Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 2.33

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.33.1

इच्छाम्यागमनं श्रोतुं हैडिम्बस्य द्विजोत्तम ।
लङ्कायां च गतिं ब्रह्मन्पौलस्त्यस्य च दर्शनम् ॥ २.३३.१ ॥

诸二生中最殊胜者啊,我愿听闻轮达之子(迦陀迦)的来临,他前往楞伽之行,以及见到补罗斯底(罗波那)。婆罗门啊!

2.33.2

कावेरीदर्शनं चैव आनुपूर्व्या वदस्व मे ।
शृणु राजन्यथा वृत्तं सहेदवस्य साहसम् ॥ २.३३.२ ॥

请按次序也告诉我见到迦维利河的情形。大王啊,请听偕天如何完成他的英勇之举。

2.33.3

कालनद्वीपगांश्चैव तरसाऽजित्य चाहवे ।
दक्षिणां च दिशं जित्वा चोलस्य विषयं ययौ ॥ २.३३.३ ॥

他以武力在战斗中征服了迦纳达岛的居民,并征服了南方,然后进入了朱罗国境。

2.33.4

ददर्श पुण्यतोयां वै कावेरीं सरितां वराम् ।
नाजापक्षिगणैर्जुष्टां तापसैरुपशोभिताम् ॥ २.३३.४ ॥

他看见了圣水的迦维利河,河中之最,有众蛇女常来游处,并有苦行者装饰其岸。

2.33.5

साललोध्रार्जुनैल्वैर्जम्बूशाल्मलकिंशुकैः ।
कदम्बैः सप्तपर्णैश्च कश्मर्यामलकैर्वृताम् ॥ २.३३.५ ॥

四周环绕着娑罗、罗陀、阿周那、阿耳婆等树,以及阎浮、沙尔玛利、金树、千叶、迦湿弥罗及余甘子树。

2.33.6

न्यग्रोधैश्च महाशाखैः प्लक्षैरौदुम्बरैरपि ।
शमीपलाशवृक्षैश्च अश्वत्थैः खदिरैर्वृताम् ॥ २.३३.६ ॥

四周环绕着大枝的榕树、无花果树、优昙婆罗树,以及舍弥树、朱焰树、菩提树和儿茶树。

2.33.7

बदरीभिश्च सञ्छन्नामश्वकर्णैश्च शोभिताम् ।
चूतैः पुण्ड्रकपत्रैश्च कदलीवनसंवृताम् ॥ २.३३.७ ॥

覆盖着枣树,以马耳树装点,环绕着芒果树、奔陀迦树与芭蕉林。

2.33.8

चक्रवाकगणैः कीर्णं प्लवैश्च जलवायसैः ।
समुद्रकाकैः क्रौञ्चैश्च नादितां जलकुक्कुटैः ॥ २.३३.८ ॥

布满赤麻鸭群,回响着游禽、水鸦、海鸦、鹤与水鸡的鸣叫。

2.33.9

एवं खगैश्च बहुभिः सङ्घुष्टां जलवासिभिः ।
आश्रमैर्बहुभिः सक्तां चैत्यवृक्षैश्च शोभिताम् ॥ २.३३.९ ॥

如此回响着众多水鸟的鸣叫,与许多修行处相连,并以圣树装点。

2.33.10

शोभितां ब्राह्मणैः शुभ्रैर्वेदवेदाङ्गपारगैः ।
क्वचित्तीररुहैर्वृक्षैर्मालाभिरिव शोभिताम् ॥ २.३३.१० ॥

以精通吠陀与吠陀支分的清净婆罗门为装饰;岸边处处生长的树木,仿佛花环点缀。

2.33.11

क्वचित्सुपुष्पितैर्वृक्षैः क्वचित्सौगन्धिकोत्पलैः ।
कह्लारकुमुदोत्फुल्लैः कमलैरुपशोभिताम् ॥ २.३३.११ ॥

处处有繁花盛开的树木,也有芬芳的青莲,以及与睡莲、白睡莲同时绽放的莲花点缀。

2.33.12

कावेरीं तादृशीं दृष्ट्वा प्रीतिमान्पाण्डवस्तदा ।
अस्मद्राष्ट्रे यथा गङ्गा कावेरी च तथा शुभा ॥ २.३३.१२ ॥

见到这样的迦韦里河,般度之子当时欢喜,说道:正如恒河在我们的国土,这迦韦里河也同样吉祥。

2.33.13

सहदेवस्तु तां तीर्त्वा नदीमनुचरैः सह ।
दक्षिणं तीरभासाद्य गमनायोपचक्रमे ॥ २.३३.१३ ॥

偕得瓦与随从渡过那条河,抵达南岸,便开始继续前行。

2.33.14

आगतं पाण्डवं तत्र श्रुत्वा विषयवासिनः ।
दर्शनार्थं ययुस्ते तु कौतूहलसमन्विताः ॥ २.३३.१४ ॥

那里的居民听说般度之子已经到来,满怀好奇,前去观看他。

2.33.15

द्रमिडाः पुरुषा राजन्स्रियचश्च प्रियदर्शनाः ।
गत्वा पाण्डुसुतं तत्र ददृशुस्ते मुदाऽन्विताः ॥ २.३३.१५ ॥

大王啊,那些容貌俊美的德罗毗荼男女前往那里,怀着喜悦观看了般度之子。

2.33.16

सुकुमारं विशालाक्षं व्रजन्तं त्रिदशोपमम् ।
दर्शनीयतमं लोके नेत्रैरनिमिषैरिव ॥ २.३३.१६ ॥

