Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 2.36

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.36.1

रक्षणाद्धर्मराजस्य सत्यस्य परिपालनात् ।
शत्रूणां क्षपणाच्चैव स्वकर्मनिरताः प्रजाः ॥ २.३६.१ ॥

因法王的庇护、对真理的忠实守护以及敌人的覆灭,臣民都专心于各自的本分。

2.36.2

बलीनां सम्यगादानाद्धर्मतश्चानुशासनात् ।
निकामवर्षी पर्जन्यः स्फीतो जनपदोऽभवत् ॥ २.३६.२ ॥

因合理征收赋税、依法度治理,云雨随心降下,国土因此富饶。

2.36.3

सर्वारम्भाः सुप्रवृत्ता गोरक्षा कर्षणं वणिक् ।
विशेषात्सर्वमेवैतत्सञ्जज्ञे राजकर्मणः ॥ २.३६.३ ॥

畜牧、耕作、商贸,诸般事业皆兴旺;尤其这一切,都源于王者的治理。

2.36.4

दस्युभ्यो वञ्चकेभ्यो वा राजन्प्रति परस्परम् ।
राजवल्लभतश्चैव नाश्रूयन्त मृषागिरः ॥ २.३६.४ ॥

大王啊,无论盗贼、骗子,还是彼此相争,甚至是王之近臣,都听不到虚妄之言。

2.36.5

अवर्षं चातिवर्षं च व्याधिपावकमूर्छनम् ।
सर्वमेतत्तदा नासीद्धर्मनित्ये युधिष्ठिरे ॥ २.३६.५ ॥

干旱、暴雨、疾病、火灾与昏厥——那时这一切都不曾有,因为恒守法道的坚战正在执政。

2.36.6

प्रियं कर्तुमुपस्थातुं बलिकर्म स्वभावजम् ।
अभिहर्तुं नृपा जग्मुर्नान्यैः कार्यैः कथञ्चनः ॥ २.३६.६ ॥

诸王前往,是为了表达敬意、侍奉并献上贡礼——这贡礼之事出于其本性,而非为了任何其他目的。

2.36.7

धर्मैर्धनागमैस्तस्य ववधे निचयो महान् ।
कर्तुं यस्य न शक्येन क्षयो वर्षशतैरपि ॥ २.३६.७ ॥

以正当之道获得财富,他的积蓄变得极为庞大,即使经过数百年也无法耗尽。

2.36.8

स्वकोष्ठस्य परीमाणं कोशस्य च महीपतिः ।
विज्ञाय राजा कौन्तेयो यज्ञायैव मनो दधे ॥ २.३६.८ ॥

贡蒂之子国王知道了自己粮仓和国库的规模,便一心专注于祭祀。

2.36.9

सुहृदश्चैव ये सर्वे पृथक्च सहचाब्रुवन् ।
यज्ञकालस्तव विभो क्रियतामत्र साम्प्रतम् ॥ २.३६.९ ॥

所有的朋友无论单独还是一起都说:'啊,强大的人,你的祭祀之时已到;请现在就举行吧。'

2.36.10

अथैवं ब्रुवतामेव तेषामभ्याययौ हरिः ।
ऋषिः पुराणो वेदात्मा दृश्यश्चैव विजानताम् ॥ २.३६.१० ॥

他们正这样说着,哈里便走近了——那古老的仙人,以吠陀为自身,对有智慧者显现。

2.36.11

जगतस्तस्थुषां श्रेष्ठः प्रभवश्चाप्ययश्च ह ।
भूतभव्यभवन्नाथः केशवः केशिसूदनः ॥ २.३६.११ ॥

动与不动世界中的至尊,创造与毁灭之源,过去、未来与现在的主宰——羁舍婆,杀羁舍者。

2.36.12

प्राकारः सर्ववृष्णीनामापत्स्वभयदोऽरिहा ।
बलाधिकारे निक्षिप्य सम्यगानकदुन्दुभिम् ॥ २.३६.१२ ॥

