摩诃婆罗多 · 章 2.41
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.41.1
ततो युधिष्ठिरो राजा शिशुपालमुपाद्रवत् ।
उवाच चैनं मधुरं सान्त्वपूर्वमिदं वचः ॥ २.४१.१ ॥
于是国王坚战快步走向尸首婆罗,先以温和、安抚的言辞对他说道。
2.41.2
नेदं युक्तं महीपाल यादृशं वै त्वमुक्तवान् ।
अधर्मश्च परो राजन्पारुष्यं च निरर्थकम् ॥ २.४१.२ ॥
大地守护者啊,你所说的并不恰当。国王啊,这是极大的不义,也是毫无意义的粗暴。
2.41.3
न हि धर्मं परं जातु नावबुध्येत पार्थिवः ।
भीष्मः शान्तनवस्त्वेनं मावमंस्थास्त्वमन्यथा ॥ २.४१.३ ॥
任何国王都不可能真正理解至高的达摩。但你不可以以别的方式轻视檀努之子毗湿摩。
2.41.4
पश्य चैतान्महीपालांस्त्वत्तो वृद्धतरान्बहून् ।
मृष्यन्ते चार्हणां कृष्णे तद्वत्वं क्षन्तुमर्हसि ॥ २.४१.४ ॥
看那些比你年长的众多国王,都忍受了授予黑天的敬意;你也应当忍耐。
2.41.5
वेद तत्त्वेन कृष्णं हि भीष्णश्चेदिपते भृशम् ।
न ह्येनं त्वं तथा यथैनं वेद कौरवः ॥ २.४१.५ ॥
啟哆之主啊,毗湿摩确实完全如实地了解黑天;但你并不像俱卢之后裔那样了解他。
2.41.6
नास्मै देयो ह्यनुनयो नायमर्हति सान्त्वनम् ।
लोकवृद्धतमे कृष्णे योऽर्हणां नाभिमन्यते ॥ २.४१.६ ॥
不应向他提出和解;不接受授予世界上最年长者黑天之敬意的人,不配得到安慰。
2.41.7
क्षत्रियः क्षत्रियं जित्वा रणे रणकृतां वरः ।
यो मुञ्चति वशे कृत्वा गुरुर्भवति तस्य सः ॥ २.४१.७ ॥
在战斗中战胜另一位刹帝利、使其臣服后又将其释放的人,便成为他的导师;他是战士中的最优秀者。
2.41.8
अस्यां हि समितौ राज्ञामेकमप्यजितं युधि ।
न पश्यामि महीपालं सात्वतीपुत्रतेजसा ॥ २.४१.८ ॥
在这次集会中,我看不到一位国王在战斗中能不被萨特瓦塔之子的威光所征服。
2.41.9
न हि केवलमस्माकमयमर्च्यतमोऽच्युतः ।
त्रयाणामपि लोकानामर्चनीयो महाभुजः ॥ २.४१.९ ॥
并非只有我们认为这位阿周那(不坏者)最值得敬拜;这位大臂者也值得三界敬拜。
2.41.10
कृष्णेन हि जिता युद्धे बहवः क्षत्रियर्षभाः ।
जगत्सर्वं च वार्ष्णेये निखिलेन प्रतिष्ठितम् ॥ २.४१.१० ॥
在战斗中,许多刹帝利中的雄牛已被黑天征服,整个世界完全安立于毗湿尼的后裔之中。
2.41.11
तस्मात्सत्स्वपि वृद्धेषु कृष्णमर्चाम नेतरान् ।
एवं वक्तुं न चार्हस्त्वं मा तेऽभूद्बुद्धिरीदृशी ॥ २.४१.११ ॥
因此,即使有长者在场,我们也应尊敬黑天,而不是他人。你这样说是不妥的;愿你不要生出这样的念头。
2.41.12
ज्ञानवृद्धा मया राजन्बहवः पर्युपासिताः ।
