Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 2.39

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.39.1

ततोऽभिषेचनीयेऽह्नि ब्राह्मणा राजभिः सह ।
अन्तर्वेदीं प्रविविशुः सत्कारार्हा महर्षयः ॥ २.३९.१ ॥

那时,在灌顶之日,婆罗门与诸王,以及值得尊敬的大仙,一同进入了内祭坛。

2.39.2

नारदप्रमुखास्तस्यामन्तर्वेद्यां महात्मनः ।
समासीनाः शुशुभिरे सहराजर्षिभिस्तदा ॥ २.३९.२ ॥

在那位大德者的内祭坛中,以那拉陀为首的诸人与王仙们同坐,当时光彩耀然。

2.39.3

समेता ब्रह्मभवने देवा देवर्षयस्तथा ।
कर्मान्तरमुपासन्तो जजल्पुरमितौजसः ॥ २.३९.३ ॥

聚集在梵天宫中的诸天神与天仙,等待仪式的间隙,以无量光明之姿交谈起来。

2.39.4

एवमेतन्न चाप्येवमेवं चैतन्न चान्यथा ।
इत्यूचुर्बहवस्तत्र वितण्डां वै परस्परम् ॥ २.३९.४ ॥

“是如此,又非如此;是如此,亦非别样”——于是在那里,许多人互相争辩,陷入空洞的辩论。

2.39.5

कृशानर्थांस्ततः केचिदकृशांस्तत्र कुर्वते ।
अकृशांश्च कृशांश्चक्रुर्हेतुभिः शास्त्रनिश्चयैः ॥ २.३९.५ ॥

于是有人把弱的论点说成强的,强的说成弱的;他们以理由和经典的定论来这样做。

2.39.6

तत्र मेधाविनः केचिदर्थमन्यैरुदीरितम् ।
विचिक्षिपुर्यथा श्येना नभोगतमिवामिषम् ॥ २.३९.६ ॥

那里有些智者,把别人提出的道理抛开,如同鹰隼将高空中的肉食抛掷而去。

2.39.7

केचिद्धर्मार्थकुशलाः केचित्तत्र महाव्रताः ।
रेमिरे कथयन्तश्च सर्वभाष्यविदां वराः ॥ २.३९.७ ॥

其中有人精通法与利,有人持守大誓;通晓一切言辞的贤者们相互交谈,欢喜不已。

2.39.8

सा वेदिर्वेदसम्पन्नैर्देवद्विजमहर्षिभिः ।
आबभासे समाकीर्णा नक्षत्रैर्द्यौरिवायता ॥ २.३९.८ ॥

那祭坛上聚集着精通吠陀的诸神、再生者与大仙人,光辉如布满星辰的广阔天空。

2.39.9

न तस्यां सन्निधौ शूद्रः कश्चिदासीन्न चाव्रती ।
अन्तर्वेद्यां तदा राजन्युधिष्ठिरनिवेशने ॥ २.३९.९ ॥

大王,那时在坚战的住所,靠近那内祭坛之处,没有首陀罗,也没有不持誓戒的人。

2.39.10

तां तु लक्ष्मीवतो लक्ष्मीं तदा यज्ञविधानजाम् ।
तुतोष नारदः पश्यन्धर्मराजस्य धीमतः ॥ २.३९.१० ॥

那时,那拉陀见到这位吉祥者因祭祀仪轨而生的繁盛,便感到欢喜,凝视着智慧的法王之光辉。

2.39.11

अथ चिन्तां समापेदे स मुनिर्मनुजाधिप ।
नारदस्तु तदा पश्यन्सर्वक्षत्रसमागमम् ॥ २.३९.११ ॥

人主啊,那时那位仙人那拉陀见到诸刹帝利的聚会,便陷入沉思。

2.39.12

सस्मार च पुरावृत्तां कथां तां पुरुषर्षभ ।
अंशावतरणे याऽसौ ब्रह्मणो भवनेऽभवत् ॥ २.३९.१२ ॥

