ।
वयं हिं शक्ता धर्मस्य रक्षणे धर्मचारिणः ॥ २.२२.१० ॥

布利哈德罗陀之子啊,你所造的那罪过也会落到我们身上;我们行持法,能够守护法。

2.22.11

तस्मादद्योपगच्छामस्तव बार्हद्रथान्तिकम् ।
मनुष्याणां समालम्भो न च दृष्टः कदाचन।
स कथं मानुषैर्देवं यष्टुमिच्छसि शङ्करम् ॥ २.२२.११ ॥

因此今天我们将前往布利哈德罗陀之子面前。用人作牲祭从未见过;他怎么想用人来祭拜神湿婆(商迦罗)呢?

2.22.12

सवर्णो हि सवर्णानां पशुसञ्ज्ञां करिष्यसि ।
कोऽन्यं एवं यथा हि त्वं जरासन्ध वृथामतिः ॥ २.२२.१२ ॥

因为你会把与你同种姓的人称作祭祀的牲畜。啊,耶罗沙陀,还有谁像你这样愚妄无知而如此行事呢?

2.22.13

यस्यां यस्यामवस्थायां यद्यत्कर्म करोति यः ।
तस्यां तस्यामवस्थायां तत्फलं समवाप्नुयात् ॥ २.२२.१३ ॥

人在何种境况中做何种行为,便在同样的境况中获得其果报。

2.22.14

ते त्वां ज्ञातिक्षयकरं यममार्तानुसारिणः ।
ज्ञातिवृद्धिनिमित्तार्थं विनिहन्तुमिहागताः ॥ २.२२.१४ ॥

他们来此是为了杀你——你是使亲族毁灭之人,如阎摩追随受苦者一般,为了增益他们自己的亲族。

2.22.15

नास्ति लोके पुमानन्यः क्षत्रियोष्विति चैव तत् ।
मन्यसे स च ते राजन्सुमहान्बुद्धिविप्लवः ॥ २.२२.१५ ॥

你以为世间刹帝利中再无他人,大王,这正是你智慧的极大迷乱。

2.22.16

को हि जानन्नभिजनमात्मवान्क्षत्रियो नृप ।
नाविशेत्स्वर्गमतुलं रणानन्तरमव्ययम् ॥ २.२२.१६ ॥

大王,哪位自制的刹帝利,知晓自己的家系,在战后不会进入无可比拟、不灭的天界呢?

2.22.17

स्वर्गं ह्येव समास्थाय रणयज्ञेषु दीक्षिताः ।
जयन्ति क्षत्रिया लोकांस्तद्विद्धि मनुजर्षभ ॥ २.२२.१७ ॥

刹帝利们一心依托天界,在战争祭祀中受戒,便能征服诸世界。这一点你应当知道,人中雄牛啊。

2.22.18

स्वर्गयोनिर्महद्ब्रह्म स्वर्गयोनिर्महद्यशः ।
स्वर्गं योनिस्तपो युद्धे मृत्युः सोऽव्यभिचारवान् ॥ २.२२.१८ ॥

天界之源是大梵;天界之源是大名声;天界之源是苦行;战场上的死亡,便是那无误的源头。

2.22.19

एष ह्यैन्द्रो वैजयन्तो गुणैर्नित्यं समाहितः ।
येनासुरान्पराजित्य जगत्पाति शतक्रतुः ॥ २.२२.१९ ॥

这是因陀罗的胜幢,常具其德;以之战胜阿修罗后,百祭者(Śatakratu)护持世界。

2.22.20

स्वर्गमार्गाय कस्य स्याद्विग्रहो वै यथा तव ।
मागधैर्विपुलैः सैन्यैर्बाहुल्यबलदर्पितः ॥ २.२२.२० ॥

为了天堂之路,谁会像你一样发动战争?凭借摩揭陀的庞大军队,因人数之力而骄傲。

2.22.21

माऽवमंस्थाः परान्राजन्नास्ति वीर्यं नरे नरे ।
समं चेजस्त्वया चैव विशिष्टं वा नरेश्वर ॥ २.२२.२१ ॥

