摩诃婆罗多 · 章 2.23
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.23.1
किमर्थं वैरिणावास्तामुभौ तौ कृष्णमागधौ ।
कथं च निर्जितः सङ्ख्ये जरासन्धेन माधवः ॥ २.२३.१ ॥
克里希那与摩揭陀王这两人为何结为仇敌?在战斗中,摩陀婆(克里希那)又是如何被车拉桑陀击败的?
2.23.2
कश्च कंसो मागधस्य यस्य हेतोः स वैरवान् ।
एतदाचक्ष्व मे सर्वं वैशम्पायन तत्वतः ॥ २.२३.२ ॥
坎萨是谁?他因何缘故与摩揭陀王结怨?婆罗门,请如实地把这一切告诉我。
2.23.3
यादवानामन्ववाये वसुदेवो महामतिः ।
उदपद्यत वार्ष्णेयो ह्युग्रसेनस्य मन्त्रभृत् ॥ २.२३.३ ॥
在药达婆族的世系中,诞生了大智慧的婆苏提婆,他是乌赫利人,乌格拉塞纳的谋臣。
2.23.4
उग्रसेनस्य कंसस्तु बभूव बलवान्सुतः ।
ज्येष्ठो बहूनां कौरव्य सर्वशस्त्रविशारदः ॥ २.२३.४ ॥
乌格拉塞纳生了一个强壮的儿子,名叫坎萨;库卢之裔啊,他是众子中的长子,精通一切兵器。
2.23.5
जरासन्धस्य दुहिता तस्य भार्याऽतिविश्रुता ।
राज्यशुक्लेन दत्ता सा जरासन्धेन धीमता ॥ २.२३.५ ॥
车拉桑陀之女,极负盛名,成为他的妻子;她是智慧的车拉桑陀以王国作为聘礼嫁出的。
2.23.6
तदर्थमुग्रसेनस्य मधुरायां सुतस्तदा ।
अभिषिक्तस्तदाऽमात्यैः स वै तीव्रपराक्रमः ॥ २.२३.६ ॥
为此,在摩偷罗,乌格拉塞纳之子、勇猛异常的他,当时便被大臣们加冕为王。
2.23.7
ऐश्वर्यबलमत्तस्तु स तदा बलमोहितः ।
निगृह्य पितरं भुङ्क्ते तद्राज्यं मन्त्रिभिः सह ॥ २.२३.७ ॥
他因权势与力量而狂妄,被力量所迷惑,便囚禁了父亲,与大臣们一同享有那王国。
2.23.8
वसुदेवस्य तत्कृत्यं न शृणोति स मन्दधीः ।
त तेन सह तद्राज्यं धर्मतः पर्यपालयत् ॥ २.२३.८ ॥
那愚钝之人不听从婆苏提婆的所为;然而他仍与之一同依法治理那王国。
2.23.9
प्रीतिमान्स तु दैत्येन्द्रो वसुदेवस्य देवकीम् ।
वाह भार्या स तदा दुहिता देवकस्य या ॥ २.२३.९ ॥
那位阿修罗之主欢喜地将当时为提婆迦之女的提婆基,作为妻子嫁给了婆苏提婆。
2.23.10
तस्यामुद्वाह्यमानायां रथेन जनमेजय ।
उपारुरोह वार्ष्णेयं कंसो भूमिपतिस्तदा ॥ २.२३.१० ॥
嗟乎,遮娜美阇耶!当她结婚后被车载而行时,那时国王坎萨登上了伐尔史涅耶(婆苏提婆)的车。
2.23.11
ततोऽन्तरिक्षे वागासीद्देवदूतस्य कस्यचित् ।
वसुदेवश्च शुश्राव तां वाचं पार्थिवश्च सः ॥ २.२३.११ ॥
于是天空中出现了某位天神使者的声音;婆苏提婆听见了,那国王也听见了那声音。
2.23.12
यामेतां वहमानोऽद्य कंसोद्वहसि देवकीम् ।
अस्या यश्चाष्टमो गर्भः स ते मृत्युर्भविष्यति ॥ २.२३.१२ ॥
