摩诃婆罗多 · 章 2.46
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.46.1
दैत्येन्द्रो बलवान्त्राजन्सुरारिर्बलगर्वितः ।
हिरण्यकशिपुर्नाम आसीत्रैलोक्यकण्टकः ॥ २.४६.१ ॥
国王啊,曾有一位名叫希兰雅迦希普的强大檀那婆之主,他是诸神的敌人,自恃力量而骄傲,是三界的荆棘。
2.46.2
दैत्यानामादिपुरुषो वीर्येणाप्रतिमो बली ।
प्रविश्य जलधं राजंश्चकार तप उत्तमम् ॥ २.४६.२ ॥
国王啊,檀那婆之中的始祖,勇力无双而强大,他进入大海,修行了至上的苦行。
2.46.3
दशवर्षसहस्राणि शतानि दश पञ्च च ।
व्रतोपवासतस्तस्थौ स्याणुमौनव्रतो दृढः ॥ २.४६.३ ॥
他以誓愿和禁食,如柱子般坚定地站立了一万五千多年,持守缄默之誓。
2.46.4
ततः शमदमाभ्यां च ब्रह्मचर्येण चानघ ।
ब्रह्मा प्रीतमनास्तस्य तपसा नियमेन च ॥ २.४६.४ ॥
无罪者啊,此后,他以寂静、克制和梵行,以及他的苦行与持戒,梵天对他心生欢喜。
2.46.5
ततः स्वयम्भूर्भगवान्स्वयमागम्य भूपते ।
विमानेनार्कवर्णेन हंसयुक्तेन भास्वता ॥ २.४६.५ ॥
此后,国王啊,自生的世尊亲自前来,乘坐一辆如太阳般颜色、以天鹅驾驭的光辉天车。
2.46.6
आदित्यैर्वसुभिः साध्यैर्मरुद्भिर्दैवतैस्तथा ।
रुद्रैर्विश्वसहायैश्च यक्षराक्षसकिन्नरैः ॥ २.४६.६ ॥
与阿底提耶、婆苏、萨底耶、摩录多及其他诸神,楼陀罗、毗首神的伴随者,以及夜叉、罗刹、紧那罗同来。
2.46.7
दिशाभिर्विदिशाभिश्च नदीभिः सागरैः सह ।
नक्षत्रैश्च मुहूर्तैश्च खेचरैश्चापरैर्ग्रहैः ॥ २.४६.७ ॥
与方位和次方位,与河流和海洋,与星宿和时刻,与运行于天空的星体及其他行星同在。
2.46.8
देवर्षिभिस्तपोयुक्तैः सिद्धैः सप्तर्षिभिस्तदा ।
राजर्षिभिः पुण्यतमैर्गन्धर्वैरप्सरोगणैः ॥ २.४६.८ ॥
与具足苦行的天仙、悉陀和七仙同在;彼时与最为清净的王仙、乾达婆及阿普萨拉斯众同在。
2.46.9
चराचरगुरुः श्रीमान्वृतः सर्वसुरैस्तथा ।
ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यमागम्य चाब्रवीत् ॥ २.४६.९ ॥
众生动静之师、光荣的梵天,被诸神环绕,乃梵智者中最优者,来到檀那婆面前说道。
2.46.10
प्रीतोऽस्मि तव भक्तस्य तपसाऽनेन सुव्रत ।
वरं वरय भद्रं ते यथेष्टं काममाप्नुहि ॥ २.४६.१० ॥
善持誓者啊,我因你这虔诚的苦行而喜悦。请选择一个恩赐,愿你吉祥,随你所愿,获得所求。
2.46.11
न देवा न च गन्धर्वा न यक्षोरगराक्षसाः ।
न मानुषाः पिशाचाश्च हन्युर्मां देवसत्तम ॥ २.४६.११ ॥