人中雄牛啊,他回想起在梵天居所中,因诸神分身降世时所发生的那段古老故事。

2.39.13

देवानां सङ्गमं तं तु विज्ञाय कुरुनन्दन ।
नारदः पुण्डरीकाक्षं सस्मार मनसा हरिम् ॥ २.३९.१३ ॥

库鲁之喜啊!那天神的集会被那罗陀知晓后,他在心中忆念了莲花眼的哈里。

2.39.14

साक्षात्स विबुधारिघ्नः क्षत्रे नारायणो विभुः ।
प्रतिज्ञां पालयंश्चेमां जातः परपुरञ्जयः ॥ २.३९.१४ ॥

这位遍在的那罗延,诸天敌人的摧灭者,为践行此誓,亲身降生于刹帝利种姓,成为征服敌城者。

2.39.15

न्दिदेश पुरा योऽसौ विबुधान्भूतकृत्स्वयम् ।
न्योन्यमभिनिघ्नन्तः पुनर्लोकानवाप्स्यथ ॥ २.३९.१५ ॥

……昔日创造众生的他亲自命令诸天:你们相互击杀,便能再得诸世界。

2.39.16

इति नारायणः शम्भुर्भगवान्भूतभावनः ।
आदिश्य विबुधान्सर्वानजायत यदुक्षये ॥ २.३९.१६ ॥

如是,世尊那罗延,湿婆,众生的养育者,命令了所有诸天之后,在药杜族灭亡之时降生。

2.39.17

क्षितावन्धकवृष्णीनां वंशे वंशभृतां वरः ।
परया शुशुभे लक्ष्म्या नक्षत्राणामिवोडुराट् ॥ २.३९.१७ ॥

在大地上,于安陀迦与毗湿尼的家族中,族中最杰出者以至高的光辉闪耀,如群星中的月亮。

2.39.18

यस्य बाहुबलं सेन्द्राः सुराः सर्व उपासते ।
सोयं मानुषवन्नाम हरिरास्तेऽरिमर्दनः ॥ २.३९.१८ ॥

其臂力,诸天与因陀罗共同敬奉:这位摧敌的哈里,以类似人的名号居住于世。

2.39.19

अहो बत महद्भूतं स्वयम्भूर्यदिदं स्वयम् ।
आदास्यति पुनः क्षत्रमेवं बलसमन्वितम् ॥ २.३९.१९ ॥

啊,真是奇迹!自存者自己将再次接纳具备力量的刹帝利种姓。

2.39.20

इत्येतां नारदश्चिन्तां चिन्तयामास सर्ववित् ।
हरिं नारायणं ज्ञात्वा यज्ञैरीज्यं तमीश्वरम् ॥ २.३९.२० ॥

于是,无所不知的那罗陀思考了此念,认出了应以祭祀崇拜的自在者哈里·那罗延。

2.39.21

तस्मिन्धर्मविदां श्रेष्ठो धर्मराजस्य धीमतः ।
महाध्वरे महाबुद्धिस्तस्थौ स बहुमानतः ॥ २.३९.२१ ॥

在法王智慧的大祭礼中,精通法者中最杰出、大智慧的那罗陀,以极大的敬意立于其中。

2.39.22

ततः समुदिता मुख्यैर्गुणैर्गुणवतां वराः ।
बहवो भावितात्मानः पृथक्पृथगरिन्दमाः ॥ २.३९.२२ ॥

于是,许多在德行上最为杰出、以主要品德而著称、心灵纯净、能降伏敌人的人,各自分别聚集而来。

2.39.23

आत्मकृत्यमिति ज्ञात्वा पाञ्चालास्तत्र सर्वशः ।
समीयुर्वृष्णयश्चैव तदाऽनीकाग्रहारिणः ॥ २.३९.२३ ॥

知道这是自己的事,般遮罗人与缚利尼人全都聚集在那里,连同那些执掌军前锋的人也来了。

2.39.24

दाराः सजनामात्या वहन्तो रत्नसञ्चयान् ।
विकृष्टत्वाच्च देशस्य गुरुभारतया च ते ॥ २.३९.२४ ॥

