摩诃婆罗多 · 章 2.32
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.32.1
तथैव सहदेवोऽपि धर्मराजेन पूजितः ।
महत्या सेनया राजन्प्रययौ दक्षिणां दिशम् ॥ २.३२.१ ॥
同样,萨诃提婆受到法王的尊敬,王啊,率领庞大的军队向南方出发了。
2.32.2
स शूरसेनान्कार्त्स्न्येन पूर्वमेवाजयत्प्रभुः ।
मत्स्यराजं च कौरव्यो वशे चक्रे बलाद्बली ॥ २.३२.२ ॥
那位强大的俱卢子孙首先彻底征服了舒罗森人,并以武力使摩蹉王臣服于己。
2.32.3
अधिराजाधिपं चैव दन्तवक्रं महाबलम् ।
जिगाय करदं चैव कृत्वा राज्ये न्यवेशयत् ॥ २.३२.३ ॥
他也征服了极其强大的牙嘴王,即诸王之王,使他纳贡,并让他在自己的国土上继续为王。
2.32.4
सुकुमारं वशे चक्रे सुमित्रं च नराधिपम् ।
तथैवापरमत्स्यांश्च व्यजयत्स पटच्चरान् ॥ २.३२.४ ॥
他使苏古玛罗和人王苏弥多罗臣服于己,同样也征服了其他摩蹉人和帕塔恰罗人。
2.32.5
निषादभूमिं गोशृङ्गं पर्वतप्रवरं तथा ।
तरसैवाजयद्धीमाञ्श्रेणिमन्तं च पार्थिवम् ॥ २.३२.५ ॥
他迅速征服了尼沙陀之地、牛角山(Gośṛṅga)这座最尊贵的山,以及那位智慧的श्रेणिमान王。
2.32.6
नरराष्ट्रं च निर्जित्य कुन्तिभोजमुपाद्रवत् ।
प्रीतिपूर्वं च तस्यासौ प्रतिजग्राह शासनम् ॥ २.३२.६ ॥
征服了那罗王国之后,他进攻坤提婆阇,坤提婆阇怀着敬意接受了他的命令。
2.32.7
ततश्चर्मण्वतीकूले जम्भकस्यात्मजं नृपम् ।
ददर्श वासुदेवेन शेषितं पूर्ववैरिणा ॥ २.३२.७ ॥
随后,他在赤马河岸看见了耆婆迦之子的国王,因与旧敌之怨,他被婆素提婆留下了性命。
2.32.8
चक्रे तेन स सङ्ग्रामं सहदेवेन भारत ।
स तमाजौ विनिर्जित्य दक्षिणाभिमुखो ययौ ॥ २.३२.८ ॥
婆罗多的后裔啊,婆诃提婆与他交战;在战斗中击败了他之后,便面向南方而去。
2.32.9
सेकानपरसेकांश्च रत्नानि विविधानि च ।
ततस्तेनैव सहितो नर्मदामभितो ययौ। ॥ २.३२.९ ॥
他带着塞卡人及其他塞卡人,并各种宝物,随后与他一同前往那尔玛达河一带。
2.32.10
भगदत्तं महाबाहुं क्षत्रियं नरकात्मजम् ।
अर्जुनाय करं दत्तं श्रुत्वा तत्र न्यवर्तत ॥ २.३२.१० ॥
他听说那位臂力强大的刹帝利、那罗迦之子婆伽陀多已向阿周那纳贡,便从那里折返了。
2.32.11
विन्दानुविन्दावावन्त्यौ सैन्येन महतावृतौ ।
जिगाय समरे वीरावाश्विनेयः प्रतापवान् ॥ २.३२.११ ॥
阿槃提的两位英雄频陀与阿努频陀被大军包围;阿湿毗尼之子英勇的人在战斗中击败了他们。
2.32.12
ततो रत्नान्युपादाय पुरं भोजकटं ययौ ।
तत्र युद्धमभूद्राजन्दिवसद्वयमच्युत ॥ २.३२.१२ ॥