诸神中最优者啊,愿天神、乾达婆、夜叉、龙与罗刹,人类与毕舍遮,都不能杀我。
2.46.12
ऋषयो वा न मां शापैः क्रुद्धा लोकपितामह ।
शपेयुस्तपसा युक्ता वर एष वृतो मया ॥ २.४६.१२ ॥
世界的祖父啊,愿具足苦行的诸仙即使愤怒,也不以咒诅诅我;这便是我所选的恩赐。
2.46.13
न शस्त्रेण नचास्त्रेण गिरिणा पादपेन च ।
न शुष्केण न चार्देण स्यान्न वाऽन्येन मे वधः ॥ २.४६.१३ ॥
愿我不死于兵器,不死于投射之器,不死于山岳或树木;不死于干物或湿物,也不死于其他任何东西。
2.46.14
नाकाशे नाथ भूमौ वा रात्रौ वा दिवसेपि वा ।
नान्तर्वा न बहिर्वापि स्याद्वधो मे पितामह ॥ २.४६.१४ ॥
不在天空,哦主啊,不在大地;不在夜晚,也不在白天;不在室内,也不在室外,祖父啊,愿我不死。
2.46.15
पशुभिर्वा मृगैर्न स्यात्पक्षिभिर्वा सरीसृपैः ।
ददासि चेद्वरानेतन्देवदेव वृणोम्यहम् ॥ २.४६.१५ ॥
不死于兽类或野兽,不死于飞鸟或爬虫。神中之神啊,若您赐予此恩,我便选择此恩。
2.46.16
एते दिव्या वरास्तात मया दत्तास्तवाद्भुताः ।
सर्वकामवरांस्तात प्राप्स्यसि त्वमसंशयम् ॥ २.४६.१६ ॥
亲爱的孩子,我已赐予你这些神圣而奇妙的恩惠。亲爱的孩子,毫无疑问,你将获得满足一切愿望的恩惠。
2.46.17
एवमुक्त्वा स भगवाञ्जगामाकाशमेव हि ।
रराज ब्रह्मलोके हि ब्रह्मर्षिगणसेवितः ॥ २.४६.१७ ॥
言毕,那位世尊便升入天空,在梵界中光辉照耀,受到众梵仙的侍奉。
2.46.18
ततो देवाश्च नागाश्च गन्धर्वा मुनयस्तथा ।
वरप्रदानं श्रुत्वैव ते ब्रह्माणमुपस्थितः ॥ २.४६.१८ ॥
此时,诸神、龙蛇、乾闼婆与诸仙人闻知赐予恩惠之事,便来到梵天面前。
2.46.19
वरेणाने भगवन्बाधिष्यति स नोऽसुरः ।
तत्प्रसीदस्व भगवन्वधोपायोऽस्य चिन्त्यताम् ॥ २.४६.१९ ॥
尊贵的主啊,因那恩惠,那阿修罗将压迫我们。请您慈悲,尊贵者啊,考虑杀死他的办法吧。
2.46.20
ततो लोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः ।
प्रोवाच भगवान्वाक्यं सर्वदेवगणांस्तदा ॥ २.४६.२० ॥
此时,诸界之利益的言语被听闻后,神主、尊贵的生主(Prajāpati)便对诸天神众说了这些话。
2.46.21
अवश्यं त्रिदशास्तेन प्राप्तव्यं तपसः फलम् ।
तपसोऽन्तेऽस्य भगवान्वधं कृष्णः करिष्यति ॥ २.४६.२१ ॥
诸天神啊,他必定获得苦行的果报;在那苦行的终结之时,尊贵的黑天将使他死亡。
2.46.22
एतच्छ्रुत्वा सुराः सर्वे ब्रह्मणा तस्य वै वधम् ।
स्वानि स्थानानि दिव्यानि जग्मुस्ते वै मुदान्विताः ॥ २.४६.२२ ॥