大王,不要轻视他人;每个人的勇力并不相同。人主啊,你的光辉与祭祀之力或与人相等,或胜于人。

2.22.22

यावदेतदसम्बुद्धं तावदेव भवेत्तव ।
विषह्यमेतदस्माकमतो राजन्ब्रवीमि ते ॥ २.२२.२२ ॥

在此事未被明白之前,对你而言就如此吧。这对我们尚可忍受,所以大王,我对你说。

2.22.23

जहि त्वं सदृशेष्वेव मानं दर्पं च मागध ।
मा गमः ससुतामात्यः सबलश्च यमक्षयम् ॥ २.२२.२३ ॥

摩揭陀王啊,放下对同等之人的骄慢与傲气。不要与你的儿子、大臣和军队一同前往阎摩之处。

2.22.24

दम्भोद्भवः कार्तवीर्य उत्तरश्च बृहद्रथः ।
श्रेयसो ह्यवमत्येह विनेशुः सबला नृपाः ॥ २.२२.२४ ॥

骄慢所生的迦尔塔维亚、乌塔拉与勃黎诃陀罗,轻慢了尊贵之人,诸王携军队在此覆亡。

2.22.25

युयुक्षमाणास्त्वत्तो हि न वयं ब्राह्मणा ध्रुवम् ।
शौरिरस्मि हृषीकेशो नृवीरौ पाण्डवाविमौ।
अनयोर्मातुलेयं च कृष्णं मां विद्धि ते रिपुम् ॥ २.२२.२५ ॥

我们并非婆罗门,而是来与你交战的。我是舜之子修比格舍,这两位般度之子是人中英雄。你当知道,他们的表兄克利须那是你的敌人。

2.22.26

त्वामाह्वयामहे राजन्स्थिरो युध्वस्व मागध ।
मुच्छ वा नृपतीन्सर्वान् गच्छ वा त्वं यमक्षयम् ॥ २.२२.२६ ॥

国王啊,我们向你挑战。摩揭陀之王,坚定地应战吧。或者释放所有国王,或者你自己去阎摩的住所。

2.22.27

एतच्छ्रुत्वा जरासन्धः क्रुद्धो वचनमब्रवीत् ॥ २.२२.२७ ॥

耆罗三德闻此,怒而说道:

2.22.28

नाहं कंसः प्रलम्बो वा न बाणो न च मुष्टिकः ।
नरको नेन्द्रतपनो न केशी न च पूतना ॥ २.२२.२८ ॥

我不是坎萨,也不是普拉兰巴、巴那、穆施提迦、那罗迦、因陀罗达波那、鸡舍、普多那。

2.22.29

न कालयवनो वाऽपि ये त्वया निहता युधि ।
त्वं तु गोपकुलोत्पन्नो जातिं वै पौर्विकीं स्मर ॥ २.२२.२९ ॥

也不是你在战场上杀死的迦罗耶婆那。你出生于牧牛人之家;请想起你原本的族类。

2.22.30

योऽस्मद्भयादतिक्रम्य सागरानूपमाश्रितः ।
जन्मभूमिं परित्यज्य मधुरां प्राकृतो यथा ॥ २.२२.३० ॥

他因惧怕我们,渡过大海,躲到海岸避难,舍弃出生之地摩偷罗,像普通人一样生活。

2.22.31

सोऽधुना कत्थसे शौरे शरदीव यथा घनः ।
अद्यानृण्यं करिष्यामि भोजराजस्य धीमतः ॥ २.२२.३१ ॥

苏罗之裔啊,你如今如秋日之云般夸口。今日我要偿还对智慧的薄阇王的恩债。

2.22.32

जामातुरौग्रसेनस्य त्वां निहत्याद्य माधव ।
चिरकाङ्क्षितो मे सङ्ग्रामस्त्वां हन्तुं समुहृद्गुणम् ॥ २.२२.३२ ॥

乌格拉塞纳的女婿,摩陀婆啊,今日杀死你及你的忠友之后,我长久期盼的战斗便得以实现。

2.22.33

दिष्ट्या मे सफलो यत्नः कृतो देवैः सवासवैः ।
क्लीबाविमौ च गोविन्द भीमसेनार्जुनावुभौ ॥ २.२२.३३ ॥

幸而因陀罗及诸天使我的努力得以成功。哦,戈文达,这二人,即毗摩森和阿周那,都是阉人。

2.22.34

हिंस्यासि युधि विक्रम्य सिंहः क्षुद्रमृगाविव ।
तस्य रोषाभिभूतस्य जरासन्धस्य गर्जतः ॥ २.२२.३४ ॥