他身姿柔美、双目宽大,行走如天神,是世上最值得一看的人,众人仿佛以不眨的眼睛望着他。

2.33.17

आश्चर्यभूतं ददृशुर्द्रमिडास्ते समागताः ।
महासेनोपमं दृष्ट्वा पूजां चक्रुश्च तस्य वै ॥ २.३३.१७ ॥

他如奇迹般,宛如摩诃塞那(战神),聚集的德罗毗荼人见到了他,见后便向他致敬。

2.33.18

रत्नैश्च विविधैरिष्टैर्भोगैरन्यैश्च संमतैः ।
गतिमङ्गलयुक्तार्भिः स्तुवन्तो नकुलानुजम् ॥ २.३३.१८ ॥

他们以各色珍宝、可爱的享受和其他尊贵之物,连同举止吉祥的孩童,开始赞颂那挛生者那位幼弟。

2.33.19

सहदेवस्तु तान्दृष्ट्वा द्रमिलानागतान्मुदा ।
विसृज्य तान्महाबाहुः प्रस्थितो दक्षिणां दिशम् ॥ २.३३.१९ ॥

偕提婆见到前来的德拉弥罗人,欢喜地送别他们,那位大臂者便向南方出发。

2.33.20

दूतेन तरसा चोलं विजित्य द्रमिडेश्वरम् ।
ततो रत्नान्युपादाय पाण्डस्य विषयं ययौ ॥ २.३३.२० ॥

他借使者迅速征服了朱罗王与德罗弥荼之主,随后取了珠宝,前往般度的国土。

2.33.21

दर्शने सहदेवस्य न च तृप्ता नराः परे ।
गच्छन्तमनुगच्छन्तः प्राप्ताः कौतूहलान्विताः ॥ २.३३.२१ ॥

其他人见到偕提婆仍不满足,怀着好奇心跟随着他离去。

2.33.22

ततो माद्रीसुतों राजन्मृगसङ्घान्विलोकयन् ।
गजान्वनचरानन्यान्व्याघ्रान्कुष्णमृगान्बहून् ॥ २.३३.२२ ॥

大王啊,玛德莉之子一路观看鹿群、大象、林中的其他生灵、老虎和许多黑羚羊,继续前行。

2.33.23

शुकान्मयूरान्दृष्ट्वा तु गृध्रानारण्यकुक्कुटान् ।
ततो देशं समासाद्य श्वशुरस्य महीपतेः ॥ २.३३.२३ ॥

看到鹦鹉、孔雀、秃鹫和野鸡之后,他抵达了岳父国王的领地。

2.33.24

प्रेषयामास माद्रेयो दूतान्पाण्ड्याय वै तदा ।
प्रतिजग्राह तस्याज्ञां सम्प्रीत्या मलयध्वजः ॥ २.३३.२४ ॥

那时,玛德莉之子派遣使者去见般迪亚王,马拉亚旗王满怀敬意地接受了他的命令。

2.33.25

भार्या रूपवती जिष्णोः पाण्ड्यस्य तनया शुभा ।
चित्राङ्गदेति विख्याता द्रमिडी योषितां वरा ॥ २.३३.२५ ॥

阿周那美丽的妻子,潘地亚王吉祥的女儿,名为质多衍陀,是德罗毗荼女子中最优秀的。

2.33.26

आगतं सहदेवं तु सा श्रुत्वाऽन्तः पुरे पितुः ।
प्रेषयामास सम्प्रीत्या पूजारत्नं च वै बहु ॥ २.३३.२६ ॥

她听说萨哈德瓦到来,便从父亲的内宫怀着敬意送去许多珠宝作为礼物。

2.33.27

पाण्ड्योऽपि बहुरत्नानि दूतैः सह मुमोच ह ।
मणिमुक्ताप्रवालानि सहदेवाय कीर्तिमान् ॥ २.३३.२७ ॥

名声显赫的潘地亚王也通过使者为萨哈德瓦送去许多宝石、珍珠和珊瑚。

2.33.28

तां दृष्ट्वाऽप्रतिमां पूजां पाण्डवोऽपि मुदा नृप ।
भ्रातुः पुत्रे बहून्रत्नान्दत्वा वै बभ्रूवाहने ॥ २.३३.२८ ॥

国王啊!看到这无与伦比的敬意,般度之子也欣然将许多珠宝赠给他兄长之子巴布鲁瓦哈纳。

2.33.29

पाण्ड्यं द्रमिडराजानं श्वशुरं मलयध्वजम् ।
स दूतैस्तं वशे कृत्वा मणलूरेश्वरं तदा ॥ २.३३.२९ ॥

他随后通过使者使德罗毗荼王、他的岳父潘地亚·摩罗耶陀瓦阇(摩那卢尔之主)臣服于他。

2.33.30

ततो रत्नान्युपादाय द्रमिडैरावृतो ययौ ।
अगस्त्यस्यालयं दिव्यं देवलोकसमं गिरिम् ॥ २.३३.३० ॥

然后,他带着珠宝,在德罗毗荼人的簇拥下,前往堪比天界的、阿伽斯提耶神圣的山中居所。

2.33.31

स तं प्रदक्षिमं कृत्वा मलयं भरतर्षभ ।
लङ्घयित्वा तु माद्रेयस्ताम्रपणीं नदीं शुभाम् ॥ २.३३.३१ ॥

婆罗多的雄牛啊,他绕行马拉亚山之后,摩德丽之子渡过了吉祥的塔姆拉帕尔尼河。

2.33.32

प्रसन्नसलिलां दिव्यां सुशीतां च मनोहराम् ।
समुद्रतीरमासाद्य न्यविशत्पाण्डुनन्दनः ॥ २.३३.३२ ॥

渡过那条水清、神圣、极为清凉而迷人的河流后,般度之子到达海滨并在那里住下。