妻子、臣民与大臣们携带着成堆的珍宝而来,因为所在之地遥远,负担又沉重。

2.39.25

ययुः प्रमुदिताः पश्चाद्भगवन्तं समन्वयुः ।
बलशेषं समुदितं परिगृह्य समन्ततः ॥ २.३९.२५ ॥

他们欢欣地出发,跟随世尊而行,从四方集结了剩余的军队。

2.39.26

अजश्चक्रायुधः शौरिरमित्रगणमर्दनः ।
बलाधिकारे निक्षिप्य संमान्यानकदुन्दुभिम् ॥ २.३९.२६ ॥

不生者、持轮者、室罗之子、摧毁敌军的人,将兵权交付后,尊敬了阿那迦敦度毗。

2.39.27

सम्प्रायाद्यादवश्रेष्ठो जयमाने युधिष्ठिरे ।
उच्चावचमुपादाय धर्मराजाय माधवः ॥ २.३९.२७ ॥

雅达瓦中最优秀的摩陀婆,在坚战获胜之时,携带各种物品前往法王处。

2.39.28

धनौघं पुरतः कृत्वा खाण्डवप्रस्थमाययौ ।
तत्र यज्ञगतान्पश्यंश्चैद्यवर्गसमागतान् ॥ २.३९.२८ ॥

他将财富之流置于前方,来到俱肩城,看着为祭祀而聚集的遮提族诸王和其他人。

2.39.29

भूमिपालगणान्सर्वान्सप्रभानिव तोयदान् ।
घकायान्निवसतो यूथपानिव यूथपः ॥ २.३९.२९ ॥

所有地上的护持者,如光明的云朵,如住在林中的群象之首。

2.39.30

बलिनः सिंहसङ्काशान्महीमावृत्य तिष्ठतः ।
ततो जनौघसम्बाधं राजसागरमव्ययम् ॥ २.३९.३० ॥

如狮子般的强者,站立遮盖大地;然后是挤满人群的、无尽的王者之海。

2.39.31

नादयन्रथघोषेण ह्युपायान्मधुसूदनः ।
असूर्यमिव सूर्येण निवातमिव वायुना ॥ २.३९.३१ ॥

摩图苏陀那驾车而至,车声轰鸣,如无日之地,又如无风之寂。

2.39.32

कृष्णेन समुपेतेन जहर्षे भारतं पुरम् ।
ब्राह्मणक्षत्रियाणां तु पूजार्थं ह्यर्थधर्मवित् ॥ २.३९.३२ ॥

克里希那到来,婆罗多城欢欣鼓舞,为尊敬通晓利与法的婆罗门与刹帝利。

2.39.33

सहदेवो विशेषज्ञो माद्रीपुत्रः कृतोऽभवत् ।
भगवन्तं तु भूतानां भास्वन्तमिव तेजसा ॥ २.३९.३३ ॥

通晓分辨的摩提之子偕天被任命,他如众生之主,以光辉照耀如日。

2.39.34

विशन्तं यज्ञभूमिं तां सितस्यावरजं प्रभुम् ।
तेजोराशिमृषिं विप्रमदृश्यं वै विजानताम् ॥ २.३९.३४ ॥

他走入那祭场,乃悉多之幼弟,主宰,光辉之聚,仙人与婆罗门,即便智者也看不见他。

2.39.35

वयोधिकानां वृद्धानां मार्गमात्मनि तिष्ठताम् ।
जगतस्तस्थुषश्चैव प्रभवाप्ययमच्युतम् ॥ २.३९.३५ ॥

安住于自身,乃长者之道,万物动静之生灭所依,不坏者。

2.39.36

अनन्तमन्तं शत्रूणाममित्रगणमर्दनम् ।
प्रभवं सर्वभूतानामापत्स्वभयमच्युतम् ॥ २.३९.३६ ॥