坎萨啊,你今日载着并送亲的这位提婆基,她所生的第八个孩子,将成为你的死亡。
2.23.13
सोऽवतीर्य ततो राजा खड्गमुद्धृत्य निर्मलम् ।
इयेष तस्या मूर्धानं छेत्तुं परमदुर्मतिः ॥ २.२३.१३ ॥
于是国王下车,拔出明亮的宝剑,怀着极大的恶念,想要砍下她的头。
2.23.14
सान्त्वयन्स तदा कंसं हसन्कोधवशानुगम् ।
राजन्ननुनयामास वसुदेवो महामतिः ॥ २.२३.१४ ॥
于是大智的婆苏提婆微笑着安抚被愤怒所支配的刚萨,国王啊,恳请他。
2.23.15
अहिंस्यां प्रमदामाहुः सर्वधर्मेषु पार्थिव ।
अकस्मादबलां नारीं हन्तासीमामनागसीम् ॥ २.२३.१५ ॥
国王啊,在一切法中都说女子不可伤害。你却突然要杀害这个无助、无辜的女人。
2.23.16
यच्च तेऽत्र भयं राजञ्शक्यते बाधितुं त्वया ।
इयं शक्या पालयितुं समयं चैव रक्षितुम् ॥ २.२३.१६ ॥
国王啊,你在此所有的恐惧,都可以借她来克服;她可以被保护,誓约也可以被遵守。
2.23.17
अस्यास्त्वमष्टमं गर्भं जातमात्रं महीपते ।
विध्वंसय तदा प्राप्तमेवं परिहृतं भवेत् ॥ २.२३.१७ ॥
地上之主啊,她的第八个孩子,一出生就应当将其毁灭。这样,即将到来的灾祸便可避免了。
2.23.18
एवं स राजा कथितो वसुदेवेन भारत ।
तस्य तद्वचनं चके शूरसेनपतिस्तदा ॥ २.२३.१८ ॥
婆罗多啊,婆苏提婆就这样对那位国王说了;于是首罗森之主便接受了他的话。
2.23.19
ततस्तस्यां सम्बभूवुः कुमाराः सूर्यवर्चसः ।
जाताञ्चातांस्तु तान्सर्वाञ्जघान मधुरेश्वरः ॥ २.२३.१९ ॥
随后她生下了如太阳般光辉的儿子们,马图拉之主将所有出生的孩子都杀死了。
2.23.20
अथ तस्यां समभवद्बलदेवस्तु सत्तमः ।
याम्यता मायया तं तु यमो राजा विशाम्पते ॥ २.२३.२० ॥
随后她生下了最优秀的人罗摩(大力),但主啊,阎摩王以幻术将他带走了。
2.23.21
देवक्या गर्भमतुलं रोहिण्या जठरेऽक्षिपत् ।
आकृष्य कर्षणात्सम्यक्सङ्कर्षणं इति स्मृतः ॥ २.२३.२१ ॥
他将提婆基无与伦比的胎儿放入罗西尼的腹中;因被牵引而转移,他被正确地称为桑卡沙那。
2.23.22
बलश्रेष्ठतया तस्य बलदेव इति स्मृतः ।
पुनस्तस्यां समभवदष्टमो मधुमूदनः ॥ २.२३.२२ ॥
因其力量卓越,他被称为巴拉提婆。随后,她又生下第八个孩子,摩陀婆(摩图苏陀那)。
2.23.23
तस्य गर्भस्य रक्षां तु स चक्रेऽभ्यधिकं नृपः ।
ततः काले रक्षणार्थं वसुदेवस्य तत्वतः
उग्रः प्रयुक्तः कंसेन सचिवः क्रूरकर्मकृत् ॥ २.२३.२३ ॥
国王极力守护那个胎儿。随后,到了适当的时候,为了看守瓦苏提婆,卡姆沙委派了一位凶猛、行事残忍的大臣。
2.23.25
जातमात्रं वासुदेवमथाकृष्य पिता ततः ।
उपजह्रे परिक्रीतां सुतां गोपस्य कस्यचित् ॥ २.२३.२५ ॥