诸天神听闻此言,从梵天处得知他的死亡之事,欢喜地各自返回自己的天界居所。
2.46.23
लब्धमात्रे वरे चापि सर्वास्ता बाधते प्रजाः ।
हिरण्यकशिपुर्दैत्यो वरदानेन दर्पितः ॥ २.४६.२३ ॥
他一得到恩惠,便开始压迫一切众生;提婆之子希兰耶迦希布,因恩赐而骄傲,便这样做了。
2.46.24
राज्यं चकार दैत्येन्द्रो दैत्यसङ्घैः समावृतः ।
सप्तद्वीपान्वशेचके लोकालोकान्तरं बलात् ॥ २.४६.२४ ॥
众阿修罗之主被诸阿修罗群所环绕,统治着王国;他以武力将七大洲以及诸世界与非世界之间的区域都置于自己的掌握之下。
2.46.25
दिव्यभोगान्समस्तान्वै लोके सर्वानवाप सः ।
देवांस्त्रिभुवनस्थांस्तु पराजित्य महासुरः ॥ २.४६.२५ ॥
他获得了世间所有的天界享乐;击败了居于三界的诸神之后,这位大阿修罗(获得了一切)。
2.46.26
त्रैलोक्यं वशमानीय स्वर्गे वसति दानवः ।
यदा वरमदोन्मत्तो न्यवसद्दानवो दिवि ॥ २.४६.२६ ॥
征服三界之后,这位檀那婆住在天上;当这位因获得恩赐而骄狂的檀那婆居住于天界之时。
2.46.27
अथ लोकान्सगस्तांश्च विजित्य स महाबलः ।
भवेयमहमेवेन्द्रः सोमोऽग्निर्मारुतो रविः ॥ २.४६.२७ ॥
于是这位大力者征服了诸界及其众神后想道:“我自己要成为因陀罗、月神、火神、风神与太阳。”
2.46.28
सलिलं चान्तरिक्षं च नक्षत्राणि दिशो दश ।
अहं क्रोधश्च कामश्च वरुणो वसवोऽर्यमा ॥ २.४६.२८ ॥
水、虚空、星宿与十方;我自己要成为愤怒与欲望、伐楼那、诸婆薮与阿里耶曼。
2.46.29
धनदश्च धनाध्यक्षो यक्षकिम्पुरुषाधिपः ।
एते भवेयमित्युक्त्वा स्वयं भूत्वा बलात्स च ॥ २.४६.२९ ॥
施财者、财神、夜叉与紧那罗之主(毗沙门);他说“我要成为这些”,便亲自以武力(成为了这一切)。
2.46.30
एषां गृहीत्वा स्थानानि तेषां कार्याण्यवाप सः ।
इज्यश्चासीन्मखवरैर्देवकिन्नरसत्तमैः ॥ २.४६.३० ॥
他占据了他们的位置,也获得了他们的职能;他受到最上等祭祀的供奉,并被诸神与紧那罗中的最优者所崇拜。
2.46.31
नरकस्थान्समानीय स्वर्गस्थांश्च चकार सः ।
एवमादीनि कर्माणि कृत्वा दैत्यपतिर्बली ॥ २.४६.३१ ॥
他将地狱中的居者救回,又将天界中的居者收为己有。强大的阿修罗之主如此这般地行事,
2.46.32
आश्रमेषु महाभागान्मुनीन्वै शंसितव्रतान् ।
सत्यधर्मपरान्दान्तान्पुरा धर्षितवांस्तु सः ॥ २.४६.३२ ॥
他从前在修行林中欺压那些大有福德、持守赞美誓愿、专注于真理与法、克制自我的仙人。
2.46.33
याज्ञीयान्कृतबान्दैत्यन्याजकांश्चैव देवताः ।
यत्रयत्र सुरा जग्मुस्तत्रतत्र व्रजत्युत ॥ २.४६.३३ ॥