众伐里西族的城墙,于灾难中赐予无畏者,斩杀敌人的人;他将军权妥善托付给阿纳卡敦都毗(伐苏提婆)之后,

2.36.13

उच्चावचमुपादाय धर्मराजाय माधवः ।
धनौघं पुरुषव्याघ्रो बलेन महता वृतः ॥ २.३६.१३ ॥

人中之虎摩达婆,被大军环绕,为法王带来了各种高低贵贱的财富堆积。

2.36.14

तं धनौघमपर्यन्तं रत्नसागरमक्षयम् ।
नादयन्रथघोषेण प्रविशेश पुरोत्तमम् ॥ २.३६.१४ ॥

以车辚之声震响那无边无际、取之不尽的珠宝之海般的财富洪流,他进入了最好的城市。

2.36.15

पूर्णमापूरयंस्तेषां द्विषच्छोकावहोऽभवत् ।
असूर्यमिव सूर्येण निवातमिव वायुना।
कृष्णेन समुपेतेन जहृषे भारतं पुरम् ॥ २.३६.१५ ॥

以他们的财富充盈,成为敌人的悲痛。如同有太阳的天空,如同有风的无风之地,克里希那与他们同来,婆罗多城因此欢喜。

2.36.16

तं मुदाऽभिसमागम्य सत्कृत्य च यथाविधि ।
स पृष्ट्वा कुशलं चैव सुखासीनं युधिष्ठिरः ॥ २.३६.१६ ॥

欢喜地与他相见,依礼敬待,询问了他的安好,而他安坐时,坚战便向他问候。

2.36.17

म्यद्वैपायनमुखैर्ऋत्विग्भिः पुरुषर्षभः ।
भीमार्जुनयमैश्चैव सहितः कृष्णमब्रवीत् ॥ २.३६.१७ ॥

与大仙人毗耶娑为首的祭司们,以及怖军、阿周那、双胞胎一起,人中之牛坚战对克里希那说道:

2.36.18

त्वत्कृते पृथिवी सर्वा मद्वशे कृष्ण वर्तते ।
धनं च बहु वार्ष्णेय त्वत्प्रसादादुपार्जितम् ॥ २.३६.१८ ॥

克里希那啊,因为你,整个大地都在我的掌控之下;vṛṣṇi 的后裔啊,因为你的恩典,大量财富已被获得。

2.36.19

सोऽहमिच्छामि तत्सर्वं विधिवद्देवकीसुत ।
उपयोक्तुं द्विजाग्र्येभ्यो हव्यवाहे च माधव ॥ २.३६.१९ ॥

德瓦基之子啊,我愿依规矩将这一切奉献给最优秀的再生者,以及承载祭品的火神,摩陀婆啊。

2.36.20

तदहं यष्टुमिच्छामि दाशार्ह सहितस्त्वया ।
अनुजैश्च महाबाहो तन्माऽनुज्ञातुमर्हसि ॥ २.३६.२० ॥

因此我想与你及我的弟弟们一同举行祭祀,达沙尔诃啊。大臂者啊,你应当允许我这样做。

2.36.21

तद्दीक्षापय गोविन्द त्वमात्मानं महाभुज ।
त्वयीष्टवति दाशार्ह विपाप्मा भविता ह्यहम् ॥ २.३६.२१ ॥

因此,哥文达啊,大臂者啊,请你自行受戒。达沙尔诃啊,你行祭之时,我将脱离罪孽。

2.36.22

मां वाप्यभ्यनुजानीह सहैभिरनुजैर्विभो ।
अनुज्ञातस्त्वया कृष्ण प्राप्नुयां क्रतुमुत्तमम् ॥ २.३६.२२ ॥

请允许我与这些弟弟一同行事,无所不能者啊。克里希那啊,蒙你允许,愿我得以完成最上的祭祀。

2.36.23

तं कृष्णःस प्रत्युवाचेदं बहूक्त्वा गुणविस्तरम् ।
त्वमेव राजशार्दूल रम्राडर्हो महाक्रतुम्।
सम्प्राप्नुहि त्वया प्राप्ते कृतकृत्यास्ततो वयम् ॥ २.३६.२३ ॥

