Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 2.44

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.44.1

अव्यक्तो व्यक्तलिङ्गस्थो य एव भगवान्प्रभुः ।
नरनारायणो भूत्वा हरिरासीद्युधिष्ठिर ॥ २.४४.१ ॥

那位虽未显现却以显现之相安住的世尊主宰,化为那罗-那罗延,即是哈里,般度之子坚战啊。

2.44.2

ब्रह्मा च शक्रः सूर्यश्च धर्मश्चैव सनातनः ।
बहुशः सर्वभूतात्मा प्रादुर्भवति कार्यतः।
प्रादुर्भावांस्तु वक्ष्यामि दिव्यान्देवगणैर्युतान्। ॥ २.४४.२ ॥

梵天、因陀罗、太阳与永恒的法,以及一切众生之自我,依事务之需多次显现。我将讲述那些由诸神之众伴随的神圣显现。

2.44.3

सुप्त्वा युगसहस्रं स प्रादुर्भवति कार्यवान् ।
अनेकबहुसाहस्रैर्देवदेवो जगत्पतिः ॥ २.४४.३ ॥

睡眠千劫之后,他怀着目的以无数千种形相显现,乃神中之神,世界之主。

2.44.4

ब्रह्माणं कपिलं चैव परमेष्ठिं तथैव च ।
देवान्सप्तर्षिभिश्चैव शङ्करं च महायशाः ॥ २.४४.४ ॥

梵天、迦毗罗、最高位者,同样还有诸神与七仙,以及湿婆,那位大名者。

2.44.5

सनत्कुमारं भगवान्मनुं चैव प्रजापतिम् ।
पुरा चक्रे च देवादिः प्रदीप्ताग्निसमप्रभः ॥ २.४४.५ ॥

往昔他造出了萨那特库玛拉、世尊摩奴和生主,他是诸神之首,光辉如燃烧之火。

2.44.6

येन चार्णवमध्यस्थौ नष्टेस्थावरजङ्गमे ।
नष्टदेवासुरवरे प्रनष्टोरगराक्षसे ॥ २.४४.६ ॥

他于大海之中而立,当不动与动者皆灭,诸神与阿修罗之最胜者皆灭,蛇与罗刹亦尽灭之时。

2.44.7

योद्धुकामौ सुदुर्धर्षौ भ्रातरौ मधुकैठभौ ।
हतौ भगवता तेन ततो दत्त्वा वरं परम् ॥ २.४४.७ ॥

那两位渴望战斗、极难战胜的兄弟摩图与凯塔巴,被那位世尊所杀;随后他赐予了至高的恩惠,

2.44.8

भूमिं बद्ध्वा कृतौ पूर्वावजेयौ द्वौ महाऽसुरौ ।
तौ कर्णमलसंभूतौ विष्णोस्तस्य महात्मनः ॥ २.४४.८ ॥

那两位先前所造、不可战胜、曾缚住大地的大阿修罗,是从那位大德毗湿奴耳垢中所生。

2.44.9

महार्णवे प्रस्वपतः शैलराजसमौ स्थितौ ।
तौ विवेश स्वयं वायुर्ब्रह्मणा साधु चोदितः ॥ २.४४.९ ॥

那两者像山王一样立于正在大海中熟睡的他面前;梵天善加驱使,风本身便进入了他们之中。

2.44.10

तौ दिवं छादयित्वा तु ववृधाते महाऽसुरौ ।
वायुप्रमाणौ तौ दृष्ट्वा ब्रह्मा पर्यमृशच्छनैः ॥ २.४४.१० ॥

那两个大阿修罗不断长大,遮蔽了天空;梵天看见他们大如风,便慢慢地四处触摸他们。

2.44.11

एकं मृदुतरं वेत्ति कठिनं वेत्ति चापरम् ।
नामनी तु तयोश्चके सविता सलिलोद्भवः ॥ २.४४.११ ॥

一个被知为较柔软,另一个被知为较坚硬;由水中所生的萨维陀给他们二人取了名字。

2.44.12

मृदुस्त्वयं मधुर्नाम कठिनः कैठभः स्वयम् ।
तौ दैत्यौ कृतनामानौ चेरतुर्बलगर्वितौ ॥ २.४४.१२ ॥

“这个柔软,名叫摩杜;坚硬的正是凯塔巴本人。”如此得名的两位达伊提亚,因力量而自负,四处游荡。

2.44.13

तौ पुराऽथ दिवं सर्वां प्राप्तौ राजन्महासुरौ ।
प्रच्छाद्याथ दिवं सर्वां चेरतुर्मधुकैठभौ ॥ २.४४.१३ ॥

大王啊,往昔那两位大阿修罗到达整个天界并遮蔽了它,摩度与凯塔巴便四处游荡。

2.44.14

सर्वमेकार्णवं लोकं योद्धुकामौ सुनिर्भयौ ।
तौ गतावसुरौ दृष्ट्वा ब्रह्मा लोकपितामहः ॥ २.४४.१४ ॥

整个世界已成一片大海;众世界之祖梵天见那两位无畏、渴望战斗的阿修罗离去[…]