他一出生,父亲便抱走了瓦苏提婆,然后带来一个从某个牧人那里买来的女儿,放在那里。
2.23.26
अमृष्यमाणस्तं शब्दं देवदूतस्य पार्थिवः ।
वासुदेवं महात्मानमर्पयामास गोकुले ॥ २.२३.२६ ॥
国王无法忍受天神使者的话语,便将伟大的婆苏提婆交给了牧区戈古拉。
2.23.27
वासुदेवोपि गोपेषु ववृधेऽब्जमिवाम्भसि ।
अज्ञायमानः कंसेन गूढोऽग्निरिव दारुषु ॥ २.२३.२७ ॥
婆苏提婆也在牧人中成长,如水中莲花,不为刚所知,如木中隐藏的火。
2.23.28
विप्रचके तदा सर्वान्बल्लवान्मधुरेश्वरः ।
वर्धमानो महाबाहुस्तेजोबलसमन्वितः ॥ २.२३.२८ ॥
此时,马图拉之主,大臂者,具备光辉与力量,日渐长大,超过了所有牧人。
2.23.29
ततस्ते क्लिश्यमानास्तु पुण्डरीकाक्षमच्युतम् ।
भयेन कामादपरे गणशः पर्यवारयन् ॥ २.२३.२९ ॥
于是他们痛苦地成群包围了莲花眼的不坏者阿周那——有人出于恐惧,有人出于欲望。
2.23.30
स तु लब्ध्वा बलं राजन्नुग्रसेनस्य संमतः ।
वसुदेवात्मजः सर्वैर्भ्रातृभिः सहितं पुनः ॥ २.२३.३० ॥
大王啊,受乌格拉塞纳敬重的婆苏提婆之子获得力量后,与所有兄弟再次。
2.23.31
निर्जित्य युधि भोजेन्द्रं हत्वा कंसं महाबलः ।
अभ्यषिञ्चत्ततो राज्य उग्रसेनं विशाम्पते ॥ २.२३.३१ ॥
他在战斗中征服了诸婆结国之主,杀死了刚,然后这位大力者,人民之主啊,为乌格拉塞纳举行了王位灌顶。
2.23.32
ततः श्रुत्वा जरासन्धो माधवेन हतं युधि ।
शूरसेनाधिपं चक्रे कंसपुत्रं तदा नृप ॥ २.२३.३२ ॥
闻知康萨在战场上被摩陀婆(黑天)所杀,于是耆罗山陀,王啊,立康萨之子为苏罗善那的统治者。
2.23.33
ससैन्यं महदुत्थाप्य वासुदेवं तदा नृप ।
अभ्यषिञ्चत्सुतं तत्र सुताया जनमेजय ॥ २.२३.३३ ॥
于是,王啊,他率大军攻击婆苏提婆(黑天),在那里为女儿之子加冕,啊,遮娄柯耶。
2.23.34
उग्रसेनं च वृष्णींश्च महाबलसमन्वितः ।
स तत्र विप्रकुरुते जरासन्धः प्रतापवान् ॥ २.२३.३४ ॥
那位拥有大力的威猛耆罗山陀,在那里加害乌格罗塞那与毗瑟尼族。
2.23.35
एतद्वैरं कौरवेय जरासन्धस्य माधवे ।
आशासितार्थे राजेन्द्र संरुरोध विनिर्जितान् ॥ २.२३.३५ ॥
这是耆罗山陀对摩陀婆的仇怨,啊,俱卢之子。啊,王中之王,为了所望的目的,他围困了被征服者。
2.23.36
पार्थिवैस्तैर्नृपतिभिर्यक्ष्यमाणः समृद्धिमान् ।
देवश्रेष्ठं महादेवं कृत्तिवासं त्रियम्बकम् ॥ २.२३.३६ ॥
与那些国王一同,兴盛的耆罗山陀正要为大天——诸神中最殊胜者、披虎皮者、三眼者——举行祭祀。
2.23.37
एतत्सर्वं यथावृत्तं कथितं भरतर्षभ ।
यथा तु स हतो राजा भीमसेनेन तच्छृणु ॥ २.२३.३७ ॥
婆罗多族的雄牛啊,这一切都已依事情的经过讲述完毕。现在请听,那位国王是如何被比摩先那所杀的。