克里希那在详述其德行之后回答他说:"唯有你,王中之虎,配得上为君主;成就大祭祀吧。你成就之时,我们也将圆满。"

2.36.24

यदस्वाभीप्सितं यज्ञं मयि श्रेयस्यवस्थिते ।
नियुङ्क्ष्व त्वं च मां कृत्ये सर्वं कर्तास्मि ते वचः ॥ २.३६.२४ ॥

你所希望的祭祀,既以我为至善所在,便请委派我承担其职事吧。你的一切言辞,我都将执行。

2.36.25

सफलः कृष्ण सङ्कल्पः सिद्धिश्च नियता मम ।
यस्यमे त्वं हृषीकेश यथेप्सितमुपस्थितः ॥ २.३६.२५ ॥

克里希那啊,我的决心必有成果,我的成就已经确定,因为你,希瑞希刻舍啊,正如我所愿地站在我面前。

2.36.26

अनुज्ञातस्तु कृष्णेन पाण्डवो भ्रातृभिः सह ।
ईजितुं राजसूयेन साधनान्युपचक्रमे ॥ २.३६.२६ ॥

得到黑天的许可后,般度之子与兄弟们一起着手筹备举行王祭的各种用具。

2.36.27

ततस्त्वाज्ञापयामास पाण्डवोऽरिनिबर्हणः ।
सहदेवं युधां श्रेष्ठं मन्त्रिणश्चैव सर्वशः ॥ २.३६.२७ ॥

于是,克制敌人的般度之子在各方面向武士中最优秀的偕天以及大臣们下达了命令。

2.36.28

अस्मिन्क्रतौ यथोक्तानि यज्ञाङ्गानि द्व्जातिभिः ।
यथोपकरणं सर्वं मङ्गलानि च सर्वशः ॥ २.३६.२८ ॥

为此祭礼,应当按照再生者所说,在各方面备齐祭祀的一切支分、所需器物以及一切吉祥之物。

2.36.29

अधियज्ञांश्च सम्भारान्दौम्योक्तान्क्षिप्रमेव हि ।
समानयन्तु पुरुषा यथायोगं यथाक्रमम् ॥ २.३६.२९ ॥

请人们迅速而按照适当次第,将达乌米亚所说的祭祀器物与材料备齐。

2.36.30

इन्द्रसेनो विशोकश्च पूरश्चार्जुनसारथिः ।
अन्नाद्याहरणे युक्ताः सन्तु मत्प्रियकाम्यया ॥ २.३६.३० ॥

因因陀罗塞纳、毗诃迦,以及阿周那的御者普罗,愿他们出于让我欢喜的心愿,从事运来食物等事务。

2.36.31

सर्वकामाश्च कार्यन्तां रसगन्धसमन्विताः ।
मनोरथप्रीतिकरा द्विजानां कुरुसत्तम ॥ २.३६.३१ ॥

愿准备一切所愿的美味,色香俱全,令再生者心生欢喜,库卢族的最优秀者啊。

2.36.32

तद्वाक्यसमकालं च कृतं सर्वं न्यवेदयत् ।
सहदेवो युधां श्रेष्ठो धर्मराजो युधिष्ठिरे ॥ २.३६.३२ ॥

话音刚落,一切已办妥。勇士中最优秀的萨诃德瓦将此全部禀告法王坚战。

2.36.33

ततो द्वैपायनो राजन्नृत्विजः समुपानयत् ।
वेदानिव महाभागान्साक्षान्मूर्तिमतो द्विजान् ॥ २.३६.३३ ॥

于是,大王啊,黑岛仙人(毗耶娑)引来了祭司,他们福德广大,如同吠陀本身,是亲身显现的再生者。

2.36.34

स्वयं ब्रह्मत्वमकरोत्तस्य सत्यवतीसुतः ।
धनञ्जयानामृषभः सुसामा सामगोऽभवत् ॥ २.३६.३४ ॥