2.44.15

एकार्णवाम्बुनिचये तत्रैवान्तरधीयत ।
स पद्मात्पद्मनाभस्य नाभिदेशात्समुत्थितात् ॥ २.४४.१५ ॥

他就在那一片唯一大海的水中隐没了。从从莲花——即从毗湿奴(莲花脐者)肚脐处升起的莲花——[…]

2.44.16

आससाद स्वयं जन्म तत्पङ्कजमपङ्कजम् ।
पूजयामास वसतिं ब्रह्मा लोकपितामहः ॥ २.४४.१६ ॥

他自己就在那朵不是从淤泥中生出的莲花上诞生了;众世界之祖梵天礼拜了他的居所。

2.44.17

तावुभौ जलगर्भस्थौ नारायणचतुर्मुखौ ।
बहून्वर्षायुतानप्सु शयानौ न च कम्पितौ ॥ २.४४.१७ ॥

那两位——那罗延与四面梵天——居于水之胎中,在水中卧了许多万年,并未动摇。

2.44.18

अथ दीर्घस्य कालस्य तावुभौ मधुकैठभौ ।
आजग्मतुस्तौ तं देशं यत्र ब्रह्मा व्यवस्थितः ॥ २.४४.१८ ॥

过了很长时间,那两位摩度与凯塔巴来到了梵天所在的地方。

2.44.19

तौ दृष्ट्वा लोकनाथस्तु रोषात्संरक्तलोचनः ।
उत्पपाताथ शयनात्पद्मनाभो महाद्युतिः ॥ २.४४.१९ ॥

洲看见他们,世界之主、脐生莲花、大光明者怒目赤红,从床榻上一跃而起。

2.44.20

तद्युद्धमभवद्घोरं तयोस्तस्य च भारत ।
एकार्णवे तदा घोरे त्रैलोक्ये जलतां गते ॥ २.४४.२० ॥

婆罗多啊,那时三界化为水,成为一片可怖的大海,他们二人与他之间发生了这场惨烈的战斗。

2.44.21

तदभूत्तुमुलं युद्धं वर्षसङ्ख्यासहस्रशः ।
न च तावसुरौ युद्धे तदा श्रममवापतुः ॥ २.४४.२१ ॥

那场战斗持续了数千年,既惨烈又喧嚣,然而那两位阿修罗在战斗中并未感到疲倦。

2.44.22

अथ दीर्घस्य कालस्य तौ दैत्यौ युद्धदुर्मदौ ।
ऊचतुः प्रीतमनसौ देवं नारायणं प्रभुम् ॥ २.४४.२२ ॥

过了很久,那两位在战斗中狂傲的达蒂耶,心怀欢喜地对神主那罗延说道。

2.44.23

प्रीतौ स्वस्तव युद्धेन श्लाघ्यस्त्वं मृत्युरावयोः ।
आवां जहि न यत्रोर्वा सलिलेन पिरप्लुता ॥ २.४४.२३ ॥

我们因你的战斗而欢喜;你值得赞誉,你便是我们的死亡。请在大地未被水淹没之处杀了我们。

2.44.24

हतौ च तव पुत्रत्वं प्राप्नुयाव सुरोत्तम ।
यो ह्यानां युधि निर्जेता तस्यावां विहितौ सुतौ ॥ २.४४.२४ ॥

诸神之中最胜者啊,愿我们被杀之后得以成为你的儿子;愿我们二人被定为那在战斗中征服众生者的儿子。

2.44.25

तयोस्तु वचनं श्रुत्वा तदा नारायणः प्रभुः ।
तौ प्रहस्य मृधे दैत्यौ दोर्भ्यां च समपीडयम् ॥ २.४४.२५ ॥

主神那罗延听了他们的话,便笑着在战斗中用双臂压制了那两个檀那婆。

2.44.26

ऊरुभ्यां निधनं चक्रे तावुभौ मधुकैठबौ ।
तौ हतौ चाप्लुतौ तोये वपुर्भ्यामेकतां गतौ ॥ २.४४.२६ ॥

他用大腿杀死了摩图和凯塔巴两人;二人死后沉入水中,身体合为一体。

2.44.27

मेदो मुमुचतुर्दैत्यौ मज्जमानौ जलोर्मिभिः ।
मेदसा तज्जलं व्याप्तं ताभ्यामन्तर्दधे तदा ॥ २.४४.२७ ॥

两位檀那婆在波涛中沉没时释放出骨髓脂肪;水被这脂肪充满,于是二人消失在其中。

2.44.28

नारायणश्च भगवानसृजद्विविधाः प्रजाः ।
दैत्ययोर्मेदसा छन्ना सर्वा राजन्वसुन्धरा ॥ २.४४.२८ ॥

世尊那罗延创造了种种众生;大王啊,整个大地都被檀那婆的脂肪所覆盖。

2.44.29

तदाप्रभृति कौन्तेय मेदिनीति स्मृता मही ।
प्रभावात्पद्मनाभस्य शाश्वती च कृता नृणाम् ॥ २.४४.२९ ॥

从那时起,贡蒂之子啊,此大地被称为梅地尼;由于莲花脐(毗湿奴)的威力,它也为世人而成为永恒。