Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 2.27

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.27.1

दिशामभिजयं ब्रह्मन्विस्तरेणानुकीर्तय ।
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ॥ २.२७.१ ॥

婆罗门啊,请详细讲述诸方的征服。聆听先祖的伟大事迹,我仍不知满足。

2.27.2

धनञ्जयस्य वक्ष्यामि विजयं पूर्वमेव ते ।
यौगपद्येन पार्थैर्हि निर्जितेयं वसुन्धरा ॥ २.२७.२ ॥

我先为你讲述财胜(阿周那)的胜利;普利塔之子们一同征服了这片大地。

2.27.3

अवाप्य राजा राज्यार्धं कुन्तीपुत्रो युधिष्ठिरः ।
महत्त्वे राजशब्दस्य मनश्चक्रे महामनाः ॥ २.२७.३ ॥

贡蒂之子、心胸宽广的坚战得到半个王国后,专心于王号的尊贵。

2.27.4

तदा क्षात्रं विदित्वाऽस्य पृथिवीविजयं प्रति ।
अमर्षात्पार्थिवेन्द्राणां तं समेयाय वारयत् ॥ २.२७.४ ॥

于是,刺探到这位刹帝利征服大地的意图,诸王之主因愤怒而聚集起来,前去阻止他。

2.27.5

तत्समेत्य भुवः क्षात्रं रथनागाश्वपत्तिमत् ।
अभ्ययात्पार्थिवं जिष्णुं मोघं कर्तुं जनाधिप ॥ २.२७.५ ॥

于是,他们聚集起来,以战车、象、马和步兵组成的刹帝利军队,向得胜的国王进攻,人主啊,意欲使他的事业落空。

2.27.6

तत्पार्थः पार्थिवं क्षात्रं युयुत्सुं परमाहवे ।
प्रत्युद्ययौ महाबाहुस्तरसा पाकशासनिः ॥ २.२७.६ ॥

于是,普利塔之子、臂力强大的因陀罗之子(阿周那)迅速出阵,迎战那支渴望在大战中厮杀的王家刹帝利军队。

2.27.7

तद्भग्रं पार्थिवं क्षात्रं पार्थेनाक्लिष्टकर्मणा ।
वायुनेव घनानीकं तूलीभूतं ययौ दिशः ॥ २.२७.७ ॥

无难行业的般度之子击溃了诸王的刹帝利军队;如被风吹散的云团,化作棉絮,四散奔逃。

2.27.8

तज्जित्वा पार्थिवं क्षात्रं समरे परवीरहा ।
ययौ तदा वशे कर्तुमुदीचीं पाण्डुनन्दनः ॥ २.२७.८ ॥

在战场上击败诸王的刹帝利军队后,杀死敌方英雄的般度之子便动身去征服北方。

2.27.9

पूर्वं कुलिङ्गविषये वशे चक्रे महीपतिम् ।
धनञ्जयो महाबाहुर्नातितीव्रेण कर्मणा ॥ २.२७.९ ॥

从前,在拘林陀国,大臂的财施(阿周那)未用过于猛烈的手段便使那位君主臣服。

2.27.10

तेनैव सहितः प्रायाज्जिष्णुः साल्वपुरं प्रति ।
स साल्वपुरमासाद्य साल्वराजं धनञ्जयटः ॥ २.२७.१० ॥

胜者杰施努(阿周那)率同一军队前往沙尔瓦城;到达沙尔瓦城后,财施(阿周那)与沙尔瓦王交锋。

2.27.11

विक्रमेणोग्रधन्वानं वशे चक्रे महामनाः ।
तं पार्थः सहसा जित्वा द्युमत्सेनं महीश्वरम् ॥ २.२७.११ ॥

大心者以勇力征服了凶猛的弓手;般度之子突然击败了他,又击败了大地之主丢马森那。

2.27.12

कृत्वा स सैनिकं प्रायात्कटदेशमरिन्दमः ।
तत्र पार्थो रणे जिष्णुः सुनाभं वसुधाधिपम् ॥ २.२७.१२ ॥

此后,制敌者率军前往迦吒国;在那里,胜利的般度之子在战场上击败了大地之主苏那跋。

2.27.13

विक्रमेण वशे कृत्वा कृतवाननुसैनिकम् ।
एतेन सहितो राजन्सव्यसाची परन्तपः ॥ २.२७.१३ ॥

