摩诃婆罗多 · 章 2.47
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.47.1
पुरा त्रेतायुगे राजन्बलिर्वैरोजनोऽभवत् ।
दैत्यानां पार्थिवो वीरो बलेनाप्रतिमो बली ॥ २.४७.१ ॥
王啊,往昔在特雷塔时代,毗卢遮那之子钵利成为提婆们的英雄之王,力量无与伦比,确实强大。
2.47.2
तदा बलिर्महाराज दैत्यसङ्घैः समावृतः ।
विजेतुं तरसा शक्रमिन्द्रस्थानमवाप सः ॥ २.४७.२ ॥
那时,大王啊,被提婆大军包围的钵利迅速夺取了因陀罗的宝座,要征服帝释天。
2.47.3
तेन वित्रासिता देवा बलिनाऽऽखण्डलादयः ।
ब्रह्माणं तु पुरस्कृत्य गत्वा क्षीरोदधिं तदा ॥ २.४७.३ ॥
诸天被钵利惊吓,在因陀罗(阿坎达拉)等人率领下,以梵天居前,于是前往乳海。
2.47.4
तुष्टुवुः सहिताः सर्वे देवं नारायणं प्रभुम् ।
स तेषां दर्शनं चक्रे विबुधानां हरिस्तदा ॥ २.४७.४ ॥
众神一同赞颂主神那罗延;于是哈里向诸天显现。
2.47.5
प्रसादजं तस्य विभोरदित्यां जन्म उच्यते ।
अदितेरपि पुत्रत्वमेत्य यादवनन्दनः ॥ २.४७.५ ॥
据说这位遍在之主出于恩典,生于阿底提;成为阿底提之子后,他成了雅达瓦族的喜乐。
2.47.6
एष विष्णुरिति ख्यात इन्द्रस्यावरजोऽभवत् ।
तस्मिन्नेव च काले तु दैत्येन्द्रो बलवीर्यवान् ॥ २.४७.६ ॥
此神名为毗湿奴,成为因陀罗的幼弟;而在同一时期,有一位具备力量与勇气的提婆之王。
2.47.7
अश्वमेधं क्रतुश्रेष्ठमाहर्तुमुपचक्रमे ।
वर्तमाने तदा यज्ञे दैत्येन्द्रस्य युधिष्ठिर ॥ २.४७.७ ॥
犹地什提啰啊,那时大阿修罗之主开始举行马祭,这是最殊胜的祭祀;当此祭祀进行之时……
2.47.8
स विष्णुर्मानवो भूत्वा प्रच्छन्नो ब्रह्मसंवृतः ।
मुण्डो यत्रोपवीती च कृष्णाजिनधरः शिखी ॥ २.४७.८ ॥
那毗湿奴化作人形,隐藏于婆罗门的装束之中,剃光了头,佩戴圣线,披着黑羚羊皮,留着发髻而来。
2.47.9
पालाशदण्डं सङ्गृह्य वामनोऽद्भुतदर्शनः ।
विश्य स बलेर्यज्ञे वर्तमानो च दक्षिणाम् ॥ २.४७.९ ॥
手持palāśa木杖的侏儒,形貌奇异,进入了钵利的祭祀,并在祭礼布施之时出现在那里。
2.47.10
देहीत्युवाच दैत्येन्द्रं विक्रमांस्त्रीनिहैव ह ।
दीयतां त्रिपदीमात्रमित्ययाचन्महासुरम् ॥ २.४७.१० ॥
他对阿修罗之主说:“请在此给我三步。”“只给三步之地吧”——他就这样向那位大阿修罗请求。
2.47.11
स तथेति प्रतिश्रुत्य प्रददौ विष्णवे तदा ।
तेन लब्ध्वा हिरर्भूमिं जृम्भयामास वै भृशम् ॥ २.४७.११ ॥
他答应说:“就这样吧。”随即把土地施给毗湿奴;毗湿奴得到此地后,果然大大地伸展开来。
2.47.12
स शिशुः सदिवं खं च पृथिवीं वच विशाम्पते ।
त्रिभिर्विक्रमणैश्चैव सर्वमाक्रमताभिभूः ॥ २.४७.१२ ॥
人主啊,那少年(毗湿奴)以三步便涵盖并征服了一切——天界、虚空、大地与言语;他是一切的降服者。
2.47.13
बलेर्बलवतो यज्ञे बलिना विष्णुना पुरा ।
विक्रमैस्त्रिभिरक्षोभ्याः क्षोभितास्ते महासुराः ॥ २.४७.१३ ॥
往昔在强大的钵利祭祀中,伟大的阿修罗被不可动摇的毗湿奴的三步所震动。
2.47.14
विप्रचित्तिमुखाः क्रुद्धाः सर्वसङ्घा महासुराः ।
नानावक्रा महाकाया नानावेषधरा नृप ॥ २.४७.१४ ॥
以毗婆其提为首的伟大阿修罗,愤怒,率领各路大军,形体扭曲各异,身躯庞大,披戴各种伪装,王啊。
2.47.15
नानाप्रहरणा रौद्रा नानामाल्यानुलेपनाः ।
स्वान्यायुधानि सङ्गृह्य प्रदीप्ता इव तेजसा ॥ २.४७.१५ ॥
凶猛,持有各种兵器,佩戴各式花鬘、涂抹香膏,手持各自兵器,光辉灿烂仿佛烈火。
2.47.16
क्रममाणं हरि तत्र उपावर्तन्त भारत ।
