摩诃婆罗多 · 章 2.29
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.29.1
स श्वेतपर्वतं वीरः समतिक्रम्य वीर्यवान् ।
देशं किम्पुरुषावासं द्रुमपुत्रेण रक्षितम् ॥ २.२९.१ ॥
那位英勇而有力的英雄越过白山,抵达由德鲁玛之子守护的紧那罗居住之地。
2.29.2
महता सन्निपातेन क्षत्रियान्तकरेण ह ।
अजयत्पाण्डवश्रेष्ठः करे चैनं न्यवेशयत् ॥ २.२९.२ ॥
在一场大战中,般度族中最优秀者征服了那些屠杀刹帝利的人,使他们纳贡。
2.29.3
तं जित्वा हाटकं नाम देशं गुह्यकरक्षितम् ।
पाकशासनिरव्यग्रः सहसैन्यः समासदत् ॥ २.२९.३ ॥
征服了名为哈塔卡、由古希亚卡守护的那片土地后,因陀罗之子泰然自若地率军抵达那里。
2.29.4
तांस्तु सान्त्वेन निर्जित्य मानसं सर उत्तमम् ।
ऋषिकुल्यास्तथा सर्वा ददर्श कुरुनन्दनः ॥ २.२९.४ ॥
以安抚使他们归服后,俱卢之乐看见了殊胜的摩那娑湖和所有仙人族群。
2.29.5
सरो मानसमासाद्य हाटकानभितः प्रभुः ।
गन्धर्वरक्षितं देशमजयत्पाण्डवस्ततः ॥ २.२९.५ ॥
到达摩那娑湖后,般度之主随即征服了哈塔卡四周由乾闼婆守护的土地。
2.29.6
तत्र तित्तिरिकल्माषान्मण्डूकाख्यान्हयोत्तमान् ।
लेभे स करसमत्यन्तं गन्धर्वनगरात्तदा ॥ २.२९.६ ॥
他在那里从乾闼婆城获得了大量名为曼杜卡的良马作为贡物,毛色如鹧鸪斑纹。
2.29.7
हेमकूटमथासाद्य न्यवसत्फल्गुनस्तदा ।
तं हेमकूटं राजेन्द्र समतिक्रम्य पाण्डवः ॥ २.२९.७ ॥
到达金峰后,法尔古那便在那里停留。王中之王啊,般度之子越过那金峰之后(继续前行)。
2.29.8
हरिवर्षं विवेशाथ सैन्येन महता वृतः ।
तत्र पार्थो ददर्शाथ बहूनिह मनोरमान् ॥ २.२९.८ ॥
被大军包围着,他随后进入了哈里婆湿。在那里,帕尔塔看到了这里许多令人愉悦的事物。
2.29.9
नगरान्सवनांश्चैव नदीश्च विमलोदकाः ।
पुरुषान्देवकल्पांश्च नारीश्च प्रियदर्शनाः ॥ २.२९.९ ॥
城市与祭祀场所,清澈水流的河流,如神一般的男子和令人赏心悦目的女子。
2.29.10
तान्सर्वास्तत्र दृष्ट्वाऽथ मुदा युक्तो धनञ्जयटः ।
वशे चक्रे स रत्नानि लेभे च सुबहूनि च ॥ २.२९.१० ॥
在那里看到了他们全部之后,财富胜者满心欢喜,将它们收归己有,并获得了许多宝石。
2.29.11
ततो निषधमासाद्य गिरिस्थानजयत्प्रभुः ।
अथ राजन्नतिक्रम्य निषधं शैलमायतम् ॥ २.२९.११ ॥
随后,他到达尼沙陀,那位有力者征服了山区。王啊,随后越过绵延的尼沙陀山,(他继续前行)。
2.29.12
विवेश मध्यमं वर्षं पार्थो दिव्यमिलावृतम् ।
तत्र दिव्योपमान्दिव्यान्पुरुषान्देवदर्शनान् ॥ २.२९.१२ ॥
