摩诃婆罗多 · 章 2.3
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.3.1
अथाब्रवीन्मयः पार्थमर्युनं जयतां वरम् ।
आपृच्छे त्वां गमिष्यामि पुनरेष्यामि चाप्यहम् ॥ २.३.१ ॥
于是摩耶对胜利者中最优秀的般度之子阿周那说:"我向你告辞;我将离去,然后再回来。"
2.3.2
विश्रुतां त्रिषु लोकेषु पार्थ दिव्यां सभां तव ।
प्राणिनां विस्मयकरीं तव प्रियविवर्धिनीम्।
पाण्डवानां च सर्वेषां करिष्यामि धनञ्जय ॥ २.३.२ ॥
"唵,般度之子,我将为般度五子及其所有人建造一座神圣的议事厅,它将闻名三界,令众生惊叹,并增添你的喜悦,财富征服者啊。"
2.3.3
उत्तरेण तु कैलासं मैनाकं पर्वतं प्रति ।
यियक्षमाणेषु पुरा दानवेषु मया कृतम् ॥ २.३.३ ॥
"在北方,靠近凯拉萨山的摩耶那山,往昔达那婆们想要举行祭祀时,此处由我所建。"
2.3.4
चित्रं मणिमयं भाण्डं रम्यं बिन्दुसारः प्रति ।
सभायां सत्यसन्धस्य यदासीद्वृषपर्वणः ॥ २.३.४ ॥
"一件奇妙、由宝石制成、美丽的器皿——宾杜萨拉——它曾在守信的毗湿婆帕尔万的议事厅中。"
2.3.5
आगमिष्यामि तद्गृह्य यदि तिष्ठति भारत ।
ततः सभां करिष्यामि पाण्डवस्य यशस्विनीम् ॥ २.३.५ ॥
"如果它仍然在那里,婆罗多之子啊,我将取来它;然后我将为般度之子建造一座光荣的议事厅。"
2.3.6
मनः प्रह्लादिनीं चित्रां सर्वरत्नविभूषिताम् ।
अस्ति बिन्दुसारस्युग्रा गदा च कुरुनन्दन ॥ २.३.६ ॥
"一柄令心欢喜、奇妙、以一切宝石装饰的金刚杵——宾杜萨拉的凶猛金刚杵也在那里,库鲁之喜悦啊。"
2.3.7
निहिता यौवनाश्वेन राज्ञा हत्वा रणे रिपून् ।
सुवर्णबिन्दुभिश्चित्रा गुर्वी भारसहा दृढा ॥ २.३.७ ॥
由王者耶婆那斯瓦在战场上杀死敌人后放置于此;饰有金色斑点,沉重、能承受重量且坚固。
2.3.8
सा वै शतसहस्रस्य सम्मिता शत्रुघातिनी ।
अनुरूपा च भीमस्य गाण्डीवं भवतो यथा ॥ २.३.८ ॥
她等同于十万件兵器,能杀灭敌人;适合婆罗多,正如你的甘狄拔弓适合你。
2.3.9
वारुणश्च महाशङ्खो देवदत्तः सुघोषवान् ।
सर्वमेतत्प्रदास्यामि भवते नात्र संशयः ॥ २.३.९ ॥
伐楼那的大海螺与声音美妙的提婆达多——这一切我都将赠予你,此事毫无疑问。
2.3.10
इत्युक्त्वा सोऽसुरः पार्थं प्रागुदीचीं दिशं गतः ।
अथोत्तरेण कैलासान्मैनाकं पर्वतं प्रति ॥ २.३.१० ॥
说完这些,那阿修罗离开了阿周那,向东北方而去;随后在吉罗娑山以北,朝向摩那迦山而行。
2.3.11
हिरण्यशृङ्गः सुमहान्महामणिमयो गिरिः ।
रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः ॥ २.३.११ ॥
金色山峰的大山,极其宏伟,由大宝石构成;那里有名为宾度沙罗的可爱湖泊,国王跋吉罗陀在那里……
2.3.12
द्रुष्टुं भागीरथीं गङ्गामुवास बहुलाः समाः ।
यत्रेष्टं सर्वभूतानामीश्वरेण महात्मना ॥ २.३.१२ ॥
为了见到跋吉罗提的恒河,他在那里居住了许多年;那里,伟大的主宰举行了一场为众生所愿的祭祀。
2.3.13
आहृताः क्रतवो मुख्याः शतं भरतसत्तम ।
यत्र यूपा मणिमयाश्चैत्याश्चापि हिरण्मयाः ॥ २.३.१३ ॥
婆罗多族中最优秀者啊,那里举行了一百场主要的祭祀,还有镶满宝石的祭柱和金色的圣坛。