यस्य राजन्प्रभावज्ञाः पुरा सर्वे च रक्षिताः।
तेषां कथयतां शौरेरहं गुणवतो गुणान् ॥ २.४१.१२ ॥
啊,国王!我曾侍奉过许多智慧长老,他们知晓其威力,从前都曾得到保护。从那些述说者那里,我听闻了德行高尚的沙URI的美德。
2.41.13
समागतानामश्रौषं बहून्बहुमतान्सताम् ।
कर्माण्यपि च यान्यस्य जन्मप्रभृति धीमतः ॥ २.४१.१३ ॥
我听到了聚集在此的许多受人敬重的善人所说,也听到了这位智者自出生以来所做的事迹。
2.41.14
बहृशः कथ्यमानानि नरैर्भूयः श्रुतानि मे ।
न केवलं वयं कामाच्चेदिगज जनार्दनम् ॥ २.४१.१४ ॥
这些被人们反复讲述的事,我反复听到过。我们并非只因欲望,若……便敬奉遮那陀那(Janārdana)。
2.41.15
न सम्बन्धं पुरस्कृत्य कृतार्थं वा कथञ्चन ।
अर्चामहेऽर्चितं सद्भिर्भुवि भूतसुखावहम् ॥ २.४१.१५ ॥
我们并非因看重亲缘,也非为了以任何方式成就自己的目的而敬拜他——他是善人所敬重、为大地上众生带来幸福的人。
2.41.16
यशः शौर्यं जयं चास्य विज्ञायार्चां प्रयुञ्ज्महे ।
न च कश्चिदिहास्माभिः सुवालोप्यपरीक्षितः ॥ २.४१.१६ ॥
因知其名声、勇武与胜利,我们才行礼敬拜;在此,我们中间没有人未经考验便被放过……
2.41.17
गुणैर्वृद्धानतिक्रम्य हरिरर्च्यतमो मतः ।
ज्ञानवृद्धो द्विजातीनां क्षत्रियाणां बलाधिकः ॥ २.४१.१७ ॥
在德性上超越长者,哈利被认为最值得敬拜——在再生者中以智慧年长,在刹帝利中以力量为最。
2.41.18
वैश्यानां धान्यधनवाञ्शूद्राणामेव जन्मतः ।
पूज्यतायां च गोविन्दे हेतू द्वावपि संस्थितौ ॥ २.४१.१८ ॥
在吠舍中是富于谷物与财物者,在首陀罗中则仅凭出生——在瞿频陀值得崇拜的品格中,这两个理由都稳固地存在。
2.41.19
वेदवेदाङ्गविज्ञानं बलं चाभ्यधिकं तथा ।
नृणां लोके हि कोऽन्योस्ति विशिष्टः केशवादृते ॥ २.४१.१९ ॥
吠陀及吠陀支分的知识,以及更大的力量——在世间,除了凯沙婆,还有谁是人中之杰出者?
2.41.20
दानं दाक्ष्यं श्रुतं शौर्यं ह्रीः कीर्तिर्बुद्धिरुत्तमा ।
संनतिः श्रीर्धृतिस्तुष्टिः पुष्टिश्च नियताऽच्युते ॥ २.४१.२० ॥
布施、技巧、博学、勇武、羞耻心、名声、至上智慧、谦逊、吉祥、坚定、满足与滋养——这一切都恒常地安住于不坏者之中。
2.41.21
तमिमं लोकसम्पन्नमाचार्यं पितरं गुरुम् ।
अर्घ्यमर्चितमर्चामः सर्वे सङ्क्षन्तुमर्हथ ॥ २.४१.२१ ॥
我们众人都应礼敬这位具备世间美德的师长、父亲与上师,他值得以供养礼敬;你们都应当宽恕。
2.41.22
ऋत्विग्गुरुर्विवाह्यश्च स्नातको नृपतिः प्रियः ।
सर्वमेतद्धृषीकेशस्तस्मादभ्यर्चितोऽच्युतः ॥ २.४१.२२ ॥
司祭、师长、适婚的女婿、完成学业者、国王与所爱之人——这一切都是希利世柯;因此不坏者受到供奉。
2.41.23