帕尔塔进入了名为神圣伊拉弗塔的中央之地。那里有神一般的人,如神明般的、令人见之如见神的男子。
2.29.13
अदृष्टपूर्वान्सुभगान्स ददर्श धनञ्जयः ।
सदनानि च शुभ्राणि नारीश्चाप्सरसंनिभाः ॥ २.२९.१३ ॥
财主(阿周那)看见了从未见过的美丽、光明的宅第,以及如天女般的女子。
2.29.14
दृष्ट्वा तानजयद्रम्यान्स तैश्च ददृशे तदा ।
जित्वा च तान्महाभागान्करे च विनिवेश्य च ॥ २.२९.१४ ॥
他看见那些可爱的人便将他们征服;那时他们也看见了他。征服了那些大福之人并使其归于掌下之后,
2.29.15
रत्नान्यादाय दिव्यानि भूषणान्यासनैः सह ।
उदीचीमथ राजेन्द्र ययौ पार्थो मुदाऽन्वितः ॥ २.२९.१५ ॥
带着神圣的珠宝、饰物和座椅,王中之王啊,贡地之子欣喜地向北而行。
2.29.16
स ददर्श ततो मेरुं शिखरीणां प्रभुं महत् ।
तं काञ्चनमयं दिव्यं चतुर्वणं दुरासदम् ॥ २.२९.१६ ॥
接着他看见了伟大的须弥山——群峰之主,金色、神圣、四色,难以接近。
2.29.17
उन्नतं शतसाहस्रं योजनानां तु सुस्थितम् ।
ज्वलन्तमचलं मेरुं तेजोराशिमनुत्तमम् ॥ २.२९.१७ ॥
那须弥山高达十万由旬,稳固屹立——炽燃、不动,是无与伦比的光明之聚。
2.29.18
आक्षिपन्तं प्रभां भानोः स्वशृङ्गैः काञ्चनोज्ज्वलैः ।
काञ्चनाभरणं दिव्यदेवगन्धर्वसेवितम् ॥ २.२९.१८ ॥
以金色闪耀的山峰胜过日光,以金饰装点,受天神与乾闼婆侍奉。
2.29.19
अप्रमेयमनाधृष्यमधर्मबहुलैर्जनैः ।
व्यालैराचरितं धोरैर्दिव्यौषधिविदीपितम् ॥ २.२९.१९ ॥
它不可估量、不可侵犯,充满不法之人与凶猛的猛兽,并被神圣的药草照亮。
2.29.20
स्वर्गमावृत्य तिष्ठन्तमुच्छ्रायेण महागिरिम् ।
अगम्यं मनसाप्यन्यैर्नदीवृक्षसमन्वितम् ॥ २.२९.२० ॥
那座巨大的山峰遮蔽天空、高耸而立,即使他人以心也无法企及,拥有河流与树木。
2.29.21
नानाविहगसङ्घैश्च नादितं सुमनोहरैः ।
तं दृष्टा फल्गुनो मेरुं प्रीतिमानभवत्तदा ॥ २.२९.२१ ॥
见到那座回响着众多鸟群鸣声、极其美妙的弥卢山,法尔古那(阿周那)便感到欢喜。
2.29.22
मेरोरिलावृतं दिव्यं सर्वतः परिमण्डितम् ।
मेरोस्तु दक्षिणे पार्श्वे जम्बूर्नाम वनस्पतिः ॥ २.२९.२२ ॥
在弥卢山周围,四面皆被装饰,有神圣的伊拉伐多之地。在弥卢山南侧,有一棵名为阎浮的树。
2.29.23
नित्यपुष्पफलोपेवः सिद्धचारणसेवितः ।
आस्वर्गमुच्छ्रिता राजंस्तस्य शाखा वनस्पतेः ॥ २.२९.२३ ॥
它常开花结果,为悉陀与遮罗所侍奉。大王啊,那树的枝条高高伸向天界。
2.29.24
यस्य नाम्ना त्विदं द्वीपं जन्बूद्वीपमिति स्मृतम् ।