随后,他带着宝物前往波遮迦吒城;在那里,大王啊,无败者啊,战斗持续了两天。
2.32.13
स विजित्य दुराधर्षं भीष्मकं माद्रिनन्दनः ।
कोसलाधिपतिं चैव तथा वेणातटाधिपम् ॥ २.३२.१३ ॥
摩德利之子征服了不可战胜的毗湿摩迦,又征服了憍萨罗的君主和吠那塔塔的君主。
2.32.14
कान्तारकांश्च समर तथा प्राकोटकान्नृपान् ।
नाटकेयांश्च समरे तथा हेरम्बकान्युधि ॥ २.३२.१४ ॥
他在战斗中也征服了坎塔拉卡人、普拉科塔卡诸王、那吒刻耶人和赫兰巴卡人。
2.32.15
मारुधं च विनिर्जित्य रम्यग्राममथो बलात् ।
नाचीनानर्बुकांश्चैव राजानश्च महाबलः ॥ २.३२.१५ ॥
他完全征服了摩噜陀,又以武力夺取了可爱村,之后这位大力者又征服了那吉那人、阿布卡人和诸王。
2.32.16
तांस्तानाटविकान्सर्वानजयत्पाण्डुनन्दनः ।
नाताधिपं च नृपतिं वशे चक्रे महाबलः ॥ २.३२.१६ ॥
般度之子征服了所有那些森林居民,这位大力者也使那位那塔之主的国王臣服于自己。
2.32.17
पुलिन्दांश्च रणे जित्वा ययौ दक्षिणतः पुरः ।
युयुधे पाण्ड्यराजेन दिवसं नकुलानुजः ॥ २.३२.१७ ॥
他在战斗中征服了普林达人,然后向南前进;那库拉的幼弟与潘地亚王交战了一天。
2.32.18
तं जित्वा स महाबाहुः प्रययौ दक्षिणापथम् ।
गुहामासादयामास किष्किन्धां लोकविश्रुताम् ॥ २.३२.१८ ॥
他征服了对方之后,这位臂力强大者走上南方之路,抵达了古哈,并到达了闻名于世的吉什金陀。
2.32.19
पुरा वानरराजेन वालिना चाभिरक्षिताम् ।
ततः कोसलराजस्य रामस्यैवानुगेन च।
सुग्रीवेणाभिगुप्तां तां प्रविष्टस्तमथाह्वयत् ॥ २.३२.१९ ॥
此城昔日由猴王婆利守护,后又由拘萨罗王罗摩之随从须羯哩婆守护;他进入该城并向其挑战。
2.32.20
तत्र वानरराजाभ्यां मैन्देन द्विविदेन च ।
युयुधे दिवसान्सप्त न च तौ विकृतिं गतौ ॥ २.३२.२० ॥
他在那里与两位猴王——曼陀和提毗陀——激战七日,二者却未受任何损伤。
2.32.21
ततस्तुष्टौ महात्मानौ सहदेवाय वानरौ ।
ऊचतुश्चैव संहृष्टौ प्रीतिपूर्वमिदं वचः ॥ २.३२.२१ ॥
那两位心胸高尚的猴子大为欢喜,满心慈爱地对偕提婆说了这些话。
2.32.22
गच्छ पाण्डवशार्दूल रत्नान्यादाय सर्वशः ।
अविघ्नमस्त कार्याय धर्मराजाय धीमते ॥ २.३२.२२ ॥
般度之虎啊,你去吧,带上所有珍宝。愿智慧的法王之事毫无障碍。
2.32.23
ततो रत्नान्युपादाय पुरीं माहिष्मतीं ययौ ।
तत्र नीलेन राज्ञा स चक्रे युद्धं नरर्षभः ॥ २.३२.२३ ॥
随后他带着珍宝前往摩希湿摩蒂城,在那里,这位人中雄牛与尼罗罗王交战。
2.32.24
पाण्डवः परवीरघ्नः सहदेवः प्रतापवान् ।