虽无限,却是敌人的尽头,摧毁敌军之众,一切众生之源,灾难中无畏的庇护,不坏者。

2.39.37

भविष्यं भावनं भूतं द्वारवत्यामरिन्दमम् ।
स दृष्ट्वा कृष्णमायान्तं प्रतिपूज्यामितौजसम् ॥ २.३९.३७ ॥

在德瓦拉瓦蒂,他看见克里希那前来——他是过去、现在与未来的源头,是敌人的征服者,有无量威力——便依礼敬奉了他。

2.39.38

यथार्हं केशवे वृत्तिं प्रत्यपद्यत पाण्डवः ।
ज्यैष्ठ्यकानिष्ठ्यसंयोगं सम्प्रधार्य गुणागुणैः ॥ २.३९.३८ ॥

般度之子权衡了长幼之间的关系与各人的优劣,对克沙瓦采取了恰当的态度。

2.39.39

आरिराधयिषुर्धर्मः पूजयित्वा द्विजोत्तमान् ।
महदादित्यसङ्काशमासनं च जगत्पतेः। ॥ २.३९.३९ ॥

法王想要取悦世界之主,于是礼敬诸位最优秀的再生者,并为世界之主奉上一座如大太阳般光辉的座位。

2.39.40

ददौ नासादितं कैश्चित्तस्मिन्नुपविवेश सः ।
ततो भीष्मोऽब्रवीद्राजन्धर्मराजं युधिष्ठिरम्।
क्रियतामर्हणं राज्ञां यथार्हमिति भारत ॥ २.३९.४० ॥

他坐上了一个从未有人得到过的座位。于是毗湿摩对法王坚战说:“大王啊,婆罗多,应当依礼向诸王致敬。”

2.39.41

आचार्यमृत्विजं चैव संयुजं च युधिष्ठिर ।
स्नातकं च प्रियं प्राहुः षडर्घार्हान्नृपं तथा ॥ २.३९.४१ ॥

优地希希罗啊,导师、祭司、亲属、学成的吠陀学子、亲爱的朋友以及国王,被称为值得六种敬礼的人。

2.39.42

एतानर्घ्यानभिगतानाहुः संवत्सरोषितान् ।
त इमे कालपूगस्य महतोऽस्मानुपागताः ॥ २.३९.४२ ॥

凡来到并住满一年的人,被称为值得奉献之人。这些人经过很长时间之后来到了我们这里。

2.39.43

एषामेकैकशो राजन्नर्घ आनीयतामिति ।
अथ तैषां वरिष्ठाय समर्थायोपनीयताम् ॥ २.३९.४३ ॥

国王啊,请逐一为他们每人取来敬奉之礼;然后将其献给他们中最卓越、最有资格的人。

2.39.44

कस्मै भवान्मन्यतेऽर्घमेकस्मै कुरुनन्दन ।
उपनीयमानं युक्तं च तन्मे ब्रूहि पितामह ॥ २.३९.४४ ॥

库鲁之喜,您认为这份敬奉之礼应献给谁?请告诉我什么才是应当且恰当的敬奉,祖父啊。

2.39.45

ततो भीष्मः शान्तनवो बुद्ध्या निश्चित्य वीर्यवान् ।
वार्ष्णेयं मन्यते कृष्णमर्हणीयतमं भुवि ॥ २.३९.४५ ॥

于是,桑塔努之子、勇猛的毗湿摩以智慧做出决定,认为韦尔希尼族的克利希那是大地上最值得尊敬的人。

2.39.46

एष ह्येषां समस्तानां तेजोबलपराक्रमैः ।
मध्ये तपन्निवाभाति ज्योतिषामिव भास्करः ॥ २.३९.४६ ॥

此人在他们所有人之中,以光辉、力量与勇猛闪耀,如同群光中炽热的太阳。

2.39.47

असूर्यमिव सूर्येण निर्वातमिव वायुना ।
भासितं ह्लादितं चैव कृष्णेनेदं सदो हि नः ॥ २.३९.४७ ॥