萨提亚瓦蒂之子亲自担任梵官之职,而达那阳耶诸人中的雄牛苏萨摩,成为了娑摩歌者。

2.36.35

याज्ञवल्क्यो बभूवाथ ब्रह्मिष्ठोऽध्वर्युसत्तमः ।
पैलो होता वसोः पुत्रो धौम्येन सहितोऽभवत् ॥ २.३६.३५ ॥

随后,耶若婆佉成为最善梵知的祭事者阿特瓦尤;婆苏之子帕伊罗成为呼唤者霍塔,与达乌摩共同承担。

2.36.36

एतेषां पुत्रवर्गाश्च शिष्याश्च भरतर्षभ ।
बभूवुर्होत्रगाः सर्वे वेदवेदाङ्गपारगाः ॥ २.३६.३६ ॥

他们的子嗣群体与弟子,婆罗多族的雄牛啊,都成为了霍特里祭司,皆已精通吠陀及其支分。

2.36.37

ते वाचयित्वा पुण्याहमूहयित्वा च तं विधिम् ।
शास्त्रोक्तं पूजयामासुस्तद्देवयजनं महत् ॥ २.३६.३७ ॥

他们令人诵读吉祥祝福,安排了那仪式,依照经典供奉那座神圣的祭祀之地。

2.36.38

तत्र चक्रुरनुज्ञाताः शरणान्युत शिल्पिनः ।
गन्धवन्ति विशालानि वेश्मानीव दिवौकसाम् ॥ २.३६.३८ ॥

匠人们得到许可,在那里建造了如天界居所般芬芳宽广的住所。

2.36.39

तत आज्ञापयामास स राजा राजसत्तमः ।
सहदेवं तदा सद्यो मन्त्रिणं पुरुषर्षभः ॥ २.३६.३९ ॥

于是那位王中最优者、人中雄牛,立即命令大臣萨哈德瓦。

2.36.40

आमन्त्रणार्थं दूतांस्त्वं प्रेषयस्वाशुगान्द्रुतम् ।
उपश्रुत्य वचो राज्ञः स दूतान्प्राहिणोत्तदा ॥ २.३६.४० ॥

「为了邀请,你立即派出快速的使者。」听了国王的话,他于是派出了使者。

2.36.41

आमन्त्रयध्वं राष्ट्रेषु ब्राह्मणान्भूमिपानथ ।
विनाश्च मान्याञ्शूद्रांश्च सर्वानानयतेति च ॥ २.३६.४१ ॥

「在各国邀请婆罗门和大地的君主;把所有吠舍、尊贵之人和首陀罗都带来。」

2.36.42

ते सर्वान्पृथिवीपालान्पाण्डवेयस्य शासनात् ।
आमन्त्रयाम्बभूवुस्ते प्रेषयामास चापरान् ॥ २.३६.४२ ॥

依据般度之子的命令,他们邀请了大地所有的君主,又派遣了其他人。

2.36.43

दूताश्च वाहनैर्जग्भू राष्ट्राणि सुबहून्यपि ।
ततो युधिष्ठिरो राजा प्रेषयामास पाण्डवम् ॥ २.३६.४३ ॥

使者乘车前往许多王国。随后国王坚战派遣了般度之子(那古拉)。

2.36.44

नकुलं हास्तिनपुरं भीष्माय भरतर्षभ ।
द्रोणाय धृतराष्ट्राय विदुराय कृपाय च।
भ्रातृणां चैव सर्वेणां येऽनुरक्ता युधिष्ठिरे ॥ २.३६.४४ ॥

婆罗多族中的俊杰啊!那古拉前往象城,拜见毗湿摩、德罗纳、持国、毗杜罗和克里帕,并拜见所有忠于坚战的兄弟。

2.36.45

ततस्ते तु यथाकालं कुन्तीपुत्रं युधिष्ठिरम् ।
दीक्षयाञ्चक्रिरे विप्रा राजसूयाय भारत ॥ २.३६.४५ ॥