你将在战斗中被勇猛地杀死,如狮子杀死小兽一般,被那因愤怒而不能自持、咆哮的耆罗桑陀所杀。

2.22.35

सर्वभूतानि वित्रेमुषे तत्रासन्समागताः ।
किं गर्जसि जरासन्ध कर्मणा तत्समाचर ॥ २.२२.३५ ॥

聚集在那里的一切众生都惊愕地站立着。耆罗桑陀啊,你为何咆哮?以行动去做吧。

2.22.36

मम निर्देशकर्तृभ्यां पाण्डवाभ्यां नृपाधम ।
मात्यं ससुतं चाद्य घातयिष्याम्यहं रणे।
न कथञ्चन जीवन्वै प्रवेक्ष्यसि पुरोत्तमम् ॥ २.२२.३६ ॥

借我的两位执行者般度之子,卑劣的国王啊,今日我要让你与你的大臣、儿子一同在战场上被杀。你无论如何也活着进不了那座最好的城市。

2.22.37

नाजितान्वै नरपतीनहमादद्मि काश्चन ।
अजितः पर्यवस्थाता कोऽत्र यो न मया जितः ॥ २.२२.३७ ॥

我从不擒拿未被征服的君王。这里有谁是未被我征服的?

2.22.38

क्षत्रियस्यैतदेवाहुर्धर्म्यं कृष्णोपजीवनम् ।
विक्रम्य वशमानीय कामतो यत्समाचरेत् ॥ २.२२.३८ ॥

克里希那啊,人们称此为刹帝利合法的生计:以勇力征服,使其受控,随心所欲而行。

2.22.39

देवातार्थमुपाहृत्य राज्ञः कृष्ण कथं भयात् ।
अहमद्य विमुच्येयं क्षात्रं व्रतमनुस्मरन् ॥ २.२२.३९ ॥

克里希那啊,我已将诸王献作天神的祭祀,今日因恐惧,我怎能获得解脱?我该牢记刹帝利的誓愿。

2.22.40

सैन्यं सैन्येन व्यूढेन एक एकेन वा पुनः ।
द्वाभ्यां त्रिभिर्वा योत्स्येऽहं युगत्पृथगेव वा ॥ २.२२.४० ॥

以布阵的军队对抗你们的军队,一对一,或二人、三人,我都将应战——或同时,或分别。

2.22.41

एवमुक्त्वा जरासन्धः सहदेवाभिषेचनम् ।
अज्ञापयत्तदा राजा ययुत्सुर्भीमकर्मभिः ॥ २.२२.४१ ॥

说罢,遮罗山陀随即下令为偕提婆行灌顶礼;这位行事可怖的王渴望参战。

2.22.42

स तु सेनापतिं राजा सस्मार भरतर्षभ ।
कौशिकं चित्रसेनं च तस्मिन्युद्ध उपस्थिते ॥ २.२२.४२ ॥

婆罗多之雄啊,那时这位王想起了他的统帅——考希迦与旃罗犀那——当那场战斗来临之时。

2.22.43

ययोस्ते नामनी राजन्हंसेति डिबिकेति च ।
पूर्वं सङ्कथिते पुम्भिर्नृलोके लोकसत्कृते ॥ २.२२.४३ ॥

大王啊,二人之名曾为人间之人所传颂,为世人所尊敬,名为哈姆萨与迪姆巴卡。

2.22.44

तं तु राजन्विभुः शौरी राजानं बलिनां वरम् ।
स्मृत्वा पुरुषशार्दूलः शार्दूलसमविक्रमम् ॥ २.२२.४४ ॥

大王啊,全能的室利(黑天)想起了那位强者中的最上者,那位人中猛虎、勇武如虎的国王。

2.22.45

सत्यसन्धो जरासन्धं भुवि भीमपराक्रमम् ।
भागमन्यस्य निर्दिष्टमवध्यं मधुर्भिर्मृधेः ॥ २.२२.४५ ॥

守信的黑天,想到大地上勇猛可畏的迦罗僧陀,他在战斗中为摩图族所不能杀,且被指定为他人之份,

2.22.46

नात्मनाऽऽत्मवतां मुख्य इयेष मधुसूदनः ।
ब्राह्मीमाज्ञां पुरस्कृत्य हन्तुं हलधरानुजः ॥ २.२२.४६ ॥

自制者中最上者摩图苏陀那(黑天)并非出于己意,而是以婆罗门的命令为先,这位持犁者(大力罗摩)的幼弟想要杀他。