犹如无日之处被太阳照亮,无风之处被风吹拂而欢悦,我们这个会堂因克利希那而光明和欢喜。

2.39.48

तस्मै भीष्माभ्यनुज्ञातः सहदेवः प्रतापवान् ।
उपजह्रेऽथ विधिवद्वार्ष्णेयायार्घ्यमुत्तमम् ॥ २.३९.४८ ॥

得到毗湿摩的允许后,勇猛的萨哈德瓦依礼向韦尔希尼族的后裔敬奉了上好的敬礼。

2.39.49

गामर्घ्यं मधुपर्कं च ह्यानीयोपाहरत्तदा ।
एतस्मिन्नन्तरे राजन्निदमासीत्तदाऽद्भुतम् ॥ २.३९.४९ ॥

他牵来一头牛,以及敬献的阿尔迦和蜜酒,并献上。大王啊,就在此时,发生了这件奇异的事。

2.39.50

तां दृष्ट्वा क्षत्रियाः सर्वे पूजां कृष्णस्य भूयसीम् ।
सम्प्रेक्ष्यान्योन्यमासीना हृदयैस्तामधारयन् ॥ २.३९.५० ॥

所有刹帝利见此,对于赐予黑天的盛大礼敬,彼此相视而坐,并将其铭记于心。

2.39.51

प्रतिजग्राह तां कृष्णः शास्त्रदृष्टेन कर्मणा ।
शिशुपालस्तु तां पूजां वासुदेवे न चक्षमे ॥ २.३९.५१ ॥

黑天依照经典规定的仪轨接受了它;但希舒帕拉无法忍受对伐苏提婆所行的那份礼敬。

2.39.52

उपालभ्य स भीष्मं च धर्मराजं च संसदि ।
अवाक्षिपद्वासुदेवं चेदिराजो महाबलः ॥ २.३९.५२ ॥

在集会上责备毗湿摩与法王之后,这位大力的遮提王辱骂伐苏提婆。

2.39.53

तेषामाकारभावज्ञः सहदेवो न चक्षमे ।
मानिनां बलिनां राज्ञां पुरुः सन्दर्शिते पदे ॥ २.३९.५३ ॥

萨哈德瓦明白他们的心意,当他的座位在傲慢而强大的诸王面前被指示出来时,他无法忍受。

2.39.54

पुष्पवृष्टिर्महत्यासीत्सहदेवस्य मूर्धनि ।
जन्मप्रभृति वृष्णीना सुनीथः शत्रुरब्रवीत् ॥ २.३९.५४ ॥

大量花雨落在萨哈德瓦的头上;这时,自出生起便与伐里希尼族为敌的苏尼陀开口说道。

2.39.55

प्रष्टा वियोनिजो राजा प्रतिवक्ता नदीसुतः ।
प्रतिग्रहीता गोपालः प्रदाता च वियोनिजः ॥ २.३९.५५ ॥

提问者是非胎生的国王,应答者是河之子,受施者是牧人,施予者也是非胎生者。

2.39.56

सदस्या मूकवत्सर्वे आसतेऽत्र किमुच्यते ।
इत्युक्त्वा स विहस्याशु पाण्डुं पुनरब्रवीत् ॥ २.३९.५६ ॥

这里的与会者都像哑巴一样坐着,对此还有什么可说的呢?说完这话,他笑着迅速又对般度之子说道。

2.39.57

अतिपश्यसि वा सर्वान्न वा पश्यसि पाण्डव ।
तिष्ठत्स्वन्येषु पूज्येषु गोपमर्चितवानसि ॥ २.३९.५७ ॥

般度之子啊,你是看见了所有人,还是没有看见?其他尊贵之人仍在,你却尊敬了牧人。

2.39.58

एते चैवोभये तात कार्यस्य तु विनाशके ।
अतिदृष्टिरदृष्टिर्वा तयोः किं त्वं समास्थितः ॥ २.३९.५८ ॥

孩子,这两者都会毁坏事情。过度洞察或全然不察,你选择了哪一种?