他以勇力使其臣服,并使其随从自己的军队。大王啊,与此同时,灼敌者萨维亚萨钦(阿周那)取得了胜利。

2.27.14

विजिग्ये शाकलद्वीपे प्रतिविन्ध्यं च पार्थिवम् ।
कलद्वीपवासाश्च सप्तद्वीपेषु ये नृपाः ॥ २.२७.१४ ॥

在沙迦拉岛,他征服了国王普拉提文地亚;又征服了迦拉岛的居民,以及七岛中的诸王。

2.27.15

अर्जुनस्य च सैन्यस्थैर्विग्रहस्तुमुलोऽभवत् ।
तान्सर्वानजयत्पार्तो धर्मराजप्रियेप्सया ॥ २.२७.१५ ॥

与阿周那军中的士兵发生了激烈的战斗。普利塔之子为了取悦法王,战胜了他们所有人。

2.27.16

तैरेव सहितः सर्वैः प्रग्ज्योतिषमुपाद्रवत् ॥ २.२७.१६ ॥

与他们全体一同,他冲向普拉格扬迪沙并发动了进攻。

2.27.17

तत्र राजा महानासीद्भगदत्तो विशाम्पते ।
तेनासीत्सुमहद्युद्धं पाण्डवस्य महात्मनः ॥ २.२७.१७ ॥

那里有一位伟大的国王跋伽达多,人民之主啊;他与伟大的般度之子展开了一场极其激烈的战斗。

2.27.18

स किरातैश्च चीनैश्च वृतः प्राग्ज्योतिषोऽभवत् ।
अन्यैश्च बहुभिर्योधैः सागरानुपवासिभिः ॥ २.२७.१८ ॥

他作为普拉格扬迪沙之王,被基拉塔人和支那人以及许多居住在海岸的其他战士所包围。

2.27.19

ततः स दिवसानष्टौ योधयित्वा धनञ्जयम् ।
प्रहसन्नब्रवीद्राजा सङ्ग्रामविगतक्रमम् ॥ २.२७.१९ ॥

于是国王与达那闍耶激战八日,笑着对那失去战阵秩序的人说道:

2.27.20

उपपन्नं महाबाहो त्वयि कौरवनन्दन ।
पाकशासनदायादे वीर्यमाहवशोभिनि ॥ २.२७.२० ॥

此勇力适合于你,大臂者啊,俱卢之乐,帝释之继承者,战斗的光彩。

2.27.21

अहं सखा महेन्द्रस्य शक्रादनवरो रणे ।
न शक्ष्यामि च ते तात स्थातुं प्रमुखतो युधि ॥ २.२७.२१ ॥

我是摩罗因陀罗(因陀罗)之友,在战斗中不逊于帝释。孩子啊,我在战场上不能抵挡你的面前。

2.27.22

त्वमीप्सितं पाण्डवेयं ब्रूहि किं करवाणि ते ।
यद्वक्ष्यसि महाबाहो तत्करिष्यामि पुत्रक ॥ २.२७.२२ ॥

你想要帕坦都(阿周那)什么,请说。大臂者啊,孩子,我为你做什么?你说什么,我便做什么。

2.27.23

कुरूणामृषभो राजा धर्मपुत्रो युधिष्ठिरः ।
धर्मज्ञः सत्यसन्धश्च यज्वा विपुलदक्षिणः ॥ २.२७.२३ ॥

国王坚战,法之子,俱卢族中的雄牛,知法者,守诺者,行祭者,施予丰厚祭礼者。

2.27.24

तस्य पार्थिवतामीप्से करस्तस्मै प्रदीयताम् ।
भवान्पितृसखश्चैव प्रीयमाणो मयापि च।
ततो नाज्ञापयामि त्वां प्रीतिपूर्वं प्रदीयताम् ॥ २.२७.२४ ॥

我希望他获得王权;应当向他缴纳贡赋。你是我父亲的朋友,也对我满意。因此我不命令你;请出于亲情而给予。

2.27.25

कुन्तीमातर्यथा मे त्वं तथा राजा युधिष्ठिरः ।
सर्वमेतत्करिष्यामि किं चान्यत्करवाणि ते ॥ २.२७.२५ ॥

母亲贡蒂啊,您对我如何,国王坚战也如何。这一切我都会做。此外,我还能为您做什么?