ततोऽस्य सुमहद्युद्धमासीद्भीरुभयङ्करम् ॥ २.३२.२४ ॥
般度之子偕提婆,威猛的敌英杀手,于是与之展开一场令怯懦者胆寒的大战。
2.32.25
सैन्यक्षयकरं चैव प्राणानां संशयावहम् ।
चक्रे तस्य हि साहाय्यं भगवान्हव्यवाहनः ॥ २.३२.२५ ॥
那场战斗使军队覆灭、生命陷于危险;在其中,尊贵的哈维耶瓦哈那(火神阿耆尼)给予了他帮助。
2.32.26
ततो रथा हया नागाः पुरुषाः कवचानि च ।
प्रतीप्तानि व्यदृश्यन्त सहदेवबले तदा ॥ २.३२.२६ ॥
此时,在萨哈德瓦的军中,战车、战马、象、士兵和铠甲都看见在燃烧。
2.32.27
ततः सुसंभ्रान्तमना बभूव कुरुनन्दनः ।
नोत्तरं प्रतिवक्तुं च शक्तोऽभूज्जनमेजय ॥ २.३२.२७ ॥
此时,俱卢族的欢喜者心中极为慌乱,无法作答,嗟乎,遮那弥阇耶。
2.32.28
किमर्थं भगवान्वह्निः प्रत्यमित्रोऽभवद्युधि ।
सहदेवस्य यज्ञार्थं घटमानस्य वै द्विज ॥ २.३२.२८ ॥
婆罗门啊,为何尊贵的火神在战斗中成为萨哈德瓦的敌人,而他正为祭祀而努力?
2.32.29
तत्र माहिष्मतीवासी भगवान्हव्यवाहनः ।
श्रूयते हि गृहीतो वै पुरस्तात्पारदारिकः ॥ २.३२.२९ ॥
据闻,居住在摩希什玛提的尊贵的哈维耶瓦哈那(火神阿耆尼),往昔曾因通奸被捕。
2.32.30
नीलस्य राज्ञो दुहिता बभूवतातीव शोभना ।
साऽग्निहोत्रमुपातिष्ठद्बोधनाय पितुः सदा ॥ २.३२.३० ॥
尼罗王的女儿极其美丽;她总是照料祭火,以便唤醒她的父亲。
2.32.31
व्यजनैर्धूयमानोऽपि तावत्प्रज्वलते न सः ।
यावच्चारुपुटौष्ठेन वायुना न विधूयते ॥ २.३२.३१ ॥
即便以扇子扇动,他也不会燃烧,直到被如美丽嘴唇般的风箱之风吹动。
2.32.32
ततः स भगवानग्निश्चकमे तां सुदर्शनाम् ।
नीलस्य राज्ञः सर्वेषामुपनीतश्च सोऽभवत् ॥ २.३२.३२ ॥
于是尊贵的火神爱慕她,那张脸美丽的女子;他被带到尼罗王和众人面前。
2.32.33
ततो ब्रह्मणरूपेण रममाणो यदृच्छया ।
चकमे तां वरारोहां कन्यामुत्पललोचनाम्
तं तु राजा यथाशास्त्रमशासद्धार्मिकस्तदा ॥ २.३२.३३ ॥
于是他化作婆罗门,随意游走,爱慕那位细腰、莲花眼的少女。那位正直的国王便依照经典对他作了教导。
2.32.34
प्रजज्वाल ततः कोपाद्भगवान्हव्यवाहनः ।
तं दृष्ट्वा विस्मितो राजा जगाम शिरसाऽवनिम् ॥ २.३२.३४ ॥
于是尊贵的哈婆耶伐诃那(火神)因愤怒而燃烧起来。国王见到他,惊讶不已,以头俯触大地。
2.32.35
ततः कालेन तां कन्यां तथैव हि तदा नृपः ।
प्रददौ विप्ररूपाय वह्रये शिरसा नतः ॥ २.३२.३५ ॥
随后,时机到来,国王低首,以同样的方式将那位少女献给了化为婆罗门的火神。
2.32.36
प्रतिगृह्य च तां सुभ्रुं नीलराज्ञः सुतां तदा ।