तां च जम्बूं ददर्शाथ सव्यसाची परन्तपः ॥ २.२९.२४ ॥
这座岛屿因其名而被称为阎浮洲,那棵阎浮树,焚灭敌人者萨维亚萨钦(阿周那)当时见到了。
2.29.25
तौ दृष्ट्वाऽप्रतिमौ लोके जम्बूं मेरुं च संस्थितौ ।
प्रतीमानभवद्राजन्सर्वतः स विलोकयन् ॥ २.२९.२५ ॥
国王啊,他见到世间无与伦比、矗立在那里的阎浮树与须弥山,便四处张望,感到惊叹。
2.29.26
तत्र लेभे ततो जिष्णुः सिद्धैर्दिव्यैश्च चारणैः ।
रत्नानि बहुसाहस्रं दत्तान्याभरणानि च ॥ २.२९.२६ ॥
在那里,胜者(阿周那)获得了悉陀与天界持明者所赠的成千上万的珠宝与饰物。
2.29.27
वासांसि च महार्हाणि तत्र लब्ध्वाऽर्जुनस्तदा ।
आमन्त्रयित्वा तान्सर्वान्यज्ञमुद्दिश्य वै गुरोः ॥ २.२९.२७ ॥
阿周那在那里又获得了极为贵重的衣物;随后为了老师的祭祀,向他们所有人告辞。
2.29.28
अथादाय बहून्रत्नान्गमनाययोपचक्रमे ।
मेरुं प्रदक्षिणीकृत्य प्रवतप्रवरं प्रभुः ॥ २.२९.२८ ॥
随后,这位主人取了许多珠宝,准备启程,并以右绕之礼环绕了群山中最高的须弥山。
2.29.29
ययौ जम्बूनदीतीरे नदीं श्रेष्ठां विलोकयन् ।
स तां मनोरमां दिव्यां जम्बूस्वादुरसावहाम् ॥ २.२९.२९ ॥
他沿着阎浮河岸前行,凝视着那条殊胜、迷人、神圣、流淌着阎浮果甘美汁液的河流。
2.29.30
हैमपक्षिगणैर्जुष्टां सौवर्णजलजाकुलाम् ।
हैमपङ्कां हैमजलां सौवर्णोज्ज्वलवालुकाम् ॥ २.२९.३० ॥
金色的鸟群常来栖息,充满金色的莲花,有金色的淤泥与金色的水,沙子闪耀如金。
2.29.31
क्वचित्मुपिष्पितैः पूर्णां सौवर्णकुसुमोत्पलैः ।
क्वचित्तीररुहैः कीर्णां हैमपुष्पैः सुपुष्पितैः ॥ २.२९.३१ ॥
有些地方长满盛开的植物,有金色的花和莲花;有些地方被生长在岸边的树木覆盖,并点缀着盛开的金色花朵。
2.29.32
तीर्थैश्च रुक्मसोपानैः सर्वतः समलङ्कुताम् ।
विमलैर्मणिजालैश्च नृत्तगीतरवैर्युताम् ॥ २.२९.३२ ॥
四周装饰着带有金色台阶的圣浴台,缀以清澈的宝石网,并充满舞蹈与歌唱的声音。
2.29.33
दीप्तैर्हेमवितानैश्च समन्ताच्छोभितां शुभाम् ।
तथाविधां नदीं दृष्ट्वा पार्थस्तां प्रशशंस ह ॥ २.२९.३३ ॥
帕尔塔看见这条吉祥的河流,四周装饰着闪耀的金色华盖,便赞美了它。
2.29.34
दृष्टपूर्वां राजेन्द्र दृष्ट्वा हर्षमवाप च ।
दर्शनीयां नदीतीरे पुरुषान्सुमनोहरान् ॥ २.२९.३४ ॥
王中之王啊,他再次看到先前见过的景象,便感到欢喜;又看见河岸上那些令人赏心悦目、极其可爱的人们。
2.29.35
तान्नदीसलिलाहारान्सदारानमरोपमान् ।
नित्यं सुखमुदा युक्तान्सर्वालङ्कारशोभितान् ॥ २.२९.३५ ॥