प्रमथ्य सर्वान्दैतेयान्पादहस्ततलैस्तु तान् ॥ २.४७.१६ ॥
他们转身面向那里迈步的哈里,婆罗多啊,用脚、手和掌击碎了所有那些提迭。
2.47.17
रूपं कृत्वा महाभीमं जहाराशु स मेदिनीम् ।
सम्प्राप्य दिवमाकाशमादित्यसदने स्थितः ॥ २.४७.१७ ॥
他化作极其可怖的形体,迅速夺取了大地;到达天界与虚空,站立在太阳的居所。
2.47.18
अत्यरोचत भूतात्मा आदित्यस्यैव तेजसा ।
प्रकाशयन्दिशः सर्वाः प्रदिशश्च महायशाः ॥ २.४७.१८ ॥
众生之魂、大名声者,以太阳的光辉而极其闪耀,照亮了一切方位与次方位。
2.47.19
शुशुभे स महाबाहुः सर्वलोकान्प्रकाशयन् ।
तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे ॥ २.४७.१९ ॥
那大臂者光耀,照亮一切世界。当他跨步行走于大地时,日月位于他的胸膛之间。
2.47.20
नभस्तु क्रममाणस्य नाभ्यां किल तदा स्थितौ ।
परमाक्रममाणस्य नानुभ्यां तौ व्यवस्थितौ ॥ २.४७.२० ॥
当他跨越天空时,那二者当时位于他的肚脐处;对于超越一切者而言,二者稳固地安置着,而非在较小之处。
2.47.21
विष्णोरमितवीर्यस्य वदन्त्येवं द्विजातयः ।
अथास्य पादाक्रमणात्पफालाण्डो युधिष्ठिरः ॥ २.४७.२१ ॥
婆罗门们如此谈论无量威力的毗湿奴。那时,因他足下的跨步,宇宙卵破裂了,般度之子坚战啊。
2.47.22
तच्छिद्रात्स्यन्दिनी तस्य पादभ्रष्टा तु निम्नगा ।
ससार सागरं सा तु पावनी सागरंगमा ॥ २.४७.२२ ॥
从那孔中流出一条河,从他的脚上落下。那条使人清净的河流向大海,抵达了海洋。
2.47.23
जहार मेदिनीं सर्वां हत्वा दानवपुङ्गवान् ।
आसुरी श्रियमाहृत्य त्रील्लोकान्स जनार्दन ॥ २.४७.२३ ॥
杀死达那婆中的最优者后,他夺取了整个大地。哦,阇那尔达那,他夺取阿修罗的荣耀,占有了三界。
2.47.24
सपुत्रदारानसुरान्पाताले संन्यवेशयत् ।
नमुचिः शम्बरश्चैव प्रह्लादश्च महामनाः ॥ २.४७.२४ ॥
他将阿修罗及其子女妻室安置于地下界帕塔拉。那摩吐奇、商跋罗,以及心胸宽广的钵罗诃罗陀亦在其中。
2.47.25
महाभूतानि भूतात्मा सविशेषानि वै हरिः ।
कालं च सकलं राजन्गात्रभूतान्यदर्शयत् ॥ २.४७.२५ ॥
国王啊,众生之魂哈里将诸大元素及其差别,以及全部时间,显示为他身体的肢体。
2.47.26
तस्य गात्रे जगत्सर्वमानीतमधिपश्यति ।
न किञ्चिदस्ति लोकेषु यदनाप्तं महात्मना ॥ २.४७.२६ ॥
在他的身体中,整个世界似乎被聚集而来。在诸世界中,没有任何东西是这位大德所未曾得到的。
2.47.27
तद्धि रूपमुपेन्द्रस्य देवदानवमानवाः ।
दृष्ट्वा संमुमुहुः सर्वे विष्णुतेजोऽभिपीडिताः ॥ २.४७.२७ ॥
众神、阿修罗与人类见到优陀陀罗(毗湿奴)的那个形象,皆被毗湿奴的光辉所压迫而迷惑。
2.47.28
बलिर्बद्धोऽभिमानी च यज्ञवाटे महात्मना ।
विरोचनकुलं सर्वं पाताले विनिवेशितम् ॥ २.४७.२८ ॥
在祭场中,那位大德束缚了傲慢的伯利,而毗卢遮那的全族都被安置于地下世界。
2.47.29
एवंविधानि कर्माणि कृत्वा गरुडावाहनः ।
न विस्मयमुपागच्छत्पारमेष्ठ्येन तेजसा ॥ २.४७.२९ ॥
虽然做了如此之事,乘迦卢荼的神并未因其至尊王权的光辉而感到惊异。
2.47.30
स सर्वमसुरैश्वर्यं सम्प्रदाय शचीपतेः ।
त्रैलोक्यं च ददौ शक्रे विष्णुर्दानवसूदनः ॥ २.४७.३० ॥
他将阿修罗的全部权势交给沙遮的主(因陀罗),而灭达那婆的毗湿奴又把三界给予了帝释。
2.47.31
एष ते वामनो नाम प्रादुर्भावो महात्मनः ।
वेदविद्भिर्द्विजैरेतच्छ्रूयते वैष्णवं यशः।
मानुषेषु ततो विष्णोः प्रादुर्भावांस्तथा शृणु ॥ २.४७.३१ ॥
这是名为侏儒(Vāmana)的伟大灵魂的显现。懂吠陀的再生者们这样传颂毗湿奴的荣耀。现在听听毗湿奴在人间的其他显现。