这位达提耶既迫害与祭祀相关之人,也迫害主持祭祀的祭司;诸神走到哪里,他便跟到哪里。
2.46.34
स्थानानि देवतानां तु हृत्वा राज्यमकारयत् ।
पञ्चकोट्यश्च वर्षाणि अयुतान्येकषष्टि च ॥ २.४६.३४ ॥
他夺取了诸神的居所,统治其王国达五千万年及六十一阿由多年。
2.46.35
षष्टिश्चैव सहस्राणां जग्मुस्तस्य दुरात्मनः ।
एतद्वर्षं स दैत्येन्द्रो भोगैश्चर्यमवाप सः ॥ २.४६.३५ ॥
那恶念之人又过去了六万年;在此期间,这位达提耶之主获得了享受与权势。
2.46.36
तेनातिबाध्यमानास्ते दैत्येन्द्रेण बलीयसा ।
ब्रह्मलोकं सुरा जग्मुः शर्वशक्रपुरोगमाः ॥ २.४६.३६ ॥
诸神被那强大的达提耶之主深深逼迫,以湿婆与帝释为首,前往梵天之界。
2.46.37
पितामहं समासाद्य खिन्नाः प्राञ्जलयोऽब्रुवन् ॥ २.४६.३७ ॥
诸天神悲伤地走近祖父,合掌说道:
2.46.38
भगवन्भूतभव्येश नस्त्रायस्व इहागतान् ।
भयं दितिसुताद्घोराद्भवत्यद्य दिवानिशम् ॥ २.४६.३८ ॥
尊者,过去与未来之主,请护佑来到此地的我们。今日来自提迪之子的可怕恐惧日夜不息。
2.46.39
भगवन्सर्वदैत्यानां स्वयम्भूरादिकृत्प्रभुः ।
स्रष्टा त्वं हव्यकव्यानामव्यक्तः प्रकृतिर्ध्रुवः ॥ २.४६.३९ ॥
尊者,您是一切达伊提亚的自生者、初始创造之主。您是祭品与供物的创造者,未显者,原初本性,恒常者。
2.46.40
श्रूयतामापदेवं हि दुर्विज्ञेया मयापि च ।
नारायणस्तु पुरुषो विश्वरूपो महाद्युतिः ॥ २.४६.४० ॥
请听:灾难是这样的,连我也难以理解。那罗延是原人,具宇宙之形,大光明者。
2.46.41
अव्यक्तः सर्वभूतानामचिन्त्यो विभुरव्ययः ।
ममापि स तु युष्माकं व्यसने परमा गतिः ॥ २.४६.४१ ॥
他对一切众生而言是未显者,不可思议,遍在,不灭。即使对我,对你们的灾难而言,他也是最高的归宿。
2.46.42
नारायणः परोऽव्यक्तादहमव्यक्तसम्भवः ।
मत्तो जज्ञुः प्रजा लोकाः सर्वे देवासुराश्च ते ॥ २.४६.४२ ॥
那罗延高于未显者,而我生于未显者。从我诞生了众生、一切世界,以及天神与阿修罗。
2.46.43
देवा यथाहं युष्माकं तथा नारायणो मम ।
पितामहोऽहं सर्वस्य स विष्णुः प्रपितामहः ॥ २.४६.४३ ॥
诸神啊,正如我是你们的父亲,那罗延便是我的儿子。我是一切的祖父;那毗湿奴则是曾祖父。
2.46.44
निश्चितं विषुधा दैत्यं स विष्णुस्तं हनिष्यति ।
तस्य नास्ति न शक्यं च तस्माद्व्रजत माचिरम् ॥ २.४६.४४ ॥
诸神啊,那毗湿奴必定会杀死那个檀那婆。对他而言没有做不到的事;因此,你们快去吧,不要迟延。
2.46.45
पितामहवचः श्रुत्वा सर्वे ते भरतर्षभ ।