चक्रे प्रसादं भगवांस्तस्य राज्ञो विभावसुः ॥ २.३२.३६ ॥
尊贵的毗跋婆苏(火神)接受了尼罗王那位眉目秀美的女儿,随后便向那位国王施以恩惠。
2.32.37
वरेण च्छन्दयामास तं नृपं स्विष्टकृत्तमः ।
अभयं च स जग्राह स्वसैन्ये वै महीपतिः ॥ २.३२.३७ ॥
最精通祭祀者以恩赐使那位国王欢喜,那位大地之主为自己的军队接受了安全之保证。
2.32.38
ततः प्रभृति ये केचिदज्ञानात्तां पुरीं नृपाः ।
जिगीषन्ति बलाद्राजंस्ते दह्यन्ते स्म वह्निना ॥ २.३२.३८ ॥
从那时起,凡出于无知想以武力征服那座城市的国王,哦国王,都会被火焚烧。
2.32.39
स्यां पुर्यां तदा चैव माहिष्मत्यां कुरूद्वह ।
बभूवुरनतिग्राह्य योषितश्छन्दतः किल ॥ २.३२.३९ ॥
那时,在摩希湿摩蒂城中,哦俱卢之最,女子们也出于自愿,成为无法被强行抓取的人。
2.32.40
एवमग्निर्वरं प्रादात्स्त्रीणामप्रतिवारणे ।
रिण्यस्तत्र च राजानस्तत्पुरं भरतर्षभ। ॥ २.३२.४० ॥
如此,火神赐予女子不可阻挡的恩惠。在那里,哦婆罗多之牛,诸王……那座城市。
2.32.41
र्जयन्ति च राजानस्तत्पुरं भरतर्षभ ।
भयादग्नेर्महाराज तदाप्रभृति सर्वदा ॥ २.३२.४१ ॥
诸王征服那座城市,哦婆罗多之牛,出于对火的畏惧,哦大王,从那时起,始终如此。
2.32.42
सहदेवस्तु धर्मात्मा सैन्यं दृष्ट्वा भयार्दितम् ।
परीतमग्निना राजन्नाकम्पत यथाऽचलः।
उपस्पृश्य शुचिर्भूत्वा सोऽब्रवीत्पावकं ततः ॥ २.३२.४२ ॥
然而,心怀正法的萨诃提婆见自己的军队被恐惧折磨、被火焰包围,哦国王,他如山一般颤抖。随后,他漱口净身,便对火神说道。
2.32.43
त्वदर्थोऽयं समारम्भः कृष्णवर्त्मन्नमोस्तु ते। ॥ २.३२.४३ ॥
此举是为了你;黑径之火啊,愿你安好。
2.32.44
मुखं त्वमसि देवानां यज्ञस्त्वमसि पावक ।
पावनात्पावकश्चासि वहनाद्धव्यवाहनः।
वेदास्त्वदर्थं जाता वै जातवेदास्ततो ह्यसि ॥ २.३२.४४ ॥
你是诸神之口,你即是祭祀,净化之火啊。因能净化,你为Pāvaka;因能负载祭品,你为Havyavāhana。诸吠陀因你而生,故你为Jātavedas。
2.32.45
चित्रभानुः सुरेशश्च अनलस्त्वं विभावसो ।
स्वर्गद्वारस्पृशश्चासि हुताशो ज्वलनः शिखी ॥ २.३२.४५ ॥
你是Citrabhānu,诸神之主;Vibhāvasu啊,你是Anala。你触及天门;你是Hutāśa、Jvalana与Śikhī。
2.32.46
वैश्वानरस्त्वं पिङ्गेशः प्लवङ्गो भूरितेजसः ।
कुमारसूस्त्वं भगवान्रुद्रगर्भो हिरण्यकृत् ॥ २.३२.४६ ॥
你是Vaiśvānara,赤金之主,疾行者,光辉无量。你是童子之母,尊贵者,楼陀罗之胎,造金者。
2.32.47