那些以河水为食的人,与妻子同在,如同神明一般,常怀幸福与欢乐,佩戴着一切饰物。
2.29.36
तेभ्यो बहूनि रत्नानि तदा लेभे धनञ्जयः ।
दिव्यजम्बूफलं हैमं भूषणानि च पेशलम् ॥ २.२९.३६ ॥
于是,财富征服者从他们那里得到了许多宝石、一枚如神圣蓝果般的金色果实,以及精美的饰物。
2.29.37
लब्ध्वा तान्दुर्लभान्पार्थः प्रतीचीं प्रययौ दिशम् ।
नागानां रक्षितं देशमजयश्च पुनस्ततः ॥ २.२९.३७ ॥
Pārtha得到那些稀有的珍宝后,向西方前行,随后又征服了被龙蛇族(那伽)守护的土地。
2.29.38
ततो गन्वा महाराज वारुणीं पाकशासनिः ।
गन्धमादनमासाद्य ततस्तानजयत्प्रभुः ॥ २.२९.३८ ॥
大王啊,帝释之子(阿周那)随后向西而行,到达乾陀摩陀那山,并在那里征服了他们。
2.29.39
तं गन्धमादनं राजन्नतिक्रम्य ततोऽर्जुनः ।
केतुमालं ददर्शाथ वर्षं रत्नसमन्वितम् ॥ २.२९.३९ ॥
大王啊,阿周那越过乾陀摩陀那山后,看见了盛产珍宝的乾陀摩罗(Ketumāla)之地。
2.29.40
सेवितं देवकल्पैश्च नारीभिः प्रियदर्शनैः ।
तं जित्वा चार्जुनो राजन्करे च विनिवेश्य च ॥ २.२९.४० ॥
大王啊,阿周那征服了那片有如天神般的人和容貌可爱的女子所居住的土地,并将其置于自己的掌控之下。
2.29.41
आहृत्य तत्र रत्नानि दुर्लभानि तथार्जुनः ।
पुनश्च परिवृत्याथ माध्यं देशमिलावृतम् ॥ २.२९.४१ ॥
阿周那从那里取得稀有的珍宝,随后折返,前往中部之地伊拉跋利多(Ilāvṛta)。
2.29.42
गत्वा प्राचीं दिशं राजन्सव्यसाची धनञ्जयः ।
मेरुमन्दरयोर्मध्ये शैलोदामभितो नदीम् ॥ २.२९.४२ ॥
大王啊,左右开弓的达那阳阇耶(阿周那)向东方前行,抵达了梅卢山与曼陀罗山之间、沙罗陀河(Śailodā)的两岸。
2.29.43
ये ते कीचकवेणूनां छायां रम्यामुपासते ।
कषान्झषांश्च नद्यौ तान्प्रघसान्दीप्तवेणिपान् ॥ २.२९.४३ ॥
居于迦旃婆竹之宜人荫下的人,迦沙人与闍沙人,以及那两条河的普罗伽萨人,他们是光辉发辫的守护者。
2.29.44
पशुपांश्च कुलिन्दांश्च तङ्कणान्परतङ्कणान् ।
एतान्समस्ताञ्जित्वा च करे च विनिवेश्य च ॥ २.२९.४४ ॥
征服了所有这些人——帕舒波人与库林达人,丹干那人与帕拉丹干那人——并使他们纳贡。
2.29.45
रत्नान्यादाय सर्वेभ्यो माल्यवन्तं ततो ययौ ।
तं माल्यवन्तं शैलेन्द्रं समतिक्रम्य पाण्डवः ॥ २.२९.४५ ॥
从所有人那里取得宝物后,他便前往摩利耶梵山;般度之子越过这座山王摩利耶梵。
2.29.46
भद्राश्वं प्रविवेशाथ वर्षं स्वर्गोपमं शुचिम् ।
तत्र देवोपमान्दिव्यान्पुरुषाञ्शुभसंयुतान् ॥ २.२९.४६ ॥