विबुधा ब्रह्मणा सार्धं जग्मुः क्षीरोदधिं प्रति ॥ २.४६.४५ ॥
婆罗多族的雄牛啊,诸神听了祖父的话,便与梵天一同前往乳海。
2.46.46
आदित्या वसवः साध्या विश्वे च मरुतस्तथा ।
रुद्रा महर्षयश्चैव अश्विनौ च सुरूपिणौ ॥ २.४६.४६ ॥
阿底提耶、婆苏、萨底耶、毗奈陀、摩录多、楼陀罗、大仙人,以及容貌俊美的两位双马神(都前往那里)。
2.46.47
अन्ये च दिव्या ये राजंस्ते सर्वे सगणाः सुराः ।
चतुर्मुखं पुरस्कृत्य श्वेतद्वीपमुपागताः ॥ २.४६.४७ ॥
国王啊,其余的天神也都率领各自的眷属,以四面梵天为前导,抵达白岛。
2.46.48
त्रायस्व नोऽद्य देवेश हिरण्यकशिपोर्वधात् ।
त्वं हि नः परमो धाता ब्रह्मादीनां सुरोत्तम ॥ २.४६.४८ ॥
诸神之主啊,今日请保护我们,免遭金鬃(希兰亚迦希普)的杀戮。诸神中最尊贵者啊,您是我们的至上护持者,也是梵天等众神的护持者。
2.46.49
उत्फुल्लाम्बुजपत्राक्ष शत्रुपक्षभयङ्कर ।
क्षयाय दितिवंशस्य शरणं त्वं भविष्यसि ॥ २.४६.४९ ॥
啊,眼如盛开莲瓣的神啊,你是敌方阵营的恐怖!为了毁灭提提之族,你将成为我们的庇护。
2.46.50
तद्देवानां वचः श्रुत्वा तदा विष्णुः शुचिश्रवाः ।
अदृश्यः सर्वभूतात्मा वक्तुमेवोपचक्रमे ॥ २.४६.५० ॥
听到诸神的这番话后,那时纯洁名声的毗湿奴——无形而为一切众生之我——开始说话。
2.46.51
भयं त्यजध्वममरा अभयं वो ददाम्यहम् ।
तदेव त्रिदिवं देवाः प्रतिपद्यत माचिरम् ॥ २.४६.५१ ॥
诸位不死者,抛弃恐惧吧;我赐予你们无畏。诸神啊,立即前往那三界之天吧。
2.46.52
एषोऽहं सगणं दैत्यं वरदानेन दर्पितम् ।
अवध्यममरेन्द्राणां दानवेन्द्रं निहन्म्यहम् ॥ २.४६.५२ ॥
我将亲自诛杀这位达那婆之主,即因恩赐而骄傲的提耶,连同他的部众;诸不死者之主们也无法杀死他。
2.46.53
भहवन्देवदेवेश खिन्ना एते भृशं सुराः ।
तस्मात्त्वं जहि दैत्येन्द्रं क्षिप्रं कालोऽस्य माचिरम्।
एष त्वं सगणं दैत्यं वरदानेन दर्पितम् ॥ २.४६.५३ ॥
诸神之主啊,这些神明极度苦恼。因此你要迅速杀死提耶之王;时机已到,不可迟延。这便是因恩赐而骄傲、连同部众的提耶。
2.46.54
क्षिप्रमेव करिष्यामि त्वरया दैत्यनाशनम् ।
तस्मात्त्वं विबुधाश्चैव प्रतिपद्यत वै दिवम् ॥ २.४६.५४ ॥
我将迅速、急速地完成对提耶的毁灭。因此,诸天神啊,你们也务必回归天界。
2.46.55
एवमुक्त्वा तु भगवान्विसृज्य त्रिदिवेश्वरान् ।
नरस्यार्धतनुर्भूत्वा सिंहस्यार्धतनुः पुनः ॥ २.४६.५५ ॥
世尊如此说罢,遣散了三界之主,化为半人半狮之身。
2.46.56