2.3.14
शोभार्थं विहितास्तत्र न तु दृष्टान्ततः कृताः ।
यत्रेष्ट्वा स गतः सिद्धिं सहस्राक्षः शचीपतिः ॥ २.३.१४ ॥
它们设置于彼处只为装饰,并非作为范例而造。正是在那里举行祭祀后,千眼的舍姬之主因陀罗达到了成就。
2.3.15
यत्र भूतपतिः सृष्ट्वा सर्वाँल्लोकान्सनातनः ।
अपस्यते तिग्मतेजाः स्थितो भूतैः सहस्रशः ॥ २.३.१५ ॥
在那里,创造了一切世界的永恒的众生之主,以锐利的光芒显现,与成千上万的众生一同站立。
2.3.16
नरनारायणौ ब्रह्मा यमः स्थाणुश्च पञ्चमः ।
उपासते यत्र परं सहस्रयुगपर्यये ॥ २.३.१६ ॥
那罗与那罗衍那、梵天、阎摩,以及第五位湿婆(Sthāṇu),在千劫终结之时在那里礼拜至高者。
2.3.17
यत्रेष्टं वासुदेवेन सत्त्रैर्वर्षगणान्बहून् ।
श्रद्दधानेन सततं धर्मसम्प्रतिपत्तये ॥ २.३.१७ ॥
瓦苏提婆以信心不断地在那里举行长期的祭祀,历经多年,以求获得法。
2.3.18
सुवर्णमालिनो यूपाश्चैत्याश्चाप्यतिभास्वराः ।
ददौ यत्र सहस्राणि प्रयुतानि च केशवः ॥ २.३.१८ ॥
那里有缠绕金环的祭柱和光辉灿烂的圣坛,克沙瓦在那里布施了千和万亿(普雷由塔)。
2.3.19
तत्र गत्वा स जग्राह गदां शङ्खं च भारत ।
तस्माद्गिरेरुपादाय शिलाः सुरुचिरावहाः।
स्फाटिकं च सभाद्रव्यं यदासीद्वृषपर्वणः ॥ २.३.१९ ॥
他去到那里,取了铁杵和海螺,婆罗多后裔啊。又从那座山上取来美丽的石头,以及属于瓦湿伐婆罗尼的殿堂所用的水晶等材料。
2.3.20
किङ्करैः सह रक्षोभिर्यदरक्षन्महद्धनम् ।
तदगृह्णान्मयस्तत्र गत्वा सर्वं महाऽसुरः ॥ २.३.२० ॥
那些与仆从和罗刹一起守护的巨额财富,伟大的阿修罗摩耶去到那里,全部取走了。
2.3.21
तदाहृत्य च तां चक्रे सोऽसुरोऽप्रतिमां सभाम् ।
विश्रुतां त्रिषु लोकेषु दिव्यां मणिमयीं शुभाम् ॥ २.३.२१ ॥
那阿修罗把这些取来,建造了一座无与伦比的殿堂,在三界中闻名,神圣、由宝石构成而吉祥。
2.3.22
गदां च भीमसेनाय प्रवरां प्रददौ तदा ।
देवदत्तं चार्जुनाय शङ्खप्रवरमुत्तमम् ॥ २.३.२२ ॥
那时他把一柄上等的铁杵给了婆罗多后裔的比玛塞纳,又把名为提婆达多的至上最好的海螺给了阿周那。
2.3.23
यस्य शङ्खस्य नादेन भूतानि प्रचकम्पिरे ।
स कालं कञ्चिदाश्वस्य विश्वकर्मा विचिन्त्य च ॥ २.३.२३ ॥
众生因其螺声而震动,毗首羯摩稍事休息,细加思量之后……
2.3.24
सभां प्रचक्रमे कर्तुं पाण्डवानां महात्मनाम् ।
अभिप्रायेण पार्थानां कृष्णस्य च महात्मनः ॥ २.३.२४ ॥
他开始为伟大的般度子孙建造殿堂,遵从伟大的黑天和普利塔之子的心愿。
2.3.25
सर्वर्तुगुणसम्पन्नां दिव्यरूपामलङ्कृताम् ।
तर्पयित्वा द्विजश्रेष्ठान्पायसेन सहस्रशः।
सभा च सा महाराज शातकुम्भमयद्रुमा ॥ २.३.२५ ॥
此殿具备四季之德,形貌神圣且庄严,以乳粥使成千上万的最优秀婆罗门得到满足。大王啊,其树木皆由黄金所造。
2.3.26
दशकिष्कुसहस्राणि समन्तादायताभवत् ।
यथा वह्नेर्यथार्कस्य सोमस्य च यथा सभा ॥ २.३.२६ ॥
此殿纵横延展达一万基什库,如火、如日、如月般光耀。
2.3.27
भ्राजमाना तथाऽत्यर्थं दधार परमं वपुः ।