अग्निर्ददातु मे तेजो वायुः प्राणं ददातु मे ।
पृथिवी बलमादध्याच्छिवं चापो दिशन्तु मे ॥ २.३२.४७ ॥
愿火赐我光辉,风赐我生命之息;愿地赐我力量,愿水赐我吉祥。
2.32.48
अपां गर्भ महासत्व जातवेदः सुरेश्वर ।
देवानां मुखमग्ने त्वं सत्येन विपुनीहि माम् ॥ २.३२.४८ ॥
水之胎啊,大德者啊,Jātavedas啊,诸神之主啊。火啊,你是诸神之口;以真实,请彻底净化我。
2.32.49
ऋषिभिर्ब्राह्मणैश्चैव दैवतैरसुरैरपि ।
नित्यं सुहुत यज्ञेषु सत्येन विपुनीहि माम् ॥ २.३२.४९ ॥
你在祭祀中常被仙人、婆罗门、诸天与阿修罗妥善供奉,请以真实净化我。
2.32.50
धूमकेतुः शिखी च त्वं पापहाऽनिसम्भवः ।
सर्वप्राणिषु नित्यस्थः सत्येन विपुनीहि माम् ॥ २.३२.५० ॥
你是烟幡,也是火焰冠者,灭罪者,由风所生,常住于一切众生之中;请以真实净化我。
2.32.51
एवं स्तुतोऽसि भगवन्प्रीतेन शिचिना मया ।
तुष्टिं पुष्टिं श्रुतं चैव प्रीति चाग्ने प्रयच्छ मे ॥ २.३२.५१ ॥
尊贵者啊,我如此赞颂你,你以尸七因(Śicin)之形而欢喜。阿耆尼啊,请赐予我满足、滋养、学识与喜悦。
2.32.52
इत्येवं मन्त्रमाग्नेयं पठन्यो जुहुयाद्विभुम् ।
ऋद्धिमान्सततं दान्तः सर्वपापैः प्रमुच्यते ॥ २.३२.५२ ॥
如此诵念此阿耆尼咒,向遍在之火献供者,便会兴旺、常自制,并脱离一切罪业。
2.32.53
यज्ञविघ्नमिमं कर्तुं नार्हस्त्वं यज्ञवाहन ।
एवमुक्त्वा तु माद्रेयः कुशैरास्तीर्य मेदिनीम् ॥ २.३२.५३ ॥
供物的承载者啊,你不应阻碍此祭祀。说完这话,玛德里之子在地上铺开吉祥草。
2.32.54
विधिवत्पुरुषव्याघ्रः पावकं प्रत्युपाविशत् ।
प्रमुखे तस्य सैन्यस्य भीतोद्विग्रस्य भारत ॥ २.३२.५४ ॥
人中之虎依仪轨在火前坐下,婆罗多啊,在那支惊恐不安的军队面前。
2.32.55
न चैनमत्यगाद्वह्निरुवाच महोदधिः ।
तमुपेत्य शनैर्वह्निरुवाच कुरुनन्दनम् ॥ २.३२.५५ ॥
火神没有越过他,大海也没有说话。于是火神走近,缓缓地对库鲁之子的欢喜者说道:
2.32.56
सहदेवं नृणां देवं सान्त्वपूर्वमिदं वचः ।
उत्तिष्ठोत्तिष्ठ कौरव्य जिज्ञासेयं कृता मया ॥ २.३२.५६ ॥
他以安慰的语气对人中之神萨诃提婆说道:'起来,起来,俱卢之裔!这次考验是我所做的。'
2.32.57
वेद्मि सर्वमभिप्रायं तव धर्मसुतस्य च ।
मया तु रक्षितव्या पूरियं भरतसत्तम ॥ २.३२.५७ ॥
你和法之子的全部意图我都知道。但是,婆罗多之最,这座城应当由我来守护。
2.32.58
यावद्राज्ञो हि नीलस्य कुले वंशधरा इति ।
ईप्सितं तु करिष्यामि मनसस्तव पाण्डव ॥ २.३२.५८ ॥