然后,婆罗门们按时为昆蒂之子坚战举行了王祭(罗阇苏耶)的入祭仪式,婆罗多啊。

2.36.46

ज्येष्ठामूले अमावास्यां मृगाजिनसमावृतः ।
रौरवाजिनसंवीतो नवनीताक्तदेहवान् ॥ २.३६.४६ ॥

在月末之日、星宿为杰什塔-穆拉之时,他裹着鹿皮,穿着罗卢鹿的皮,身上涂满新鲜黄油(坚战)。

2.36.47

दीक्षितः स तु धर्मात्मा धर्मराजो युधिष्ठिरः ।
जगाम यज्ञायतनं वृतो विप्रैः सहस्रशः ॥ २.३६.४७ ॥

坚战这位正法之王、心地正直者受了灌顶,被成千上万的婆罗门簇拥着前往祭场。

2.36.48

भातृभिर्ज्ञातिभिश्चैव सुहृद्भिः सचिवैः सह ।
क्षत्रियैश्च मनुष्येन्द्रैर्नानादेशसमागतैः ॥ २.३६.४८ ॥

与兄弟、亲族、朋友、大臣同行,并与从各地前来的刹帝利和人主们一同前往。

2.36.49

अमात्यैश्च नरश्रेष्ठो धर्मो विग्रहवानिव। ॥ २.३६.४९ ॥

与大臣们在一起的人中之最(坚战),宛如具象化的法。

2.36.50

सर्वविद्यासु निष्णाता वेदवेदाङ्गपारगाः ।
तेषामावसथांश्चक्रुर्धर्मराजस्य शासनात् ॥ २.३६.५० ॥

精通一切学问、通晓吠陀及其支分的(匠人)奉法王之命为他们建造了住所。

2.36.51

बह्वन्नाच्छादनैर्युक्तान्सगणानां पृथक् पृथक् ।
सर्वर्तुगुणसम्पन्नाञ्शिल्पिनोऽथ सहस्रशः ॥ २.३६.५१ ॥

备有丰富的饮食衣物,为各人及其随从分别设置,具备四季之德——由成千上万的匠人建成。

2.36.52

तेषु ते न्यवसन्राजन्ब्राह्मणा नृपसत्कृताः ।
कथयन्तः कथा बह्वीः पश्यन्तो नटनर्तकान् ॥ २.३६.५२ ॥

大王啊,那些受国王尊敬的婆罗门住在那里,讲述许多故事,观看演员与舞者。

2.36.53

भुञ्जतां चैव विप्राणां वदतां च महास्वनः ।
अनिशं श्रूयते तत्र मुदितानां महात्मनाम् ॥ २.३६.५३ ॥

那里不断传来婆罗门进食与交谈、以及欢喜的大德们的巨大喧声。

2.36.54

दीयतां दीयतामेषां भुज्यतां भुज्यतामिति ।
एवम्प्रकाराः सञ्जल्पाः श्रूयन्तेस्मात्र नित्यशः ॥ २.३६.५४ ॥

“给这些人,给!”“吃,吃!”——这样的话语每天都从那里传来。

2.36.55

गवां शतसहस्राणि शयनानां च भारत ।
रुक्मस्य योषितां चैव धर्मराजः पृथक् ददौ ॥ २.३६.५५ ॥

婆罗多的后裔啊,法王分别施舍了数十万头牛、床榻、黄金和女子。

2.36.56

प्रावर्ततैव यज्ञः स पाण्डवस्य महात्मनः ।
पृथिव्यामेकवीरस्य शक्रस्येव त्रिविष्टपे ॥ २.३६.५६ ॥

这位大德般驰的般度之子的祭祀开始了,仿佛天上唯一的英雄因陀罗在三界中举行。

2.36.59

आजग्मुर्ब्राह्मणास्तत्र विषयेभ्यस्ततस्ततः ॥ २.३६.५९ ॥

婆罗门们从各地来到那里。