随后他进入了跋陀罗奢瓦地区,那里纯净如天界;那里有如神明般、神圣而具足吉祥美德的人。
2.29.47
जित्वा तान्स्ववशे कृत्वा करे च विनिवेश्य च ।
आहृत्य सर्वतो रत्नान्यसङ्ख्यानि ततस्ततः ॥ २.२९.४७ ॥
征服了他们,使其归于自己的统治并纳贡,又从四面八方汇集了无数宝物,从这里到那里。
2.29.48
नीलं नाम गिरिं गत्वा तत्रस्थानजयत्प्रभुः ।
ततो जिष्णुरतिक्रम्य पर्वतं नीलमायतम् ॥ २.२९.४८ ॥
他前往名为尼罗的山,征服了那里的居民。随后这位胜利者越过了绵延的尼罗山。
2.29.49
विवेश रम्यकं वर्षं सङ्कीर्णं मिथुनैः शुभैः ।
तं देशमथ जित्वा स करे च विनिवेश्य च ॥ २.२९.४९ ॥
他进入充满吉祥成双生灵的罗摩耶迦地域。征服那片土地并使其纳贡后,他在那里安顿下来。
2.29.50
अजयच्चापि बीभत्सुर्देशं गुह्यकरक्षितम् ।
तत्र लेभे च राजेन्द्र सौवर्णान्मृगपक्षिणः ॥ २.२९.५० ॥
毗陀图(阿周那)也征服了由古耶卡守护的那片土地。啊,诸王之主,他在那里获得了金色的鹿与鸟。
2.29.51
अगृह्णाद्यज्ञभूत्यर्थं रमणीयान्मनोहरान् ।
अन्यांश्च लब्ध्वा रत्नानि पाण्डवोऽथ महाबलः ॥ २.२९.५१ ॥
为了祭祀之用,他取了美丽迷人的物品。然后,大力的般度之子又获得了其他宝石,
2.29.52
गन्धर्वरक्षितं देशमजयत्सगणं तदा ।
तत्र रत्नानि दिव्यानि लब्ध्वा राजन्नथार्जुनः ॥ २.२९.५२ ॥
于是,他与随从一同征服了由乾闼婆守护的那片土地。啊,国王,阿周那在那里获得了天界的宝石,
2.29.53
वर्षं हिरण्वतं नाम विवेशाथ महीपते ।
स तु देशेषु रम्येषु गन्तुं तत्रोपचक्रमे ॥ २.२९.५३ ॥
然后,啊,大地之主,他进入了名为希然瓦塔的地域。在那些令人愉悦的国度中,他从那里开始前行。
2.29.54
मध्ये प्रासादवृन्देषु नक्षत्राणां शशी यथा ।
महापथेषु राजैन्द्र सर्वतो यान्तमर्जुनम् ॥ २.२९.५४ ॥
犹如群星之中的月亮,在成群的宫殿之间。啊,诸王之主,阿周那在大道上四面八方行进。
2.29.55
प्रासादवरशृङ्गस्थाः परया वीर्यशोभया ।
ददृशुस्तं स्रियः सर्वाः पार्थमात्मयशस्करम् ॥ २.२९.५५ ॥
站在宫殿高处的所有妇女都看见了阿周那(般度之子),他充满至高的勇武与光彩,为自己增添荣耀。
2.29.56
तं कलापधरं शूरं सरथं सधनुः करम् ।
सवर्मं सकिरीटं वै संनद्धं सपरिच्छदम् ॥ २.२९.५६ ॥
他们看见那位英雄,背负箭囊,手持弓,乘战车,身披甲胄,头戴冠冕,全副武装,随从相伴。
2.29.57
सुकुमारं महासत्वं तेजोराशिमनुत्तमम् ।
शक्रोपमममित्रघ्नं परवारणवारणम् ॥ २.२९.५७ ॥
外表柔和而胆魄宏大,是无与伦比的光辉之聚,如同因陀罗,是敌人的杀手,能够阻挡敌方的象群。
2.29.58