只要尼罗王的家族中仍有后裔,我必定满足你心中的愿望,般度之子啊。
2.32.59
तत उत्थाय हृष्टात्मा प्राञ्जलिः शिरसा नतः ।
पूजयामास माद्रेयटः पावकं भरतर्षभ ॥ २.३२.५९ ॥
于是,萨诃提婆(摩德利之子)心中欢喜,起身合掌低头,恭敬地礼拜火神,婆罗多之牛啊。
2.32.60
पावके विनिवृत्ते तु नीलो राजाऽभ्यगात्तदा ।
पावकस्याज्ञया चैनमर्चयामास पार्थिवः ॥ २.३२.६० ॥
火神退去之后,尼罗王便走近,依火神之命,国王也恭敬地礼遇了他。
2.32.61
सत्कारेण नरव्याघ्रं सहदेवं युधां पतिम् ।
प्रतिगृह्य च तां पूजां करे च विनिवेश्य च ॥ २.३२.६१ ॥
以敬意接受了人中虎、战士之主沙诃提婆的礼敬,并握住他的手,
2.32.62
माद्रीसुतस्ततः प्रायाद्विजयी दक्षिणां दिशम् ।
त्रैपुरं स वशे कृत्वा राजानममितौजसम् ॥ २.३२.६२ ॥
此后,摩德利之子凯旋,向南方进发;将特赖普拉制服后,又降服了威力无量的国王。
2.32.63
निजग्राह महाबाहुस्तरसा पौरवेश्वरम् ।
आकृतिं कौशिकाचार्यं यत्ने महता ततः ॥ २.३२.६३ ॥
大臂者迅速擒获了波鲁王朝之主;随后又费了很大力气,也制服了考希迦的导师阿克利提。
2.32.64
वशे चक्रे महाबाहुः सुराष्ट्राधिपतिं तदा ।
सुराष्ट्रविषयस्थश्च प्रेषयामास रुक्मिणे ॥ २.३२.६४ ॥
大臂者当时将苏拉什特拉之主降服;留驻苏拉什特拉国时,他派遣(使者)前往鲁克明处。
2.32.65
राज्ञे भोजकटस्थाय महामात्राय धीमते ।
भीष्मकायस धर्मात्मा साक्षादिन्द्रसखाय वै ॥ २.३२.६५ ॥
致住在菩贾卡塔的国王——那位智慧的大臣;正直的毗湿摩迦确实是因陀罗本人的朋友。
2.32.66
च चास्य प्रतिजग्राह ससुतः शासनं तदा ।
प्रीतिपूर्वं महाराज वासुदेवमवेक्ष्य च ॥ २.३२.६६ ॥
于是他与诸子一同接受了他的命令;大王啊,他怀着喜爱望着婆苏提婆。
2.32.67
ततः स रत्नान्यादाय पुनः प्रायाद्युधां पतिः ।
ततः शूर्पारकं चैव तालाकटमथापि च ॥ २.३२.६७ ॥
于是他取了宝物,这位战士之主再次出发;接着又至舒尔帕拉迦与多拉卡塔。
2.32.68
वशे चक्रे महातेजा दण्डकांश्च महाबलः ।
सागरद्वीपवासांश्च नृपतीन्म्लेच्छयोनिजान् ॥ २.३२.६८ ॥
这位光辉赫赫、力量强大的人使檀达迦人归顺,也使居住在海岛上、出身蛮夷的诸王归顺。
2.32.69
निषादान्पुरुषादांश्च कर्णप्रावरणानपि ।
ये च कालमुखा नाम नरराक्षसयोनयः ॥ २.३२.६९ ॥
尼沙陀人、食人者、以耳为衣者,以及名为迦罗穆卡、出身人罗刹族的人们。
2.32.70
कृत्स्नं कोलगिरिं चैव सुरभीपट्टनं तथा ।
द्वीपं ताम्राह्वयं चैव पर्वतं रामकं तथा ॥ २.३२.७० ॥
整个科拉吉里、苏罗毗城、名为檀摩呼婆的岛屿,以及罗摩迦山。
2.32.71