नारसिंहेन वपुषा पाणिं संस्पृश्य पाणिना ।
भीमरूपो महातेजा व्यादितास्य इवान्तकः ॥ २.४६.५६ ॥
以人狮之身,手触手,这位形貌可怖、大光明之主,如张口的死神。
2.46.57
हिरण्यकशिपुं राजञ्जगाम हरिरीश्वरः ।
दैत्यास्तमागतं दृष्ट्वा नारसिंहं महाबलम् ॥ २.४६.५७ ॥
大王啊,主哈里前往希兰耶迦叉比普处。诸阿修罗见大力人狮来到,
2.46.58
ववर्षुः शस्त्रवर्षैस्ते सुसङ्क्रुद्धास्तदा हरिम् ।
तैः सृष्टसर्वशस्त्राणि भक्षयामास वै हरिः ॥ २.४६.५८ ॥
彼时诸阿修罗极为愤怒,以兵器如雨洒向哈里;哈里吞尽了他们所投掷的一切兵器。
2.46.59
जघान न रणे दैत्यान्सहस्राणि बहूनि च ।
तान्निहत्य च दैतेयान्सर्वान्क्रुद्धान्महाबलान् ॥ २.४६.५९ ॥
于战场上,他杀死了阿修罗,数以千计及众多;将那些愤怒而强大的阿修罗尽数击杀后,
2.46.60
अभ्यधावत्सुसङ्क्रुद्धो दैत्येन्द्रं बलगर्वितम् ।
जीमूतघनसङ्काशो जीमूतघननिस्वनः ॥ २.४६.६० ॥
他极为愤怒,冲向以力量自傲的阿修罗之王,如乌云密布,发出如雷鸣般的吼声。
2.46.61
जीमूत इव दीप्तौजा जीमूत इव वेगवान् ।
सोऽतिबलं दृप्तं दृप्तशार्दूलविक्रमम् ॥ २.४६.६१ ॥
他如光耀的云、如疾驰的云,冲向那极其强大、傲慢、勇猛如骄傲雄狮的魔王。
2.46.62
दृप्तैर्दैत्यगणैर्गुप्तं खरैर्नखमुकैरुत ।
ततः कृत्वा तु युद्धं वै तेन दैत्येन वै हरिः ॥ २.४६.६२ ॥
被傲慢的魔众护卫,爪牙凶猛的那魔王。随后,与那魔王交战之后,哈里……
2.46.63
सन्ध्याकाले महातेजा भवनान्ते त्वरान्वितः ।
ऊरौ निधाय दैत्येन्द्रं निर्बिभेद नखैस्तदा ॥ २.४६.६३ ॥
黄昏时分,大光辉者急速来到屋门口,将魔王置于自己的大腿上,随即以爪将他撕开。
2.46.64
महाबलं महावीर्यं वरदानेन गर्वितम् ।
दैत्यश्रेष्ठं सुरश्रेष्ठो जघान तरसा हरिः ॥ २.४६.६४ ॥
那因恩赐而骄傲、大力大威的魔中之最,被诸神之最哈里迅速击杀。
2.46.65
हिरण्यकशिपुं हत्वा सर्वदैत्यांश्च वै तदा ।
विबुधानां प्रजानां च हितं कृत्वा महाद्युतिः ॥ २.४६.६५ ॥
杀死希兰尼亚迦西普以及当时所有的魔众,为诸神与众生造福之后,那大光辉者……
2.46.66
प्रमुमोद हरिर्देवः प्राप्य धर्मं तदा भुवि ।
एष ते नारसिंहोऽत्र कथितः पाण्डुनन्दन। ॥ २.४६.६६ ॥
于是神哈里在大地上获得了法,心中欢喜。般度之子啊,这则那罗希摩的故事已在此讲述给你。
2.46.67
शृणु त्वं वामनं नाम प्रादुर्भावं महात्मनः ॥ २.४६.६७ ॥
你听听这位大德者名为侏儒(Vāmana)的显现。