पश्यन्तः स्त्रीगणास्तत्र शक्तिपाणिं स्म मेनिरे ।
अयं स पुरुषव्याघ्रो रणेऽद्भुतपराक्रमः ॥ २.२९.५८ ॥
那里观看的妇女们认为他手持长矛:“这就是人中之虎,在战场上有非凡的勇力。”
2.29.59
अस्य बाहुबलं प्राप्य न भवन्त्यसुहृद्गणाः ।
इति वाचो ब्रुवन्त्यस्ताः स्त्रियः प्रेम्णा धनञ्जयम् ॥ २.२९.५९ ॥
“在他臂力面前,敌人的大军无法站立。”那些妇女怀着爱意,就这样谈论起财富征服者(阿周那)。
2.29.60
तुष्टुवुः पुष्पवृष्टिं च ससृजुस्तस्य मूर्धनि ।
दृष्ट्वा ते तु मुदा युक्ताः कौतूहलसमन्वितः ॥ २.२९.६० ॥
她们赞美他,并向他的头上洒下花雨。看见他,她们满心欢喜,又充满好奇。
2.29.61
रत्नैर्विभूषणैश्चैव अभ्यवर्षंश्च पाण्डवम् ।
अथ जित्वा समस्तांस्तान्करे च विनिवेश्य च ॥ २.२९.६१ ॥
他们以宝石和饰物向般度之子洒落,并在征服了他们所有人、将他们置于其手下之后,
2.29.62
मणिहेमप्रबालानि शस्त्राण्याभरणानि च ।
एतानि लब्ध्वा पार्थोऽथ शृङ्गवन्तं गिरिं ययौ ॥ २.२९.६२ ॥
帕特哈获得了这些宝石、黄金、珊瑚、兵器和饰物后,便前往尸陀婆山。
2.29.63
शृङ्गवन्तं च कौरव्यः समतिक्रम्य फल्गुनः ।
उत्तरं हरिवर्षं तु स समासाद्य पाण्डवः ॥ २.२९.६३ ॥
越过尸陀婆山,那位俱卢后裔、般度之子法尔古那到达了北方的哈里婆尔沙。
2.29.64
विद्याधरगणांश्चैव यक्षेन्द्रांश्च विनिर्जयन् ।
तत्र लेभे महात्मा वै वासो दिव्यमनुत्तमम् ॥ २.२९.६४ ॥
那位大智者在征服了持明众与夜叉之主后,在那里获得了无上的神圣衣裳。
2.29.65
किन्नरद्रुमपत्रांश्च तत्र कृष्णाजिनान्बहून् ।
याज्ञीयांस्तांस्तदा दिव्यांस्तत्र लेभे धनञ्जय ॥ २.२९.६५ ॥
达那贾耶在那里获得了紧那罗的树叶、许多黑羚羊皮,以及那些适合祭祀的神圣之物。
2.29.66
उत्तरं हरिवर्षं तु स समासाद्य पाण्डवः ।
इयेष जेतुं तं देशं पाकशासनन्दनः ॥ २.२९.६६ ॥
那位般度之子、因陀罗之子到达北方的哈里婆尔沙,便想征服那片土地。
2.29.67
तत एनं महावीर्यं महाकाया महाबलाः ।
द्वारपालाः समासाद्य हृष्टा वचनमब्रुवन् ॥ २.२९.६७ ॥
于是,那些身躯庞大、力量强大的守门人走近这位大勇士,欢喜地说道。
2.29.68
पार्थ नेदं त्वया शक्यं पुरं जेतुं कथञ्जन ।
उपावर्तस्व कल्याण पर्याप्तमिदमच्युत ॥ २.२९.६८ ॥
帕尔塔啊,你无论如何也无法征服这座城。善人啊,请返回吧;不朽者啊,这已经足够了。
2.29.69
इदं पुरं यः प्रविशेद्घ्रुवं न स भवेन्नरः ।
प्रीयामहे त्वया वीर पर्याप्तो विजयस्तवै ॥ २.२९.६९ ॥