कृष्ण एव हि लोकानामुत्पत्तिरपि चाप्ययः ।
कृष्णस्य हि कृते विश्वमिदं भूतं चराचरम् ॥ २.४१.२३ ॥
克里希那确实是诸世界的生起,也是其归灭;为了克里希那,这整个动与不动的世界得以存在。
2.41.24
एष प्रकृतिरव्यक्ता कर्ता चैव सनातनः ।
परश्च सर्वभूतेभ्यस्तस्मात्पूज्यतमोऽच्युतः ॥ २.४१.२४ ॥
他就是未显现的本性、永恒的作者,并且超越一切众生;因此不坏者最值得崇拜。
2.41.25
द्धिर्मनो महद्वायुस्तेजोऽभः खं मही च या ।
चतुर्विधं च यद्भूतं सर्वं कृष्णे प्रतिष्ठितम् ॥ २.४१.२५ ॥
觉、意、大(mahat)、风、火、水、空与地,以及四类众生——一切皆安立于克利须那之中。
2.41.26
आदित्यश्चन्द्रमाश्चैव नक्षत्राणि ग्रहाश्च ये ।
दिशश्च विदिशश्चैव सर्वं कृष्णे प्रतिष्ठितम् ॥ २.४१.२६ ॥
日、月、星宿与诸行星,方位与次方位——一切皆安立于克利须那之中。
2.41.27
एष रुद्रश्च सर्वात्मा ब्रह्मा चैव सनातनः ।
अक्षरं क्षररूपेण मानुषत्वमुपागतः ॥ २.४१.२७ ॥
此即楼陀罗,一切之自我,亦即永恒的梵天。虽为不灭者,却以可灭之形态而取人性。
2.41.28
अग्निहोत्रमुखा वेदा गायत्री च्छन्दसां मुखम् ।
राजा मुखं मनुष्याणां नदीनां सागरो मुखम् ॥ २.४१.२८ ॥
以火祭为面的诸吠陀;伽耶特里为诸韵律之面;国王为人类之面;大海为诸河之面。
2.41.29
नक्षत्राणां मुखं चन्द्र आदित्यस्तेजसां मुखम् ।
पर्वतानां मुखं मेरुर्गरुडः पततां मुखम् ॥ २.४१.२९ ॥
月为星宿之面,日为光明之面;须弥山为山岳之面,迦娄茶为飞禽之面。
2.41.30
ऊर्ध्वं तिर्यगधश्चैव यावती जगतो गतिः ।
सदेवकेषु लोकेषु भगवान्केशवो मुखम् ॥ २.४१.३० ॥
上、横与下,凡世界运行所及之处,在包括诸神在内的诸世界中,世尊羯沙婆即是其面。
2.41.31
अयं तु पुरुषो बालः शिशुपालो न बुध्यते ।
सर्वत्र सर्वदा कृष्णं तस्मादेवं प्रभाषते ॥ २.४१.३१ ॥
然而这愚昧的人首陀罗巴拉不明白;因此他时时处处这样谈论黑天。
2.41.32
यो हि धर्मं विचिनुयादुत्कृष्टं मतिमान्नरः ।
स वै पश्येद्यथा धर्मं न तथा चेदिराडयम् ॥ २.४१.३२ ॥
智者若能审慎辨别至上的法,便能正确地看见法;而这位文地之王却不如此看。
2.41.33
सवृद्धबालेष्वथवा पार्थिवेषु महात्मसु ।
को नार्हं मन्यते कृष्णं को वाप्येनं न पूजयेत् ॥ २.४१.३३ ॥
无论在长者与幼者之中,还是在大德的国王之中,谁会不认为黑天值得尊敬?又有谁不会礼敬他呢?
2.41.34
अथैनां दुष्कृतां पूजां शिशुपालो व्यवस्यति ।
दुष्कृतायां यथान्यायं तथाऽयं कर्तुमर्हति ॥ २.४१.३४ ॥
如今,首陀罗巴拉决意献上这错误的礼敬;对于作恶之人,依法应当如何处置,他也应当如此行事。