तिमिङ्गिलं च स नृपं वशे कृत्वा महामतिः ।
एकपादांश्च पुरुषान्केरलान्वनवासिनः ॥ २.३२.७१ ॥
这位智慧者又使提明伽罗王归顺,并使独足之人和居于林中的喀拉拉人归顺。
2.32.72
नगरीं सञ्जयन्तीं च पाषण्डं करहाटकम् ।
दूतैरेव वशे चक्रे करं चैनानदापयत् ॥ २.३२.७२ ॥
桑惹延提城、帕尚达与卡拉哈塔卡,他仅凭使者便使之归顺,并让他们纳贡。
2.32.73
पाण्ड्यांश्च द्रविडांश्चैव सहितांश्चोड्रकेरलैः ।
अन्ध्रांस्तावनांश्चैव कलिङ्गानुष्ट्रकर्णिकान् ॥ २.३२.७३ ॥
他征服了般遮人与达罗毗荼人,连同与朱罗人和喀拉拉人结盟的人,以及安达罗人、塔瓦那人、羯陵伽人和乌斯特拉卡尔尼卡人。
2.32.74
आटवीं च पुरीं रम्यां यवनानां पुरं तथा ।
दूतैरेव वशे चक्रे करं चैनानदापयत् ॥ २.३२.७४ ॥
他又征服了森林地带、美丽的城市以及耶婆那人的城市;仅凭使者便使他们臣服,并让他们纳贡。
2.32.75
तात्रपर्णी ततो गत्वा कन्यातीर्थमतीत्य च ।
दक्षिणां च दिशं सर्वा विजित्य कुरुनन्दनः ॥ २.३२.७५ ॥
随后,他前往铜叶河,越过童女渡口,这位俱卢之喜悦征服了整个南方。
2.32.76
उत्तरं तीरमासाद्य सागरस्योर्मिमालिनः ।
चिन्तयामास कौन्तेयो भ्रातुः पुत्रं घटोत्कचम् ॥ २.३२.७६ ॥
到达被波浪环绕的大海的北岸,昆提之子思念他兄长之子迦托特迦。
2.32.77
ततश्चिन्तितमात्रस्तु राक्षसः प्रत्यदृश्यत ।
तं मेरुशिखराकारमागतं पाण्डुनन्दनः ॥ २.३२.७७ ॥
于是,这罗刹一想到便显现出来。潘度之子见这形如山峰的罗刹前来……
2.32.78
भृगुकच्छात्ततो धीमान्साम्नैवामित्रकर्शनः ।
आगम्यतामिति प्राह धर्मराजस्य शसनाः ॥ २.३२.७८ ॥
于是,这位智慧而摧伏敌人的人,遵从法王的命令,以温和之言说道:“请来吧。”
2.32.79
स राक्षसपरीवारस्तं प्रणम्याशु संस्थितः ।
घटोत्कचं महात्मानं राक्षसं घोरदर्शनम् ॥ २.३२.७९ ॥
他与罗刹随从一同迅速向他行礼后站立——大心的迦托迦恰,一个面貌可怖的罗刹。
2.32.80
तत्रस्थः प्रेषयामास पौलस्त्याय महात्मने ।
बिभीषणाय धर्मात्मा प्रीतिपूर्वमरिन्दमः ॥ २.३२.८० ॥
他站在那里,这位心怀正法、制服敌人的人,怀着深情派使者去见大心的毗毗沙那,即补罗斯底耶之子。
2.32.81
स चास्य प्रतिजग्राह शासनं प्रीतिपूर्वकम् ।
तच्च कृष्णकृतं धीमानभ्यमन्यत स प्रभुः ॥ २.३२.८१ ॥
他怀着深情接受了他的命令;那位智慧而有力的君主,把克里希那所做的事也视作自己的事。
2.32.82
ततः सम्प्रेषयामास रत्नानि विविधानि च ।
चन्दनागुरुकाष्ठानि दिव्यान्याभरणानि च ॥ २.३२.८२ ॥
随后他送去了各种宝石、檀香与沉香木,以及天界的饰物。