अभिघ्नतीव प्रभया प्रभामर्कस्य भास्वराम् ॥ २.३.२७ ॥
如此光辉灿烂,此殿呈现其至高之形,仿佛以自身光芒压过了太阳炽烈的光辉。
2.3.28
प्रबभौ ज्वलमानेव दिव्या दिव्येन वर्चसा ।
नवमेघप्रतीकाशा दिवमाकृत्य विष्ठिता।
आयता विपुला रम्या विपाप्मा विगतक्लमा ॥ २.३.२८ ॥
此神圣之殿以神圣之光辉煌燃烧,如新云般立于天际,广大、宽阔、优美、无罪、无疲倦。
2.3.29
उत्तमद्रव्यसम्पन्ना रत्नप्राकारतोरणा ।
बहुचित्रा बहुधना सुकृता विश्वकर्मणा ॥ २.३.२९ ॥
具备上等材料,墙垣与门楼嵌满宝石,极其奇妙,富饶珍宝,由毗湿伐迦尔玛精巧建成。
2.3.30
न दाशार्ही सुधर्मा वा ब्रह्मणो वाथ तादृशी ।
सभा रूपेण सम्पन्ना यां चक्रे मतिमान्मयः ॥ २.३.३० ॥
无论达莎尔哈之苏达玛殿,还是梵天之殿,形貌都不及智者摩耶所造之殿。
2.3.31
तां स्म तत्र मयेनोक्ता रक्षन्ति च वहन्ति च ।
सभामष्टौ सहस्राणि किङ्करा नाम राक्षसाः ॥ २.३.३१ ॥
八千名名为Kiṅkara的罗刹守护并承载着摩耶所造的那座大殿。
2.3.32
अन्तरिक्षचरा घोरा महाकाया महाबलाः ।
रक्ताक्षाः पिङ्गलाक्षाश्च शुक्तिकर्णाः प्रहारिणः ॥ २.३.३२ ॥
游行于天空的、可怖的、身躯巨大的、大力的,红眼、黄眼,耳如海螺,善于攻击。
2.3.33
तस्यां सभायां नलिनीं चकाराप्रतिमां मयः ।
वैदूर्यपत्रविततां मणिनालमयाम्बुजाम् ॥ २.३.३३ ॥
摩耶在那座大殿中造了一个无与伦比的莲池,池中莲叶以吠琉璃铺展,茎干由宝石制成。
2.3.34
पद्मसौगन्धिकवतीं नानाद्विजगणायुताम् ।
पुष्पितैः पङ्कजैश्चित्रां कूर्मैर्मत्स्यैश्च काञ्चनैः।
चित्रस्फटिकसोपानां निष्पङ्कसलिलां शुभाम् ॥ २.३.३४ ॥
充满莲花与苏干地迦花的芬芳,群鸟成群,盛开的莲花绚丽,饰以金龟与金鱼,有彩色水晶台阶,水清无泥,美妙。
2.3.35
मन्दानिलसमुद्धूतां मुक्ताबिन्दुभिराचिताम् ।
महामणिशिलापट्टबद्धपर्यन्तवेदिकाम् ॥ २.३.३५ ॥
为和风所吹拂,布满如珍珠般的水滴,边缘以大宝石石板镶嵌成台。
2.3.36
मणिरत्नचितां तां तु केचिदभ्येत्य पार्थिवाः ।
दृष्ट्वापि नाभ्यजानन्त तेऽज्ञानात्प्रपतन्त्युत ॥ २.३.३६ ॥
一些国王走近那座以宝石与珍玉装饰的大殿;他们虽然看见,却不认得,因无知而跌落其中。
2.3.37
तां सभामभितो नित्यं पुष्पवन्तो महाद्रुमाः ।
आसन्नानाविधा लोलाः शीतच्छाया मनोरमाः ॥ २.३.३७ ॥
议事厅四周常年有许多开花的大树,种类繁多,随风摇曳,树荫清凉,令人心旷神怡。
2.3.38
काननानि सुगन्धीनि पुष्करिण्यश्च सर्वशः ।
हंसकारण्डवोपेताश्चक्रवाकोपशोभिताः ॥ २.३.३८ ॥
到处有芬芳的园林和莲池,池中满是天鹅和迦兰达婆鸭,并有赤麻鸭点缀其间。
2.3.39
जलजानां च पद्मानां स्थलजानां च सर्वशः ।
मारुतो गन्धमादाय पाण्डवान्स्म निषेवते ॥ २.३.३९ ॥
风携带着水生与陆生莲花的芬芳,侍奉着般度的儿子们。
2.3.40
ईदृशीं तां सभां कृत्वा मासैः परिचतुर्दशैः ।
निष्ठितां धर्मराजाय मयो राजन्न्यवेदयत् ॥ २.३.४० ॥
大约十四个月内建成了这样的议事厅,国王啊,摩耶将此事禀告了正法王。