凡进入此城者,必定不再是凡人。英雄啊,我们为你欢喜;你的胜利已经足够。
2.29.70
न चात्र किञ्चिज्जेतव्यमर्जुनात्र प्रदृश्यते ।
उत्तराः कुरुवो ह्येते नात्र युद्धं प्रवर्तते ॥ २.२९.७० ॥
阿周那啊,这里没有可征服之物,也看不见什么。这些是北俱卢人;此地不起战事。
2.29.71
प्रविष्टोऽपि हि कौन्तेय नेह द्रक्ष्यसि किञ्चन ।
न हि मानुषदेहेन शक्यमत्राभिवीक्षितुम् ॥ २.२९.७१ ॥
即使进入,贡蒂之子啊,你在这里也看不见任何东西;以人身在此无法得见。
2.29.72
अथेह पुरुषव्याघ्र किञ्चिदन्यच्चिकीर्षसि ।
तत्प्रब्रूहि करिष्यामो वचनात्तव भारत ॥ २.२९.७२ ॥
那么,人中之虎啊,若你在此还想做别的事,请说出来;婆罗多之后啊,依你的话,我们便去做。
2.29.73
ततस्तानब्रवीद्राजन्नर्जुनः प्रहसन्निव ।
पार्थिवत्वं चिकीर्षामि धर्मराजस्य धीमतः ॥ २.२९.७३ ॥
于是阿周那仿佛笑着对他们说:大王,我想为聪慧的法王坚战确立对大地的统治。
2.29.74
न प्रवेक्ष्यामि वो देशं विरुद्धं यदि मानुषैः ।
युधिष्ठिराय यत्किञ्चित्करपण्यं प्रदीयताम् ॥ २.२९.७४ ॥
若你们不与人为敌,我便不进入你们的国土。请为坚战献上任何贡品。
2.29.75
नो चेत्कृष्णेन सहितो योधयिष्यामि सायकैः ।
ततो दिव्यानि वस्त्राणि दिव्यान्याभरणानि च।
क्षौमाजिनानि दिव्यानि तस्य ते प्रददुः करम् ॥ २.२९.७५ ॥
否则,我将与克里希那一同用箭作战。于是他们向他献上神圣的衣服、神圣的饰物、丝绸和神圣的鹿皮作为贡品。
2.29.76
एवं स पुरुषव्याघ्रो विजित्य दिशमुत्तराम् ।
सङ्ग्रामान्सुबहून्कृत्वा क्षत्रियैर्दस्युभिस्तथा ॥ २.२९.७६ ॥
如此,那位人中之虎征服了北方,并与刹帝利和盗贼进行了许多次战斗。
2.29.77
स विनिर्जित्य राज्ञस्तान्करे च विनिवेश्य तु ।
धनान्यादाय सर्वेभ्यो रत्नानि विविधानि च ॥ २.२९.७७ ॥
他征服了那些国王,使他们俯首听命,并从所有人那里取得财富与各种珠宝。
2.29.78
हयांस्तित्तिरिकल्माषाञ्शुकपत्रनिभानपि ।
मयूरसदृशान्यान्सर्वाननिलरंहसः ॥ २.२९.७८ ॥
还有所有的马,斑点如鹧鸪,如鹦鹉羽毛般色彩,似孔雀,奔跑如风。
2.29.79
वृतः सुमहता राजन्बलेन चतुरङ्गिणा ।
आजगाम पुनर्वीरः शक्रप्रस्थं पुरोत्तमम् ॥ २.२९.७९ ॥
大王啊,герой被四军所围绕,再次回到了最好的城市——帝释天城(Śakraprastha)。
2.29.80
धर्मराजाय तत्पार्थो धनं सर्वं सवाहनम् ।
न्यवेदयदनुज्ञातस्तेन राज्ञा गृहान्ययौ ॥ २.२९.८० ॥
阿周那将所有财物连同车辆一并呈献给法王;得到国王的允许后,他便回家去了。